________________
१९७
उद्देशकः १, मूलं : १८, [भा. ५५७] [भा.५५७] अवसोवरायदंडोनएयएवं तु होइ पच्छितं ।
संकरसरिसवसगडे भंडववत्थेण दिलुतो ।। वृ-अवसोइत्यत्र प्रथमातृतीयार्थे आर्षत्वात्ततोऽयमर्थः-यथाराजदण्डोऽवश्यमवशेनापिवोढव्यः, किमेवमध्यवसायंकृत्वाप्रायश्चित्तंवोढव्यमुतान्यदालम्बनं कृत्वा? |सूरिराह-नएवं राज्यदण्डन्यायेन वोढव्यं किंतु चरणविशुद्धिनिमित्तमेतत् प्रायश्चित्तमित्येवमध्यवसायेन भवति प्रायश्चित्तं वोढव्यम् । अथवा यथा राजदण्डोऽवश्यमवशेनाप्युह्यते यदि पुनर्नेतिनोह्यते ततः शरीरविनाशोभवति । एवशब्द एवंशब्दात्परतो द्रष्टव्यः । एवमेव राजदण्डन्यायेनैवप्रायश्चित्तमप्यवश्यंभवति वोढव्यं, ।तद्वहनाभावे चारित्रशरीरविनाशापत्तेः, पुनस्याह-प्रभूतंप्रायश्चित्तस्थानमापन्नमुह्यताकिंस्तोकमापनमुह्यतेन खलु किमपि तावता प्रायश्चित्तस्थाननापन्नेन भवति । अत्र आचार्यः प्राह-संकरेत्यादि, पश्चार्ध सङ्करस्तृणाद्यवकरस्तेन तथासर्षपाः प्रतीताः सर्षपग्रहणंपाषाणोपलक्षणंततोऽयमर्थः-शकटे पाषाणेन मण्डपेसर्षपण चात्र दृष्टान्तस्तथा हि-यथा सारण्या क्षेत्रे पाय्यमाने सारणिस्रोतसि तृणशूकमेकं तिर्यग् लग्नतै पनीतंतन्निश्रया अन्यान्यपितृणशूकानिलग्नानि तन्निश्रया प्रभूतः पंको लग्नः ततएवंतस्मिन् स्रोतसि रुद्ध क्षेत्रं समस्तमपि शुष्कम् । एवं स्तोकेन स्तोकेनाशोध्यमाने चरणकुल्यानिरोधे चरणक्षेत्रविनाशोभवति,ततएवं ज्ञात्वास्तोकमपिप्रायश्चित्तस्थानमापन्नंवोढव्यमिति, शकटदृष्टान्तः । तथा एकः पाषाणः शकटे प्रक्षिप्तः सनापनीतः, अन्यः प्रक्षिप्तः सोऽपिनापनीतः । एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषुभविष्यति ।सकोऽपिगरीयान्पाषाणो यस्मिन्प्रक्षिप्तेतच्छकटंभक्ष्यति, एवंस्तोकेन स्तोकेनसमापन्नेन प्रायश्चित्तस्थानेनाशोध्यमानेन कालक्रमेणचारित्रशकटं भज्यते । अथवा अन्यथा शकटदृष्टान्तभावना शकटे-एकं दारुभग्नं तन्न संस्थापितमेवमन्यदन्यत् भग्नं तन्न संस्थापितमिति सर्वभग्नमेवंचारित्रशकटेऽप्युपसंहारोभावनीयः । तथाएरण्डमण्डपे एकःसर्षपःप्रक्षिप्तःसनापनीतः, अन्यः प्रक्षिप्तः सोऽपि नापनीतः । एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु सर्षपषु भविष्यति सर्षपो येन प्रक्षिप्तेन सोऽल्पीयानेग्ण्डमण्डपोभज्यते । एवंस्तोकेनापन्नेनाशोध्यमानेनकालक्रमेण चारित्रमण्डपो भज्यते, । वस्त्रदृष्टान्तं भावना, यथा-शुद्धे वस्त्रे कर्दमबिन्दुः पतितः, सन प्रक्षालितः, अन्यः पतितः सोऽपिन प्रक्षालितः, एवंपतत्सुकर्दमबिन्दुष्वप्रक्षाल्यमानेषुकालक्रमेणस तद्वस्त्रंकर्दमवर्णसंजातम् एवंतुशुद्धचारित्रस्तोकायांस्तोकायामापतितायामापत्तौप्रायश्चित्तेनाशाध्यमानायांकालक्रमेणाचारित्रं सर्वथा भवति । एवं दृष्टान्तैः प्रायश्चत्तस्य दानकरणेच प्रसाधितेपर आह[भा.५५८] अनुकंपियायचत्ता अहवा सोही न विजए तेसिं। .
कप्पट्टगभंडीए दिटुंतो धम्मया सुद्धो ।। वृ-तुल्यायामप्यापत्तौ यस्य शुद्धतपः प्रयच्छतः स युष्माभिरनुकम्पितस्तद्विषये च भवतामवश्यं रागोऽन्यथेत्थमनुकम्पाकरणानुपपत्तेः यस्य पुनः परिहारं प्रयच्छतसपरित्यक्तःकर्कशतपोदानात्तथा च सति तस्मिन् व्यक्तं प्रद्वेषः । अथवा परलोकमपेक्ष्य परिहारतपस्वी अनुकम्पितः परिहारतपोदानेन तच्चरणशुद्धिकरणात् शुद्धतपस्वी च परित्यक्तः शुद्धतपसा तच्चारित्रस्य शुद्धवभावात् । एवं विवक्षातो द्वावप्यनुकम्पिती यदिवा त्यक्ताविति, अहवासोहीत्यादिअथवा तयोः शोधिः सर्वथान विद्यते ।तथा हि-यदि परिहारतपसा शुद्धिस्ततः शुद्धतपस्विनो नशुद्धिस्तस्य परिहारतपोऽभावात् । अथशुद्धतपसा शुद्धिस्तर्हि पारिहारिकस्ययत्परिहारतपसः कर्कशस्यकर-तत्सर्वंनिरर्थकं ।शुद्धतपसाशुद्धयभ्युपगतौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org