________________
१९६
व्यबहार - छेदसूत्रम्-१. ११८ नापि युष्माभिरतेन सह भोक्तव्यम् । तथा कल्पे समाचारात्तस्मात् आलापने प्रतिप्रच्छन्ने परिवर्तन उत्थापने वन्दने वन्दनदापने मात्रे उच्चारप्रस्रवणखेलमात्रकानयने प्रतिलेखने सङ्घाटके संघाटककरणे भक्तदाने संभोजने च सह भोजनविपये व्याघातो न कर्तव्य इति सम्बन्धः । आलापनादिभियाधातो नकार्यइत्यर्थः । एवमेतैर्दशभिः पदैर्गच्छेनसपरिहृतःसोऽपिगच्छमेतैः पदैः परिहरति, यदिपुनर्गच्छवासी एतानि पदान्यतिचरतितत इदंप्रायश्चित्तम् । [भा.५५३] संघाडगो उजावय लहुओमासोदसण्ह उपयाण ।
लहुगा यभत्तपाणे, संभोजने होंत अनुग्घाया ।। वृ- दशानां पदानां मध्ये आलापनापदादारभ्य यावदष्टमं पदं संघाटकरूपं तावदेकैकस्मिन् पदेऽतिचर्यमाणेलघुकोमासः प्रायश्चित्तं, यदिपुनर्भक्तंपानंच गच्छवासिनःप्रयच्छन्ति । ततो भक्तदानं भक्तपानदानविषयेलघुकाश्चत्वारोलघुमासाः प्रायश्चित्तं, संभोजनेसहभोजनेभवत्यनुराताः चत्वारो गुरुमासा इत्यर्थः । साम्प्रतमेतेष्वेव पदेषुपरिहारिणः प्रायश्चित्तमाह[भा.५५४] संघाडगो उजाव य गुरुमासो दसण्ह उपयाणं ।
भत्तपानेय संभुंजणेय परिहारिंगेगुरुगा ।। वृ-दशानां यदानामालोचनपदादारभ्ययावत्संघाटकः संघाटकपदंतावदेतेषुपदेषु अतिचर्यमाणेषु प्रत्येकं प्रत्येकं परिहारिक गुरुको मासः । यदि पुनर्गच्छवासिभ्यो भक्तप्रदानं करोति तैः सह भुंक्ते वा तदा प्रत्येकं भक्तदाने संभोजने च प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । यः पुनः कल्पस्थित स इदं करोति[भा.५५५] कितिकम्मंचपडिच्छइपरिण पडिपुच्छियं पिसे देइ !
सोचिअगुरुमुवचिट्ठइउदंतमवि पुच्छितोकहइए ।। वृ- कृतिकर्म वन्दनकं तत् यदि परिहारिको ददाति तदा गुरुः प्रतीच्छति । उपलक्षणमेतत्, आलोचनमपिप्रतिच्छतिपरिण्यत्तिप्रत्यूषसि अपराह्ने चपरिज्ञांप्रत्याख्यानंतस्मै ददाति । तथा सूत्रार्थे यदिवा पृच्छतिततःप्रतिपृच्छांच ददाति ।सोऽपिचपरिहारिको गुरुमाचार्यमागच्छन्तमभ्युत्थानादिना विनयेनोपतिष्टते । उदन्तः शरीरस्य च वार्त्तमानिकी वार्ता तमपि गुरुणा पृष्टः सन् कथयति । एवं स्थापनायां स्थापितायां भीतस्य पूर्वोक्तप्रकारणाश्वासनायां च कृतायां स परिहारिकतपो वोढुं प्रवर्तते । तपोवहंश्चक्लमंगतोवीर्याचारमनिगृहयन्यद्यन्ततरां क्रियांकर्तुमसमर्थोभवति, तदा अनुपारिहारिक: करोति तथा चाह[भा.५५६] उद्विज निसीइजा भिक्खं हिंडेजभंडयं पेहे ।
कुवियपियबंधवस्सवकरेइ इयरोवितुसिणीओ ।। वृ- यद्युत्थातुं न शक्नोति ततो ब्रूते उत्तिष्ठामि तदनन्तरमनुपारिहारिकः समागत्योत्थापयेत् तथा यदि निषीदनं कर्तुमसमर्थस्तदा निषीदामीति वचनानन्तरं सत्वरमागत्य निषीदयेत् । यच्च भिक्षां गतः सन् कर्तुं न शक्नोति तदपि भिक्षाग्रहणादिकं करोति । अथ ब्रूते भिक्षा एव हिण्डितुसमर्थः । यदा भिक्षामनुपारिहारिकः केवलो हिण्डेत एवं भण्डकप्रत्युपेक्षणेऽपि साहाय्यं करोति । समस्तंवा भाण्डक प्रत्युपेक्षते । कथमेतत्सर्वं करोतीत्यत आह कुवितेत्यादि, यथाकोपि कुपित प्रिय बांधवस्ययत्करणीयंतत्सर्वंतुष्णीकः करोति,एवमितरोप्यनुपरिहारिकस्तूष्णीकःसन्सर्वंकरोति, अतः पर आह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org