________________
उद्देशकः १, मूलं : १४, [भा. ५३२]
१८९ पञ्चचत्वारिंशभंगा, तेचैवं सूत्रतउच्चारणीयाः जेभिक्खूमासियंच सातिरेगमासियंच १,जेभिक्ख मासियंचदोमासियंच २,जेभिक्खूमासियंचसातिरंगदोमासियंच ३,जे भिक्खूमासियंचतेमासियं च ४, जे भिक्खू मासियं च सातिरेगतेमासियं च ५ इत्यादि । ततो यल्लब्धं पञ्चचत्वारिंशल्लक्षणं तत्त्रिकसंयोगभंगसंख्यामिच्छता प्रतिराशीकर्तव्यम् । प्रतिराश्योपरितनेनाष्टकेन गुणयेत् । एतेनान्तरोदितेन क्रमेणसर्वेष्वप्यङ्कस्थानेष्वानुपूर्व्यासर्व कर्त्तव्यं । कैरित्याह[भा.५३३J उवरिमगुणकारेहि हेहिल्लेहिंभागहरेहिं ।
जाआइमंतुट्टाणंगुणिते इमे हुंति संजोगो ।। वृ- उपरितनैर्गुणकारैस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुणनं कर्त्तव्यम् । गुणने च कृतेऽधस्तनैर्भागहरैर्भागो हर्तव्यः, भागे च हते यल्लभ्यते तैर्विवक्षितस्य त्रिकसंयोगादेभंगा । एतच्च तावत्कर्तव्यं यावदादिमं स्थानमङ्कस्थानं तत्रैवमुपरितनैर्गुणकारैर्गुणिते उपलक्षणमेतत् । अधस्तनैर्भागहारैर्भागे हृते इसे वक्ष्यमाणसङ्ख्याकाः क्रमेण संयोगा एककद्विकादिसंयोगभङ्गा भवन्ति तानेवाह[भा.५३४] दस चेव य पणयाला वीसालसयंचदो दसहियाय ।
दोन्निसया बावन्ना दसुत्तरा दोन्नि उसयाउ ।। [भा.५३५] वीसालसयं पणयालीसंदस चेव होतिएकोय ।
तेवीसंचसहस्सं अदुव अनेगा उनेयाउ ।। वृ- एककसंयोगे दश भङ्गा, द्विकसंयोगे पञ्चचत्वारिंशत्, एते च प्रागेव भाविताः । त्रिकसंयोगे वीसालसयं चेति विंशत्युत्तरंशतं ।। तच्चैवम्-पञ्चचत्वारिंशत् अष्टकेन गुणिता जातानि त्रीणि शतानि षष्टयधिकानि, एतेषांत्रिकेनाधस्तनेन भागो ह्रियते । लब्धं विशंशतं । चतुष्कसंयोगेभङ्गकानां द्वेशते दशादिके तथाहि-त्रिकसंयोगेलब्धंविशंशतंप्रतिराशीक्रियते । प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जातानि अष्टौ शतानि चत्वारिंशदधिकानि । तेषामधस्तनेन चतुष्केण भागो ह्रियते । लब्धे द्वे शते दशोत्तरे ।एवं सर्वत्रभावनाकार्या ।पञ्चकसंयोगेभङ्गकानांद्वेशतेद्विपञ्चाशदधिके, षट्कसंयोगेदशोत्तरे द्वेशते, सप्तकसंयोगे विंशत्युत्तरं शतं, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश, दशकसंयोगे एकः । सर्वसङ्घयया भङ्गानां त्रयोविंशं त्रयोविंशत्यधिकं सहस्रं । अदुव-अथवा अनेके इतोऽप्यतिप्रबूतसंख्याकाः प्रतिसेवना ज्ञातव्याः । कथमिति चेदुच्यते-एता हि अनन्तरोदिताः प्रतिसेवनाःसामान्यतउक्तास्ततएताएवभूय उद्घातविशेषणविशिष्टाज्ञातव्याः कथमितिचेदुच्यतेएता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषणविशिष्टा ज्ञातव्याः । एता एव चानुद्धातविशेषणविशिष्टास्तदनन्तरमनेका उद्घातानुद्घातसंयोगविकल्पत । ततः सर्वा अपि पिण्डीकृत्य मूलगुणोत्तरगुणापराधाभ्यां गुणयितव्यास्ततो दर्पकल्पाभ्यामेवमनेका भवन्ति ।अथवा अनेकप्रतिसेवानयनार्थभियं त्रिंशत्पदात्मकारचना कर्तव्याः ।मासिकं १ पञ्चदिनातिरेकमासिकं २ दशदिवातिरेकमासिक ३ पञ्चदशदिनातिरेकमासिकं ४ विंशतिदिनातिरेकमासिकं ५ भिन्नमासातिरेकमासिकं ६ ।एवं द्वैमासिकत्रैमासिकचातुर्मासिकञ्चमासिकेषुप्रत्येकंषट्षट्स्थानानि वेदितव्यानि । एवं षट् कानि त्रिशदेतेषु च त्रिंशतिपदेषु करणमनन्तरोदितं प्रवर्तयितव्यम् । तत्र सर्वेषामागतफलानामेकत्र संपिण्डनेनेयं सूत्रसंख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org