________________
उद्देशक : १, मूलं : १८, [भा. ५४२ ]
१९३
किञ्चिन्नयूनानि दशपूर्वाणि, परिपूर्णदशपूर्वधरादीनां परिहारतपादाना योगात् । तेषां हि वाचनादिपञ्चविधस्वाध्यायविधानमेव सर्वोत्तमं कर्मनिर्जरास्थानं । गतं सूत्रार्थद्वारमिदानीमभिग्रहद्वारमाहअभिग्रह-द्रव्यादि अभिग्रहा- द्रव्यादिकास्तद्यथा द्रव्यतः क्षेत्रतः कालती भावतश्च । तत्र द्रव्याभिग्रहा अद्य मया कुल्माषा ग्राह्या यदि वा तक्रादिकमेकं द्रव्यमिति । क्षेत्रतोऽभिग्रहा देहलीमाक्रम्येत्यादिकाः । कालतोऽभिग्रहास्तृतीयस्यां पौरुष्यां । भावतोमभिग्रहा यदि हसन्ती रुदन्ती वा भिक्षां ददातीत्येवमादिकाः । गतमभिग्रहद्वारमदुना तपोद्वारमाह तपो रयणमादी तपो रत्नादिकं, पदैकदेशै पदसमुदायोपचारातू रत्नावल्यादिकं आदिशब्दात्कनकालिमुक्तावलिसिंहविक्रीडितादि तपः परिग्रहः । एवं गीतार्थत्वयथोक्तपर्यायसूत्रार्थाभिग्रहकर्कशतपः कर्मलक्षणगुणसमूहयुक्तस्य परिहारतपो दीयते । एतद्गुणविहीनस्य पुनः शुद्धं तपो देयम् । अत्र शिष्य पृच्छति
[भा. ५४३ ] एयगुणसंजयस्स उकिं कारणदिजए उपरिहारो । कम्हा पुन परिहारो न दिजए तव्विहणस्स ।।
बू- भगवन् किं कारणमेतरनन्तरोदितैर्गीतार्थत्वादिभिर्गुणैर्युक्तस्य परिहारः परिहारतपो दीयते । कस्मात्पुनस्तद्विहीनस्य गीतार्थत्वादिगुणविकल्पस्य परिहारो न दीयते ? अत्राचार्यो द्वौ मण्डपी दृष्टान्तीकरोति-शैलमण्डपमेण्डमण्डपंच । तथा चाह
[ भा. ५४४ ]
माइ ततं छुडभइ सेलमंडवेन एरंडे । उभयबलियंमि एयं, परिहारो दुब्बले सुद्धो ।।
वृ- शैलमये पाषाणभये मण्डपे यत्किमपि माति तत्सर्वं छुभ्यते प्रक्षिप्यते । तस्य तावत्यपि प्रक्षिप्ते भङ्गासम्भवात् । एरण्डे एरण्डमये पुनर्मण्डपे यन्मातिन तत्सर्वं प्रक्षिप्यते भङ्गसम्भवात्, किन्तु यावत्क्षमते तावत् प्रक्षिप्यते । एवं उभयेन धृत्या शरीरसंहननेन च बलिके बलिष्टे गीतार्थत्वादिगुणयुक्ते परिहारः परिहारतपो दीयते । दुर्बले धृत्या संहननेन वा उभयेन वा बलिविहीने शुद्धतपो दीयते । एते च परिहारशुद्धतपसी तुल्यायामप्यापत्ती पुरुषविशेषाश्रयणेन दीयते । तथा चाह
[भा. ५४५]
अविसिठा आवत्ती सुद्धतवे चैव तहय परिहारे ।
वत्युं पुन आसज्जा दिजइ इयरो वइयरो वा ।।
बृ शुद्धतपसि दातुमिष्टे परिहारे च अविशिष्टा तुल्या आपत्तिस्तथापि वस्तुधृतिसंहननसम्पन्नं पुरुषवस्तु आसाद्य अपेक्ष्य इतरत् परिहारतपो दीयते । धृतिसंहननविहीनं पुनः पुरुषवस्तु आसाद्य इतरत् शुद्धतपोदीयते । किमुक्तं भवति । यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापन्नौ तथापि यो धृतिसंहननसम्पन्नस्तस्मै परिहारतपो देयमितरस्मै तुल्यायामप्यापत्तौ शुद्धतपः । अत्र दृष्टान्तमाह[भा. ५४६ । वमणविरेयणमाई कक्खकिरिया जहाउरे वलिए।
कीरइ न दुब्बलंमी, अह विनंती भवे दुविहो ।।
बृ- यद्यपि द्वावपि पुरुषी सदृशरोगाभिभूतौ तथापि तयोर्मध्ये य आतुरः शरीरेण बलवान् तस्मिन् • बलिके यथा वमन विरेचनादिका कर्कशक्रिया क्रियते, न तु दुर्बले तस्मिन् यथा सहते तथा अकर्कशा क्रिया क्रियते । अहत्ति एष दृष्टान्तस्तपसि द्विविधे परिहारशुद्धतपोलक्षणे । इदमुक्तं भवति । अयमत्रोपसंहारो बलवत्यातुरे कर्कशक्रियेव धृतिसंहननसम्पन्ने परिहारतपो दीयते,
2113
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org