SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१- १/१४ कृतमित्यादिभिर्निन्दनैः प्रतनुकृतं तदा जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतस्तथा विज्ञाय तस्मै मासं भिन्नमासं यावदन्ते निर्विकृतिकमपि प्रयच्छन्ति, ततो न कश्चिद्दोषः । पुनरप्याह चोदक:[भा. ५१४ ] पत्तेयं पत्तेयं, पए पए भासिऊण अवराहे । तोकेन कारणेणं, हीनब्भहिया व पट्ट्वणा ।। बृ-पदेपदे सूत्रगते प्रत्येकं प्रत्येकमपराधानुभाषित्वा तदनन्तरमर्थतः केन कारणेन हीना अभ्यधिका वा प्रस्थापना भणिता ? । यथा स्तोके प्रायश्चित्तस्थाने बहु प्रयच्छ्य, बहुके वा स्तोकं, यदि वा सर्वथा झोषं कुरुथेति आचार्य आह [ भा. ५१५] १८० मनपरमोहिजिनं वा चउदस दस पुब्वियं च नवपुव्विं । थेरं च समासज्जाऊ नब्भहिया च पट्ट्वणा ।। वृ- मनः पर्यायज्ञानिंपरमावधिं प्रभूतावधिं जिनं वा केवलज्ञानिनं चतुर्दशपूर्विणंदशपूर्विणं नवपूर्विणं चस्थविरांश्च समासाद्याश्रित्य हीना अभ्यधिका वा प्रस्थापनाभवति । इयमत्र भावना मनः परमावधिजिनादयः प्रत्यक्षज्ञानिनस्ततस्ते प्रतिसेवकेषु रागद्वेषाध्यवसायस्थानानां हानिं वृद्धिं वा साक्षादवेक्षमाणास्तुल्येऽप्यपराधपदे रागद्वेषानुरूपं हीनमधिकं वा प्रस्थापयन्ति ददतीत्यर्थः । अथ ये मनः परमावधिजिनादयः प्रत्यक्षज्ञानिस्तेषामेतत्युक्तं रागद्वेषाध्यवसायवृद्धिहान्या साक्षादवेक्षणात् । वे पुनः स्थविरास्ते खतं रागद्वेषाणां हानिं वा वृद्धिं वा जानीयुरुच्यते । बाह्यपश्चात्तापादिलिङ्गतस्तत्र हानिपरिज्ञानलिङ्गं पश्चात्तापादिकमाह [ भा. ५१६] हा दुट्टु कयं हाडु कारियं हा दुङ्कुमनुमयंमेत्ति । अंती अंतो इज्झइ, पच्छातावेण चेवंते ।। वृ- प्राणातिपातादि कृत्वा कारयित्वा अनुमोद्य च तदुत्तरकालं हा इति विषादे दुड्डु अशोभनं मया कृतं हा दुष्ठु कारितं, हा दुष्ठु अनुमतं मे ममेत्येवंलक्षणेन पश्चात्तापेन पश्चात्तापवह्निना वेपमानः पश्चात्तापकरणतः एव कम्पमानो अनन्तरश्चित्तमध्ये दह्यते । ततो ज्ञायते स्थविरैरेतस्य रागद्वेषहानिरिति तदनुरूपं प्रायश्चित्तं प्रस्थाप्यते वृद्धिपरिज्ञानलिङ्गमाह [ भा. ५१७] जिनपत्रत्ते भावे, असद्दहंतस्स तस्स पच्छित्तं । हरिसमिव वेदयंतो, तहा तहा वड्ढए उवरिं ।। बृ-तस्य प्रायश्चित्तप्रतिपतुर्जिनैः सर्वज्ञैः प्रकर्षेण ज्ञप्ताः भावा जीवादिकास्तान् जिनप्रज्ञप्तान भावान् अश्रद्दधानस्य तथा प्राणातिपातादिकृत्वा आस्तां तदुत्तरकालं किंचा लोचनायामपि निधिलाभे हर्षमिव वेदयमानस्य यथा यथा हर्षगमनं तथा तथा प्रायश्चित्तमुपर्युपरि वर्धते । किमुक्तं भवति ? स्थविरा अपि जिनप्रज्ञप्तभावा श्रद्धानेन तथा तथा हर्षगमनेन च प्रतिसेवकस्य रागदेषवृद्धिमवगच्छत्यवगत्य च तदनुरूपमुपर्युपरि प्रायश्चित्तं प्रयच्छन्ति । (सूत्र - १३ - व्याख्या) यो भिक्षुञ्चातुर्मासिकं वा सातिरेगचातुर्मासिकं वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानमालोचयेत् तस्याप्रतिकुञ्च्यालोचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा दद्यात्सातिरेक इतिशेषः यत्प्रतिसेवितं तद् दद्यादिति भावः तद्योगैरेवाध्यवसानैस्तस्य तस्य प्रतिसेवनादालोचनायां वा तत्प्रतिकुञ्चनात् प्रतिकुञ्चयालोचयतश्चातुर्मासिकप्रतिसेवकस्य पाञ्चमासिकं सातिरेकचातुर्मासिकप्रतिसेवकस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy