________________
उद्देशक : १, मूलं : १८, [भा. ५३६ ]
१९१
आलोचनावेलायामनुपूर्व्या आलोचितं पूर्वं लघुपञ्चकाद्यालोचितं पश्चात्गुरुमासादीत्यर्थः । एषस्तृतीयां भङ्गः तथा पञ्चानुपूर्व्याप्रतिसेवितं गुरुलघुपर्यालोचनांदिविरहितोयथा कथंचन प्रतिसेवितमितिभावः । पश्चात् पश्चादनुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैवालोचितमथवा स्मृत्वा स्मृत्वा यथा कथञ्चनाप्यालोचितमित्यर्थः । एष चतुर्थोभङ्गः । इह प्रथमचरमभंगावप्रतिकुञ्चनायां द्वितीयतृतीयभङ्गी प्रतिकुञ्चनायामिति, प्रतिकुञ्चनाऽप्रतिकुञ्चनाभ्यां चतुर्थभङ्गी कृता तामेवाह- अपलिउंचिए अपलिउंचियमित्यादि । यदा अपराधानापन्न आलोचनाभिमुखस्तदैवं कश्चित्संकल्पितवान्, यथा सर्वेप्यपराधा मया आलोचनीयाः ।
एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनवेलायामप्रतिकुञ्चितमालोचयति । एष प्रथमो भङ्गः । तथा पूर्वं संकल्पकालेऽप्रतिकुञ्चितमालोचनावेलायां तु प्रतिकुञ्चितमालोचयतीत्येष द्वितीयः । पूर्वं संकल्पकाले केनापि प्रतिकुञ्चितं यथा न मया सर्वेऽपराधा आलोचनीयाः । एवं पूर्व संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायां भावपरावृत्तेः सर्वमपि अप्रतिकुञ्चितमालोचयति । एष तृतीयो भङ्गः । तथा पूर्वं सङ्कल्पकाले केनापि प्रतिकुञ्चितं यथा न मया सर्वे अपराधा आलोचनीयाः । तत एवं संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायामपि प्रतिकुञ्चितमेवालोचयति । एष चतुर्थो भङ्गः । तत्राप्रतिकुञ्चितमालोचयतो वीप्सा साकल्येन व्याप्या भवति । ततोऽयमर्थो निरवशेषमालोचयतः सर्वमेतद्यदापन्नमपराधजातं, यदि वा कथमपि प्रतिकुञ्चना कृता स्यात्ततः प्रतिकुञ्चनानिष्पन्नं, यच्च गुरुणा सहालोचनावेलायां समासनोच्चासननिष्पन्नं या चालोचनाकाले असमाचारी तन्निष्पन्नं च सकलमेतत् स्वयमात्मनां अपराधकारिणा कृतं स्वकृतं साहणिया इति संहत्य एकत्र मीलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततः षाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः षाण्मासातिरिक्तं तत्सर्वं झोषयेत् । अथ मासादिकं प्रायश्चित्तमापन्नस्ततस्तदेव देयमिति, वाक्यशेषः । जे एयाइ इत्यादि यः साधुरेतयानन्तरोदितया षाण्मासिक्या मासिक्यादिकया वा प्रस्थापनायाः प्राक्कृतस्यामपराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थापना तथा प्रस्थापितः प्रायश्चित्तकरणे प्रवर्तितो निर्विशमानस्ततः प्रायश्चित्तमुपभुञ्जानः कुर्वाण इत्यर्थः । यत्प्रमादतो विषयकषायादिभिर्वा प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं सेवते तदपि कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापिते प्रायश्चित्ते आरोहयितव्यं स्यात् चढापयितव्यमित्यर्थः । एव संक्षेपतः सूत्रार्थः व्यासार्थं तु भाष्यकारो वदन् जे भिक्खू इत्यादि सूत्रावयवस्य व्याख्यानमतिदेशत आह
1
|
भा. ५३७]
जे च्चिय सुत्तिविभासा हेल्लिसयंमि वणिया एसा ।
सच्चिय इहंपिनेया नाणत्तं ठवणपरिहारे ।।
वृ या चैषा सूत्रविभाषा जे भिक्खू इत्यादिसूत्रावयवव्याख्या एककद्विककादिसंयोगोपदर्शनरूपा अधस्तनसूत्रे अनन्तरोदितसूत्रे वर्णिता । सैव इहापि अस्मिन्नपि सूत्रे वर्णयितव्या यदि सैव वर्णयितव्यास्ततः को विशेषः ? तत आह- नानात्वं पूर्वसूत्राद्विशेषः स्थापनापरिहारे, । इयमंत्र भावनाअधस्तनसूत्रे परिहास्तपो नोक्तमिह तु परिहारतपो विभाव्यते इति; तत्र येन वक्तव्यक्रमेण परिहारतपो वक्तव्यं भवति । तद्वक्तव्यक्रमसंसूचिकां द्वारगाथामाह
[ भा. ५३८ ]
Jain Education International
को भंते परियाओ सुत्तत्थाभिग्गहो तवो कम्मं । कक्खडमकक्खडे वा सुद्धतवे मंडवा दोन्नि ।।
For Private & Personal Use Only
www.jainelibrary.org