________________
व्यवहार - छंदसूत्रम्-१-१/१८ प्रतिपत्तव्येति भावः । अनुशिष्टिस्तुतिरित्येकोऽर्थोऽत्रापिशब्द: सामर्थ्याद्रम्यते । एतावपि द्वी शब्दावेकाौँ । किमुक्तं भवति ? अनुशिष्टिः स्तुतिरित्यपि द्रष्टव्यमिति । सम्प्रत्यात्मीपालं भोल्लेखं दर्शयतिभा.५६६] तुमएचेव कयमिणंनसुद्धगारिस दिज्जएदंडो ।
इह मुक्कोविन मुच्चइ परत्थ इह होउवालंभो ।। वृ- त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपरि अन्यथाभावः कल्पनीयः न खलु शुद्धकारिणो लोकेऽपिदण्डो दीयते । किंचयदि इह भवे कथमप्याचार्येणैव मेवमुच्यते तथापि इह भवे मुक्तोऽपि परत्रपरलोके नमुच्यते । तस्मात्प्रमादापन्नंप्रायश्चित्तमवश्यं गुणवृद्धया कर्त्तव्यं इति इह एष भवत्युपालम्भः । एष आत्मोपालम्भः । एतदनुसारणपरोपालम्भउभयोपालम्भोऽपिभावनीयः । सम्प्रति परोपग्रहे यदुक्तं आयरितो दोसुवग्गहे य' इतितत् व्याख्यानयतिभा.५६७] दव्वणयभावेणय उवयाहो दव्य अनपानाई।
भावे पडिपुच्छाई, करतिजंवा गिलाणस्स ।। वृ- उपग्रहो द्विविधो-द्रव्येण भावेन च । तत्र दव्वे इति तृतीयार्थे सप्तमी । द्रव्येणोपग्रहः कल्पस्थितोऽनुपारिहारिकोवाऽसमर्थस्य सतोऽन्नपानाद्यानीयददाति भावे भावनोपग्रहो यत्सूत्रेऽर्थे वा प्रतिपृच्छादि करोति । अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेष भावोपग्रहः अधुना दोसु उवग्गहे य इत्यस्य व्याख्यानान्तरमाह-- |भा.५६८] परिहारानुपरिहारीदुविहेण उवगहेणआयरिओ ।
उवगेण्हइ सव्वं वा, सबालवुड्डाउलंगच्छं ।। वृ- पारिहारिकमनुपारिहारिकं च एतौ द्वावपि द्विविधेन द्रव्यरूपेण भावरूपेण चोपग्रहेणाचार्य उपगृह्णाति, उपष्टभाति ।ततः परोपग्रह आचार्य उदाहरणम् ! ‘सव्वत्थवायरिओ' इत्यस्य व्याख्यानमाहसव्वं वा इत्यादि वाशब्दः पूर्वार्दोक्तपक्षापेक्षया पक्षान्तरसूचने सर्वं पारिहारिकमनुपारिहारिकं स बालवृद्धाकुलंचगच्छमाचार्यो द्रव्यतोभावतश्चोपगृह्णाति, ततः सर्वत्रसमस्तेऽपिगच्छेआचार्य उपग्रहे वर्तते । तस्मात्परोपग्रहे स उदाहरणं अत्रैव व्याख्यानान्तरमाह[भा.५६९) अहवानुस? वा लंभुवग्गाहे कुणति तिन्नि वि गुरुसे।
सव्वस विगच्छस्स अनुसठ्ठाईणि सोकुणति । ! वृ- अथवेति प्रकारान्तरे अनुशिष्टि उपालम्भ उपग्रहान् त्रीनपि गुरुराचार्यः से तस्य पारिहारिकस्य यथायोगकरोति । न केवलंपारिहारिकस्य यथायोगकरोतिकिन्तुसर्वस्यापिगच्छस्य अनुशिष्ट्यादीनि त्रीण्यपिस आचार्यः करोति । अत्रशिष्यः प्राह|भा.५७०] . आयरिओ केरिसओ, इह लोगे कैरिसो व परलोए ।
इहलोए असारणिओ, परलोए फुइं भणंतोउ ।। वृ-यएष उपगृहकृत आचार्यस्तमेवज्ञातुमिच्छामि कीदृशः खल्वाचार्यइहलोके हितकारी कीदृशः परलोके इति सूरिराह-चतुर्विधः सामान्येनाचार्यः । तद्यथा-इहलोके हितो नामैको न परलोकहितः १, परलोकहितो नेहलोकहितः २ इहलोकहितोऽपिपरलोकहितोऽपि३, नइहलोकहितो नापि परलोकहितः ४।तत्र प्रथमद्वितीयभंगव्याख्यानमाह-'इहलाए' इत्यादि । तत्रयांवस्त्रपात्रभक्तपानादिकं समस्तमपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org