SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८८ व्यवहार - छेदसूत्रम्-१- १/१४ ददतिप्रयच्छन्ति ।आलोचकमुरवात् श्रवणानुसारतः प्रायेण तस्य प्रायश्चित्तदानविधिप्रवृत्तेः; यः पुनः प्रत्यक्षी प्रत्यक्षज्ञानी केवल्यादिः स पञ्चकातिरिक्ते मासे आलोचिते भावमेव तुरेवकारार्थः । रागद्वेषपरिणामं लक्षणं ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो हीनमधिकं वा, यदि वा प्रतिसेवनातुल्यं प्रायश्चित्तं प्रयच्छति; साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमसूत्रे संयोगविधिप्रदर्शनार्थमाह{भा.५२९] एथपडिसेवणातो एक्कगदुगतिगचउक्कपनगेहिं । छक्कगसत्तगअट्ठग नवदसगेहिं अनेगाउ ।। वृ-इहार्थतो नवमे सूत्रतः पञ्चमे सूत्रेसाक्षाद्दशकसंयोगस्यान्तिमानि चत्वारि पदान्युपात्तानि; तत एतैर्दशकसंयोगोदर्शितः ।सचायम्-मासिकं १ सातिरेकमासिकं र द्वैमासिकं ३सातिरेकद्वैमासिकं ४ त्रैमासिकं ५ सातिरेकत्रैमासिकं ६ चातुर्मासिकं ७ सातिरेकचातुर्मासिकं ८ पाञ्चमासिकं ९ सातिरेकपाञ्चमासिकं १० । तेन च दशकसंयोगेन शेषा अप्येककादयः संयोगाः सूचितास्तानन्तरण दशकसंयोगविकल्पस्यासंभवात्तथा चात्रपूर्वसूरयोवल्लीदृष्टान्तमुपन्यस्यन्ति ।सचप्राग्वद्भावनीयस्तत आह-अत्राधिकृतेऽर्थतो नवमे सूत्रतः पञ्चमे सूत्रे प्रतिसेवना एककद्विकत्रिकचतुष्कपञ्चकैः षट्सप्तकाष्टनवकदशकैरनेकः प्रतिसेवना उपात्ताः प्रतिपत्तव्याः । किमुक्तं भवति? दशानां पदानामेककद्विकादिसंयोगेषुयावन्तोभंगकाभवन्ति,तावत्यः प्रतिसेवना अनेक सूत्रेणसूत्रिताद्रष्टव्याः तत्रैककादिसंयोगेषुभंगसंख्यानयनाय करणमाह[भा.५३०] . करण एत्थ उइणमो एक्कादेगुत्तरा दसटवेउं । ___ हिठा पुन विवरीयं काउंरूवंगुणेयव्यं ।। वृ- अत्र एषु एककादिसंयोगेषु भङ्गकसंख्यानयनाय करणमिदं-एककादीन् एकोत्तरान् दश स्थापयित्वाएककादीन्एकोत्तरानेकोत्तरवृद्धया प्रवर्धमानान्दशकपर्यन्तान् अङ्कान्स्थापयित्वेत्यर्थः । अधस्तात पुन-विपरीतं राशिं कृत्वा, किमुक्तं भवति ये एककादय एकोत्तरदशक पर्यन्ता अङ्काः पूर्व्यानुपूर्व्या उपरि स्थापितास्तेषामधस्तात् पश्रानुपूर्व्या भूय एककादय एकोरदशकपर्यन्ता अङ्गाः स्थापनीयाः । अत्र उपरितना अङ्का गुणकारा अधस्तना भागहाराः । अत्रैककसंयोगसख्यामिच्छन अन्यदेकंसकलरूपंस्थापयेत् । स्थापयित्वा अन्तिमेनदशमेनगुणकारेणगुणयितव्यं, । तेन तस्य गुणने जाता दशैव, एकस्य गुणने तदेव भवतीति वचनात्; [भा.५३१] दसहिंगुणेउरूवं एक्केन हियंमि भागे जंलद्धं । तंपडिरासेऊणंपुनविनवेहिं गुणेयव्वं ।। वृ- दशभिर्गुणयित्वा रूपं एकेनाधस्तनेन भागहारेण भागो हरणीयः । भागे च हृते यल्लब्धं तत्प्रतिराशीक्रियते । तस्माल्लब्धाश्चात्रदशएकेन भागहारेणयदेवोपरितदेवलभ्यते इतिवचनात् लब्धा एककसंयोगे भङ्गा दश । ते एकान्ते स्थापनीयाः । तान् प्रतिराश्य स्थापयित्वा द्विकसंयोगे भङ्गसङ्ख्यामिच्छता तत्प्रतिराशीकृतंदशकलक्षणमङ्कस्थानं पुनरपिनवभिर्गुणयितव्यं जातानवतिः । [भा.५३२] दोहिं हरिऊणभागं पडिरासेऊणंतंपिजलद्धं । एएण कमेणंतुकायव्वंआनुपुव्वीए ।। वृ-तस्यानवतरधस्तनेन द्विकेनभागंहियात् । भागेहतेलब्धापञ्चचत्वारिंशत् ।आगतंद्विकसंयोगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy