________________
उद्देशक : १, मूलं : १८, [ भा. ५४९ ]
१९५
वृ- कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तं निरुपसर्गं परिहारतपः समाप्तिं यायादित्येवमर्थं, तथा शेषाणां साधूनां भयजननार्थं । यथामुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मान्नैतदापत्तिस्थानं सेवनीयं, किन्तु यत्नती रक्षणीयमिति । ततः कायोत्सर्गकरणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरोश्च साधकोऽनुकूले शुभे तिथिकरणमुहूर्तादिक शुभे ताराबले शुभे च चन्द्रबले परिहारतपसः प्रतिपत्तिर्भवति । अन्यच्च कायोत्सर्गकरणानन्तरमादावेव तं पारिहारिकमिदं गुरुब्रूते[ भा. ५५० ] कप्पट्टितो अहंते, अनुपरिहारीय एस ते गीतो । पुव्वं कयपरिहारो, तस्सासितियरोवि दढदेहो ।।
वृ यावत्तव कल्पपरिहारसमाप्तिस्तावदहं तव कल्पस्थितः वन्दनवाचनादिषु कल्पभावे स्थितो न तु परिहार्यः, शेषाः पुनः साधवः परिहार्याः । अन्यच्च एष साधुर्गीतो गीतार्थः पूर्वं कृतपरिहारः, कृतपरिहारत्वेन सकलसामाचारी ज्ञाता तवानुपरिहारी यत्र यत्र भिक्षादिनिमित्तं परिहारी गच्छति तत्र तत्र अनु पश्चात् पृष्टतो लग्नः सन् गच्छतीत्यनुगच्छतीत्यनुपरिहारी अथवा अनुपरिहारीत्यपि शब्दसंस्कारः । तत्रायमन्वर्थः परिहारिणोऽणु स्तोकं प्रतिलेखनादिषु साहाय्यं करोतीत्यणुपरिहारी । तत्र यदि पूर्वं कृतपरिहारोऽनुपरिहारी न लभ्यते । ततस्तस्य असति अभावे इतरोऽपि अकृतपरिहारतया अपि दृढदेहो दृढसंहननो गीतार्थोऽनुपरिहारी स्थाप्यते । एवं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा स्थापना स्थापनीया । तां च स्थापनां स्थापयन्नाचार्यः शेषसाधूनिदं वक्ति ।
[ भा. ५५१]
एस तवं पडिवजइन किंचि आलवति माय आलवह ।
अत्तवचिंतगस्सा वा घातो भेन कायव्वो ।।
-
+
बृ- आचार्यः समस्तमपि सबालवृद्धं गच्छ्माम्रत्र्य ब्रूते एष साधु परिहारतपः प्रतिपद्यते । ततः कल्पस्थितिरेषा न किञ्चित्साधुमितरंवा आलापयति, वर्तमानसमीपे वर्तमानवद्वेति वचनतो भविष्यति वर्तमाना ततोऽयमर्थः न किञ्चिदालापयिष्यति, माच यूयमपिएनमालापयथ, आलापविष्यथ । तथा आत्मन एव केवलस्यार्थ भक्तादिलक्षणं चिन्तयति । न बालादीनां तथा कल्पसामाचारादित्यात्मार्थचिन्तकः । यदि वा आत्मार्थो नाम अतीचारमलीनस्यात्मनो यथोक्तेन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमित्यर्थः । तं चिन्तयन्तीत्यात्मार्थचिन्तकः । तस्य भे- भवद्भिरेतैः पदैर्व्याघातो न कर्तव्यः । तान्येव पदान्याह[ भा. ५५२ ]
7
आलावण पडिपुच्छण परियट्टाण वंदनग मत्ते ।
पडिलेहण संघाडग भत्तदान संभुंजणा चेव ।।
वृ- एष न किञ्चिदप्यालापयिष्यति, युष्माभिरप्येष नालापयितव्यः । तथा सूत्रमर्थमन्यद्वा किञ्चिदेष न युष्मान् प्रक्ष्यति, युष्माभिरप्येष सूत्रार्थादौ न पृष्टव्यस्तथा युष्माभिः सह नैष सूत्रमर्थं वा परिवर्तयिष्यति । नापि युष्माभिरनेन सह सूत्रादि परिवर्तनीयं । तथैव कालवेलादिषु युष्मान्नोत्थापयिष्यति, युष्माभिरप्येष नोत्थापयितव्यस्तथा न वन्दनं युष्माकमेष करिष्यति, नापि युष्माभिरेतस्य कर्तव्यम् । तथा उच्चारप्रस्रवणखेलमात्रकाण्येष युष्मभ्यं न दास्यति, नापि युष्माभिरेतस्मै दातव्यम् । तथा न किञ्चिदुपकरणमेष युष्माकं प्रतिलेखयिष्यति । नापि युष्माभिरुपकरणमेतस्य प्रतिलेखनीयं । यथा नैव युष्माकं सङ्घाटकभावं यास्यति, न च युष्माभिरेतस्य संघाटकैर्भवितव्यम् । तथान युष्मभ्यमेष भक्तं पानं वा आनीय दास्यति, न च युष्माभिरेतस्यानीय दातव्यम् । तथा नायं युष्माभिः सह भोक्ष्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org