________________
१८२
व्यवहार - छेदसूत्रम् - १- १/१४ रन्ना पुच्छितो । कस्सेते दंता ? सो भणति-ममंति । एत्थंतर दढमित्तं गहियं नाउं घनमित्ती आगती । रन्नो पुरती भाइ-ममेते दंता मम दंडं सारीरं वा निग्गहं करेह । दढमित्तो भणति अहमेयं न जाणामि । ममं सन्तिया दंता । मम निग्रहं करेह । एवं ते अन्नोन्नावराहखाडिया, रन्ना भणिया तो तुब्भे निरापराधी भूयत्थं कह, तेहिं सव्यं जहाभूयं कहियं । तुट्टेण रन्ना मुक्का; उम्मुक्को जहा सी दढमित्तो निरवलावो अवियमरणमप्भुवगतो न य परावराहो सिट्ठी, तहा आलोयणारिहेण अपरिसाविणा भवियव्वं । जहा सो धनमित्ती भूयत्थं कहेइ, ममेसो अवराहोत्ति एवं आलोयगेन मूलुत्तरावराहा अपलिउंचमानेन जहा ट्ठिया कहेयव्या । निकाचना किल तत्त्वत्त आलोचना । सा च आलोचना आलोचनार्हालोचकाभ्यां विना न भवतीति त्रितयमपि सप्रपञ्चं विवक्षरिदमाह
[भा. ५१९]
आलोयणारिहोआलोयओ य आलोयणाए दोसविही । पनगातिरेग जा पन्नवीस पंचमसुत्ते अह विसेसो ||
वृ- आलोचना यादृग्भवति, तादृगू वक्तव्यः । तथा आलोचकश्च यथावस्थितो यादृशो भवति तादृशोऽभिधातव्यः, आलोचनाया दोषविधयो दोषभेदा वक्तव्याः । तथा अहत्ति एष सूत्रे पञ्चमसूत्रे विशेषो यदुत चातुर्मासिकस्य पांचमासिकस्य पञ्चकातिरेको रात्रिंदिवपञ्चकेनातिरेकोऽत्यर्गलता, एव पञ्चकवृद्धयातिरेकस्तावद्वाच्यो यावत्पञ्चविंशतिः । पञ्चविंशत्यातिरेक इत्यर्थः । इयमत्र भावना-र -सूत्रे चातुर्मासिकस्य च या सातिरेकता सा दिनानां पञ्चकेन दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या वा द्रष्टव्येति । साम्प्रतमालोचनार्हो याद्दग्भवति तादृशमुपदर्शयतिआलोयणारिहो खलु निरावलावी उजह उदढमितो |
[ भा. ५२० ]
अहिं चैव गुणेहिं इमेहिं जुतो नायव्वो ।।
बृ- आलोचनार्हः खलु निरपलापी । अपलपति गूहतीत्येवं शीलोऽपलापी निश्चितमपलापी निरपलावी, नियमतोऽपरिश्रावीति भावार्थः । यथैव तुरेवकारार्थः । दृढमित्रोऽनन्तरकथानकोक्तः तथैव द्रष्टव्यः । स चाष्टभिर्गुणैरभिवक्ष्यमाणस्वरूपैर्युक्तो ज्ञातव्यः । तानेव गुणानाह
भा. ५२१]
आवार व आहारव ववहारो वीलए पकुव्र्वीया ।
निज्जव अवायदंसी, अप्परिसावीय बोधव्वो ।।
बृ- आचारो ज्ञानाचारादिरूपः पञ्च प्रकारः । सोऽस्यास्तीति आचारवान् । आ सामस्त्येन आलोचितापराधानां धारणमाधारः । सोऽस्यास्तीत्याधाखान् । आलोचकेनालोच्यमानो यः सर्वमवधारयति स आधारवानित्यर्थः । व्यवह्रियतेऽपराधजातं प्रायश्चित्तं प्रदानतो येन स व्यवहारः आगमादिरूपञ्चप्रकारः । सोऽस्यास्तीति व्यवहारवान् । यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तदानतो व्यवहरति स व्यवहारवानिति भावः । तथा अपव्रीडयति लज्जां मोचयतीत्यपव्रीडकः । आलोचकं लज्जया अतीचारान् गोपयन्तं यो विचित्रमधुरवचनप्रयोगैस्तथा कथंचनापि वक्ति । यथा स लज्जामपहाय सम्यगालाचयेति सोऽपव्रीडक इत्यर्थः । पकुव्र्वीयत्ति कुर्व इत्यागमप्रासिद्धी धातुरस्ति यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवं शीलः प्रकुर्वी । किमुक्तं भवत्यालोचके नालोचितेष्वपराधेषु यः सम्यक्प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति । निजवत्ति, निश्चितंयापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति निर्वाहयतीति यावदिति निर्यापः । अच् प्रत्ययः । अपराधकारी यथोक्तं प्रायश्चित्तं कर्तुमसमर्थो यथा निर्वहति तथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org