SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [ भा. ५२६ ] १८७ 2 ततो मासिकादीनां लघुविशेषविवक्षायामप्येतावन्ति सूत्राणि लभ्यन्ते । एतावन्त्येव च गुरुविशेषविवक्षायामपि, सर्वमीलने द्वाविंशति शतानि पञ्चाशदधिकानि । तदनन्तरं 'जे भिक्खु पनगातिरेगमासियं वा पनगातिरेगदोमासियं वा पणगातिरंग ते मासियं वा एएसिं परिहारङ्काणाणं अनयरं परिहारद्वाणं परिसेवित्ता इत्यादीनि सूत्राणि त्रिसंयोगविषयाणि । जे भिक्खू पणगातिरेगमासियं वा पणगातिरेग दो मासियं वा पणगातिरंग तिमासियं वा पणगातिरेग चाउम्मासियं वा एएसिं परिहारट्ठाणाणमित्यादीनि चतुः संयोगविषयाणि । जेभिक्खू पणगातिरेगमासियं वा पणगातिरेगदोमासिय वा पणगातिरेगतेमासियंवा पणगातिरेगचाउम्मासियं वा पणगातिरेगपञ्चमासियं वा । एएसिं परिहारद्वाणाणमन्त्रयरं परिहारद्वाणमित्यादीनि पञ्चसंयोगविषयाणि बहनि सूत्राणि वक्तव्यानि । एतानि च गुरुलघुगतपरस्परसंयोगरहितान्युपदर्शितानि । सम्प्रति लघुगुरुगतपरस्परसंयोगविषयाण्युपदर्श्यन्ते जे भिक्खू लहुगपनगगुरुगपनगातिरेगमासिय परिहारट्ठाणं पडिसेवित्ता आलोएञ्जा इत्यादि । जे भिक्खु लहुपनगलहुदशगातिरेगमासिय परिहारद्वाणमित्यादि । जे भिक्खू लहुगपणगगुरुदशगातिरेगमासियं परिहारठाणमित्यादि एवंमासिकं लघुपञ्चकं वा मुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासाः । ततो मासिकं गुरुपञ्चकं वा मुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासः । एवंमासिकममुञ्चतापञ्चकादीनां सर्वे द्विकसंयोगास्तदनन्तरं सर्वे त्रिकसंयोगास्ततः परं सर्वे चतुष्कसंयोगा यावत्सर्वे नवकसंयोगा वक्तव्यास्ततः परमेको दशकसंयोगो वाच्यः । ततो मासलघुममुञ्चता पञ्चकदशकपञ्चदशकविंशतिपञ्चविंशतीनां गुरुलघुभेदभिन्नानां द्विकादिसंयोगादशकैक संयोगपर्यन्ताः सर्वे वक्तव्यास्ततः परमेवं मास गुरु पंचकंचा मुञ्चता वक्तव्याः । एवं द्वैमासिकादिस्थानेष्वपि प्रत्येकं संयोगतश्च पञ्चकादीनां सर्वे संयोगाः कर्तव्याः । एवमनेकसंयोगात्मकं सूत्रमेवं दशमसूत्रमपि बहुशः सकलबहुशः सातिरेकसंयोगरूपं वक्तव्यं । तत्रयेषु स्थानेषु पञ्चकं भवति तानि स्थानान्युपदर्शयति । [ भा. ५२७] ससद्धि बीघट्टे कासु मीसाएसु परिडविए । इत्तर हुमसरक्खे पनगा एमाइया होंति ।। बृ- सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणेन तथा बीजघट्टे बीजकायसंघट्टं कुर्वत्याः सकाशातू भिक्षादाने, तथा कायेषु परितकायेषु सचित्तेषु मिश्रेषु सचिताचित्तरूपेषु परीत्तकायेषु परिस्थापिते परंपरस्थापिते इतरस्मिन् वा अनन्तरस्थापिते गृह्यमाणे तथा सहमत्ति सूक्ष्मप्राभृतिकाग्रहणे सरक्खत्ति सरजस्केन हस्तेन मात्रकेन वा भिक्षाग्रहणे सर्वत्र पञ्चकं भवतीति वाक्यशेषः । किमेतेष्वेव स्थानेषु पञ्चकं भवति किं चान्येष्वपि इति चेत् उच्यतं, अन्येष्वपि तथा चाह- पनगाएमाइया होंति पञ्चकान्येवमादीनि एवमाद्यपराधहेतुकानि भवन्ति । एवमादिष्वन्येष्वप्यपराधेषु पञ्चक-द्रष्टव्यमिति भावार्थ: । साम्प्रतमालोचनार्हस्य यथा पञ्चकादि परिज्ञानं यथा च प्रायश्चित्तदानविधिः तथा प्रतिपादयति । [ भा. ५२८ ] ससद्धिमादि अहियं, पारोक्खी सोच्च देति अहियं तु । नाहि तुल्लं वा नाउं भावं तु पच्चक्खी ।। वृ- परोक्षेषु विषयेषु भवं पारोक्षं परोक्षविषयं ज्ञानं तदस्यास्तीति परोक्षी श्रुतव्यवहारी, शय्यातरपिण्डादेरधिकं सस्निग्धादि आलोचकमुखात् श्रुत्वा मासं पञ्चकादिभिरधिकमेव तुरेवकारार्थः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy