________________
१८४ .
व्यवहार - छेदसूत्रम्-१-१/१४ नालोचयिष्यतीत्येवं रूपभावसम्पादनार्थमाचार्यस्येत्येषपञ्चमआलोचनादोषः (तथा छन्नमिति प्रच्छन्नं आलोचयतिकिलमुक्तंभवंति ।लजालुतामुपदापराधानल्पशब्देन तथालोचयतियथा केवलमात्मैव शृणोतिनगुरुरित्येषषष्ट आलोचनादोषः । सद्दाउलत्तिशब्दाकुलंबृहच्छब्दंयथाभवत्येवमालोचयति इदम् उक्तं भवति । महता शब्देन तथा लोचयति यथान्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः । तथा बहजनत्ति बहजनमध्ये यद्वालोचनं तद्वहजनं अथवा बहवो जना आलोचना गुरवे यत्र तत् बहुजनमालोचनं । किमुक्तं भवत्येकस्य पुरत आलाच्य तदेवापराधजातमन्यस्यान्यस्य पुरत आलोचयति एषोऽष्टम आलोचनादोषः । अव्वत्तत्ति अव्यक्तोऽगीतार्थः । तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तमेव नवम आलोचनादोषः ।। तस्सेवीति शिष्योऽयमपराधमालोचयिष्यति तमेव सेवतेयोगुरुरसौ तस्सेवी । तस्समीपैयदपराधालोचनमेष ममातिचारेण तुल्यस्ततोन किमपि मेप्रायश्चित्तं दास्यत्यल्पंवादास्यति । नचमांखरण्टयिष्यति । यथाविरूपंकृतंत्वयेतिबुद्धया तदालोचनं तत्सेवी एष दशम आलोचनादोषः ।।
तदेवमालोचनाविधि>षा उक्ताः । सम्प्रति यथाभूतेषु द्रव्यादिष्वालोचनं तथाभूतद्रव्यादिप्रतिपादयन्नाह{भा.५२५/ आलोयणाविहाणंतंचेव दव्यखेत्तकाले य ।
भावे सुद्धमसुद्धेस सणिद्धे सातिरंगाई ।। वृ- आलोचनाविधानं तदेवात्रापि सविस्तरमभिधातव्यम् । यदुक्तं प्रथमसूत्रे दव्वादि चउरभिग्रहेत्यादिना ग्रन्थेन ततः प्रागुक्तदोषवर्जिताः आलोचना प्रशस्ते द्वव्ये क्षेत्रे काले भावे य प्रागुक्तस्वरूपेदातव्या,नाप्रशस्ते ।इहप्रतिसेवितंद्विधा भवंति-शुद्धमशुद्धंच ।तत्रयत्शुद्धेनभावेन प्रतिसेवितं यतनया च तत् शुद्धं । तच्च शुद्धत्वादेव न प्रायाश्चित्तविषयः । यत्त्वशुद्धेन भावेन प्रतिसेवितमयतनया च तदशुद्धं । तच्च प्रायश्चित्तविषयोऽशुद्धत्वात् । तस्मिंश्चाशुद्धे प्रायश्चित्तानि केवलानिमासिकादीनि सातिरेकाणिच तत्रसातिरेकाणि ससणि इति सस्निग्धे हस्तेमात्रके वा सति तेन भिक्षाग्रहणत उपलक्षणमेतत् । तेन बीजकायसंघट्टनादिनापि सातिरेकाणि द्रष्टव्यानि । तत्र सातिरेकातामेव भावयति[भा.५२६] पनगेणाहियो मासो, दसपरवेणंचवीसभिन्नणं ।
संजोगा कायव्या, गुरुलहुमीसेहिंय अनेगा ।। - इह मूलत आरभ्यामूनिसर्वाण्यप्यालोचनासूत्राणिकिल सर्वसंख्ययादशभवन्ति । तत्राद्यानि चत्वारिसूत्राणिसाक्षात्सूत्रतएव परिपूर्णान्युक्तानि ।शेषाणितुषट्सूत्राण्याभ्यांद्वाभ्यांसूत्राभ्यामर्थतः सूचितानितानिचामूनिसातिरेकसूत्रं १ बहुसातिरेकसूत्रं २ सातिरकसंयोगसूत्रं ३ बहुसातिरेकसंयोगसूत्रं ४ नवमं सकलस्यसातिरेकस्य च संयोगसूत्रं ५ दशमं बहुश: शब्दविशिष्टस्य सकलस्य बहुशः शब्दविशिष्टस्यसातिरेकस्यचसंयोगसूत्रं६ । तत्रपञ्चमंसातिरेकसूत्रंपञ्चसूत्रात्मकं तच्चैवमुच्चारणीयम्'जे भिक्खू सातिरेगमासियं परिहारद्वाणं पडिसेबित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स सातिरेगमासियं पलिउंचियआलोएमाणस्स सातिरेगदोमासियं' इदं पञ्चमसूत्रे प्रथमसूत्रम्, अत्र मासिकस्य सातिरेकतां पूर्वार्द्धन व्याख्यानयति-पञ्चकेन रात्रिंदिवपञ्चकेन मासोऽधिकः । दशत्ति दशभिरहोरात्रैः पक्षण, वीसत्ति विंशत्या रात्रिंदिवैर्भिन्नेन भिन्नमासेन पञ्चविंशत्यादिनैरित्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org