________________
उद्देशक : १, मूलं : १८, [भा. ५८८ ]
२०७
शुद्धिरुपलक्षणमेतत् कथमशुद्धिर्वाभवतीति ? उच्यते- आचार्यास्त्रिविधस्तद्यथा-सिंहानुगो वृषभानुगः क्रोष्टानुगञ्च । क्रोष्टुकः शृगालः यत्र यो महत्यां निषद्यायां स्थितः सन् सूत्रमर्थं वाचयति तिष्ठति वा स सिंहानुगः, यः पुनरेकस्मिन् कल्पे स्थितः सन् वाचयति तिष्ठति वा स वृषभानुगः, यस्तु जोहरणनिषद्यायामौपग्रहिकपादप्रोञ्छने वा स्थितो वाचयति तिष्ठति वा स क्रोष्टुकानुग इति । यदाचार्य आलोचनार्हो न प्राप्यते, तदा वृषभस्यापि पुरत आलोचना दातव्या । तदभावे गीतार्थस्य भिक्षोरपीति वृषभ भिक्षू अपि आचार्यवत्सिंहवृषभक्रोष्टुकानुगतया प्रत्येकं त्रिविकल्पौ वाच्यौ । आलोचका अपि त्रिविधास्तद्यथा - आचार्या वृषभा भिक्षवश्च । एकैके त्रिविकल्पाः सिंहानुगाः, वृषभानुगाः, क्रोष्टुकानुगाश्च | नवरं क्रोष्टुकानुगे विशेषः । सवदा निषद्यायां पादप्रोछने वा उत्कुटुकोवा आलोचयति, तत्र यद्युत्कुटुकः स नालोचयति, ततः शुद्धि निषद्यापादप्रोच्छनयोस्तु भजना । किमुक्तं भवति ? यद्याचार्यो महान्वा वृषभो यदि वा भिक्षुरपि ग्लान आलोचयति आलोचनार्हेण च क्रियते अनुज्ञा तदा शुद्धिः, शेषकालमशुद्धिरिति । अहवावि सभावेणं निमंसुए इति । अथवा स आचार्यो वृषभो भिक्षुर्वा स्वभावेन स्व आत्मीयो भावः स्वभावः स्वशीलमित्यर्थः । तेन क्रोष्टानुगो भवेत् । यदि वा कोऽपि धर्मश्रद्धया निषद्यायामुपवेष्टुंनेच्छति तस्य किं निषद्या कर्त्तव्या ? किंवा न कर्त्तव्या ? उच्यते भवतु यो वास वा नियमेन तस्य निषद्यां कृत्वा आलोचके नालोचयितव्यं । यदि पुनर्न करोति ततः प्रायश्चित्तमाप्नोति । अत्र दृष्टान्तोनिः श्मश्रुको राजा । जहा एगोराया निम्मंसुओ तस्स कयवित्तीकासवो सो परिभवेण न कयाइ उवट्टाएतिबाला नत्थित्ति काउंसो विणासित्तो । एवमिहापि यो निषद्यां न करोति स प्रायश्चित्तदण्डेन दण्डयते । अणो कासवो कतो सो सत्तमे सत्तमे दिवसे उब्वड्डाति सो रणा पूइती । एवमिहापि यो निषद्यां करोति स विनीतोऽयमिति यशः प्राप्नोति । परलोके कर्मक्षपणतः सिद्धिमेति । तत्पुनः प्रायश्चित्तं त्रीणिमासिकानि । तानि च सद्दशे सद्दशानुगेसद्दशस्य सद्दशानुगस्य पुरत आलोचयति वेदितव्यानि । कथमिति चेदुच्यते-सिंहानुगस्याचार्यस्य सिंहानुग एवाचार्ये आलोचयत्येकं मासिकं वृषभस्य वृषभानुगस्य वृषभ एव वृषभानुगे आलोचयति द्वितीयं, भिक्षोः क्रोष्टुकानुगस्य भिक्षादेव क्रोष्टुकानुगे आलोचयति तृतीयमिति । एतत्स्वस्थाने प्रायश्चित्तमुक्तमिदानीं स्वस्थानपरस्थानज्ञापनार्थं स्वस्थानपरस्थानेषु प्रायश्चित्तं वक्तु काम इदमाह
[ भा. ५८९]
सहाणानुगकेई परठाणानुगय केइ गुरुमादी । स निसिज्जाए कप्पो, पुंच्छ निसिज्जा च उक्कुडुओ ।।
बृ- गुर्वादयो गुरुवृषभभिक्षवः केचित् स्वस्थानानुगाः केचित् परस्थानानुगाः । तत्र आचार्यस्य सती शोभना निषद्या तस्यां स्थितस्य प्रस्थापनानुगता वृषभस्य कल्पे स्थितस्य भिक्षोः पादप्रोञ्छनकनिषद्यायां रजोहरणनिषद्यायां यदि वा यदि उत्कुडुकोऽवतिष्ठते । एव भिक्षोः स्वस्थानानुगताः । इयमत्र भावनाआचार्यस्य महत्वां निषद्यायामुपविष्टस्य यत् सिंहानुगतत्वमेतत् स्वस्थानं वृषभानुगत्वं, क्रोष्टुकानुगत्वं च परस्थानं, वृषभस्य कल्पेऽवस्थितस्य यत् वृषभानुगत्वमिदं स्वस्थानं । यत्पुनर्महत्यां निषद्यायां पादप्रोञ्छनके निषद्यायां चौपवेशनतः सिंहानुगत्वं क्रोष्टुकागत्वं च तत् परस्थानम्, भिक्षोः पादप्रोञ्छनके रजोहरणनिषद्यायामुक्कुडुकत्वेनावस्थितस्य यत् क्रोष्टुकानुगतत्वं तत् स्वस्थानं, यत्तु संनिषद्यायां कल्पे चोपवेशनतः सिंहानुगत्वं वृषभानुगत्वं च तत्परस्थानं । तत्र सिंहानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष प्रथमः । । सिंहानुगस्याचार्यस्य वृषभानुगः सन्नाचार्य आलोचयति । एष द्वितीयः २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org