________________
उद्देशकः १, मूलं: १४, [भा. ५२१]
१८३ प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः । तथा इहलोकापायान परलोकापायांश्चदर्शयतीत्येवं शीलोऽपायदर्शी। किमुक्तं भवति? यः सम्यगनालोचयति प्रतिकुञ्चितं वा आलोचयति दत्तं वा प्रायश्चित्तं सम्यग्न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुञ्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिहलोकापायान्तथासंसारे जन्ममरणादिकंत्वया प्रभूतमनुभवितव्यम् ।दुर्लभबोधिता च तवैवं भविष्यतीत्येवं परलोकापायांश्च दर्शयति सोऽपायदर्शीति भावः । तथा न परिश्रवतीत्येवं शीलोऽपरिश्रावी । आलोचितं गोप्यमगोप्यं वा योऽन्यस्मै न कथयति सोऽपरिश्रावीति भावः । साम्प्रतमालोचकमभिधित्सुराह[भा.५२२] आलोयंतो एत्तोदसहिंगुणेहिंतुहोइउववेओ ।
जाइकुलविनयनाणे दंसणचरणेहिंसंपन्नो ।। [भा.५२३] खंते दंते अमाईअअपच्छतावीय होतिबोधव्वे ।
___ आलोयणाए दोसे एत्तो वोच्छंसमासेणं ।। वृ- इत ऊर्ध्वमालोचयन्त्रालोचको वक्तव्यः । स च दशभिर्गुणैरुपेत एव युक्त एव भवति । तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति जाति इत्यादि जातिसम्पन्नः, कुलसम्पन्नः,मातृपक्षोजातिः, पितृपक्षः कुलम् । विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः,चरणसम्पन्नः, क्षान्तः दान्तः अमायी अपश्चात्तापीच बोधव्यः ।अथकस्मादोलचकस्यैतावत् गुणसमूहोऽन्विष्यते उच्यते । जातिसम्पन्नः प्रायोऽकृत्यं न करोति । अथ कथमपि कृतं तर्हि सम्यगालोचयति, । कुसलम्पन्नः प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते । विनयसम्पन्नोनिषद्यादानादिकं विनयंसर्वंकरोति, सम्यगालोचयति । ज्ञानसम्पन्नः श्रुतानुसारेणसम्यगालोचयति, ।अमुकश्रुतेन मेतद्दत्तं प्रायश्चितमतः शुद्धोऽहमितिचजानीते,दर्शनसंपन्नःप्रायश्चित्तात्शुद्धिश्रद्धत्ते, चरणसंपन्नः पुनरतिघारंप्रायोन करोति, अनालोचितेचास्त्रिंमेनशुद्धयतीतिसम्यगालोचयति; क्षान्तोनाम क्षमायुक्तः सकस्मिंश्चित्प्रयोजने गुर्वादिभिः स्वरपरुषमपि भणितः सम्यक प्रतिपद्यते । यदपिच प्रायश्चित्तमारोपितंतत्सम्यग वहति । दान्तो नामइन्द्रियनोइन्द्रियजयसम्पन्नः प्रायश्चित्ततपः सम्यक्करोति ।माया अस्यास्तीतिमायी, नमायी अमायी सोऽप्रतिकुञ्चितमालोचयति । अपश्चात्तापी नाम यः पश्चात्परितापं न करोति हा दुष्ट कृतं मया यत् आलोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति किन्त्वेवं मन्यते । कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति अतऊर्ध्वमालोचनाया दोषान्समासेन संक्षेपेण वक्ष्ये प्रतिज्ञामेव निर्वाहयति[भा.५२४) आकंपयित्ताअनुमानयित्ताजं दिलंबायरंच सुहुवा ।
छहं सदा उलयं बहुजनअव्वत्ततस्सेवी ।। वृ- आवर्जितः सन् आचार्यः स्तोकं मे प्रायश्चित्तं दास्यतीति बुद्धया वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकंप्य आराध्य यत् आलोचयत्येष आलोचनादोषः । तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मूदु दण्डप्रदायकत्वादिस्वरूपमाचार्यश्याकलय्य आलोचयत्येषोऽप्यालोचनादोषः । तथा यदृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः ।बायरत्ति बादरंदोषजातमालोचयतिनसूक्ष्मतत्रावज्ञापरत्वादेषचतुर्थआलोचनादोषः। सुहुमंत्ति सूक्ष्मं वा दोषजातमालोचयति न बादरं यः किल सूक्ष्ममालोचयति स कथं बादरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org