________________
उद्देशक : १, मूलं: १८, [भा. ५६२]
१९९ तत्र उपदेशप्रटानमनुशिष्टिः, स्तुतिकरणं वा अनुशिष्टिः । तत्र यत् आत्मानमात्मना अनुशास्ति सा आत्मानुशिष्टिः । यत्पुनः परस्य परेणचानुशासनंसापरानुशिष्टिः । तत्रोदाहरणम्-चम्पायांनगर्यां सुभद्रा सा हि सर्वैरपि नागरिकजनैरनुशिष्टा । यथा-धन्यासि त्वं, कृतपुण्यासि त्वमिति, । यत्पुनरात्मानं परं चानुशास्ति, सा उभयानुशिष्टिः । तथा अनाचारे कृते सति यत् सानुनयोपदेशदानमेष उपालम्भः । सोऽपि त्रिविधस्तद्यथा-आत्मनि परे तदुभये च । तत्रयदात्मानमात्मनेवोपालभते । यथा त्वयेदं कृतं तस्मात् सम्यक् सहस्वेति स आत्मोपालम्भः । परेणाचार्यादिना यदुपालम्भनं स परोपालम्भः । तत्रोदाहरणं-मृगावतिर्देवी साहिआर्यचन्दनया अकालचारिणीति कृत्वा उपालब्धा । उभयोपालम्भनो नाम यत्पुनः प्रथमत आत्मानमात्मनोपालभते पश्चादाचार्यादिना परेणोपालभ्यते, । यदि वा गुरुणोपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपाद्यमानं प्रत्युच्चरति, । एषउभयोपालम्भः । तथा उपग्रहणमुपग्रहः उपष्टंभकरणमित्यर्थः । सोऽपित्रिविधस्तद्यथा, आत्मोपग्रहः परोपग्रहउभयोपग्रहश्च । तत्र यदात्मन उपष्टम्भकरणं, स आत्मोपग्रहः । यत्पुनः परमुपगृह्णाति स परोपग्रहः । आत्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः । उपग्रहश्च स्वरूपतोद्विधा-द्रव्यतो भावतश्च । अत्र चतुर्भङ्गिका-द्रव्यतो नामैक उपग्रहो नभावतः, [भावत एकोन द्रव्यतः । एको द्रव्यतो भावतोऽपि ।एको न द्रव्यतो नापि भावतः । अत्र चतुर्थोभङ्गः शून्यः । तृतीयभङ्गे उदाहरणमाचार्यः तथा उक्तानेव दृष्टान्तानुपदर्शयति[भा.५६३] अनुसठ्ठीए सुभद्दा उवालंभंमिय मिगावती देवी ।
आयरिओ दोसुउवागहो यसव्वत्थ वायरिओ ।। वृ- अनुशिष्टौ परानुशिष्टावुदाहरणं सुभद्रा, उपालंभं परोपालंभे उदाहरणं मृगावतिर्देवी । एते च द्वऽप्युदाहरणेप्रागेवभाविते । परस्यद्रव्यभावयोर्विषेय उपग्रहे उदाहरणमाचार्यः । सहि द्रव्यमन्नपानादि दापयति, भावतः प्रतिपृच्छादिकं करोति । अथवा दोसु उदग्गहेयत्ति यद्वयोः पारिहारिकानुपारिहारिकयोरुपग्रहे आचार्यो वर्तते तस्मात् परोपग्रहे आचार्य उदाहरणं । अथवा सर्वत्र अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः । यतः स पारिहारिकरयानुपारिहारिकस्य समस्तस्यापि गच्छत्यानुशिष्ट्यादीनि करोतीति ।सम्प्रति त्रिविधामप्युनशिष्टिंभावयति.. [भा.५६४] दंडसुलभंमिलोए, मा अमतिकुणसुदंडितोमित्ति ।
एस दुलहोहुदंडो, भवदंडनिवारओजीव ।। [भा.५६५ अवि पहु विसोहिओते, अप्पानायारमइलिओजीव |
अप्पपरे उभए अनुसठ्ठीथुइतिएगट्ठा ।।। वृ- दण्डः सुलभो यत्रासौ दण्डसुलभस्तस्मिन् लोके । ए जीव मा एवंरूपाममतिं कुमतिं कुर्याः यथाहमाचार्येण प्रायश्चित्तदानतो दण्डितोऽस्मीति यत एष प्रायश्चित्तदानरूपोदण्डो दुर्लभः । कस्मात् दुर्लभइत्याह-भवदण्डनिवारकः निमित्तकारणहेतुषुसर्वासां विभक्तीनांप्रायोदर्शनमितिन्यायात् ।हेतो. प्रथमा । ततोऽयमर्थः-यत एषदण्डो भवएव संसारएव दुःसहःदुःखात्मकत्वात् दण्डीभवदण्डस्तस्य निवारको भवदण्डनिवारकः तस्मात् दुर्लभः अपि च ह निश्चितं हे जीव ते आत्मा अनाचारमलिनः प्रायश्चित्तप्रतिपत्त्या विशोधितो भवति, । तस्मात्न दण्डितोऽस्मीतिबुद्धिरात्मनि परिभावयितव्या । किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचारितिचिन्तनीयमिति । एवममुनोल्लेखेनआत्मनि परस्मिन् उभयस्मिंश्चानुशिष्टिरनुगन्तव्या । आत्मनि साक्षादियमुक्ता एतदनुसारेण परस्मिन्नुभयस्मिन्नपि च सा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org