________________
उद्देशक : १, मूलं : १४, [भा. ५१० ]
१७९
एकाशनं सेवित्वा एकाशनेन निर्गच्छति । एकाशनं सेवित्वा आयामाम्लेन निर्गच्छति । यावश्चरमेण एवमायाम्लादिष्वप्यूर्ध्वगमा वक्तव्याः । अत्र शिष्यः प्राह
भा. ५११]
हमने बहुसो मासिया सेविय एगेन सोउ निगच्छे । तहमने बहुसो मासियाई सेविय बहुहिं निगच्छे ।।
वृ- अहमेवं मन्ये, यथा बहुशो बहून् वारान्मासिकानि परिहारस्थानानि सेवित्या एकेन मासेन सोऽपराधकारी निर्गच्छति । अपराधपदान्निर्याति, मन्दानुभावेन प्रतिसेवनायाः कृतत्वात् । तथा एतदपि मन्ये बहुशो बहून् वारान् मासिकानि सेवित्वा कदाचित बहुभिर्भासैर्निर्गच्छति । यदि तीव्रानुभावेन प्रतिसेवना कृता स्यादिति भावः, अत्रार्थे आचार्येणाममिति वक्तव्यम् । रागद्वेषवृद्धिहानिवशत एकैकस्मिन्नापत्तिस्थाने सर्वप्रायश्चित्तानामारोपणाभावात् । तत्र यदुक्तं दशमं प्रायश्चित्तस्थानं सेवित्वा दशमेन शुद्धयति । दशमं सेवित्वा नवमेन शुद्धयति । तत्र कुट दृष्टान्तं प्रागुक्तमेव दर्शयतिएगुत्तरिया घडच्छकएणच्छेयाइं होति निग्गमनं । तेहिं तु दोसवुड्डी, उप्पत्तीरागदोसेहिं । ।
[ भा. ५१२]
बृ- एकोत्तरिका जलकुटस्य वृद्धिर्घटषट्केन जलभृतघटकषट्केन नियमयितव्याः । किमुक्तं भवति ? कोऽपि तथाविधाल्पमलः पट एकेन जलकुटेन गृहे प्रक्षाल्यते, कोऽपि बहुतरमलो द्वाभ्यां कुटाभ्यां ततोऽपि बहुतरमलस्त्रिभिः कुटैरेवं यावत् बहुतममलः षड्भिः कुटैः । एवं किमपि साधूनामपराधपदमतिप्रभूतरागद्वेषाध्यवसायोपचितं स्वपयार्यमण्डल्यादिरूपे गृह एवावस्थितानां षड्भिर्मासैः शुद्धयति किमपि स्तोकरागद्वेषाध्यवसायोपचितं पञ्चभिर्मासैस्ततोऽपि स्तोकरागद्वेषाध्यवसायोपचितं चतुर्भिर्मासैरेवमेकैकहानिस्तावद्वक्तव्या यावत्किमप्यल्पतररागद्वेषाध्यवसायोपचितमेकेन शुद्धयतीति। च्छेयादी होति निगमनं । यथा केऽपि पटा अतिप्रभूतकठिनमला गृहान्निर्गत्य बहिः सरितडागादिगत्वा बहुभिर्गोमूत्रादिभिर्बहुभिश्चाच्छोटनपिट्ट्नप्रकारैः शुद्धयन्ति । तथा निर्गमतुल्याम्छेदादयो भवन्ति । तथा हि-किञ्चिदतिप्रबलरागद्वेषाध्यवसायोपचितमपराधपदं साधूनां दशमेव पाराञ्चितामिधानेन शुद्धयति । किञ्चित्ततो हीनरागद्वेषाध्यवसायोपचितमनवस्थाप्येन, ततोऽपि हीनतररागद्वेषाध्यवसायोपचितं मूलेन, ततोऽपि हीनतमरागद्वेषाध्यवसायोपचितं च्छेदेन च्छेदादयश्च पयार्यादि गृहान्निः काशनेन भवन्तिः । ततो निर्गमनतुल्याः-छेदादयः कस्मादेवं प्रायश्चित्तहानिरत आह-तेहि तु इत्यादि, तै रागद्वेषैस्तीव्रतीव्रतरैर्दोषवृद्धे कर्मोपचयवृद्धे रुत्पत्तिरतो यथा यथा रागद्वेषाध्यवसायवृद्धिस्तथा तथा प्रायश्चित्तस्यापि वृद्धिः । यथा यथा च रागद्वेषहानिस्तथा तथा प्रायश्चित्तस्यापि हानिरिति एतदेवाहजिननिल्लेवणकुडए, मासे अपलिउंच माणे सद्वाणं ।
[ भा. ५१३ ]
मासेन विसुज्झिहिई तोदेंति गुरूवएसेणं ।।
बृ- जिनाः केवल्यवधिमनः पर्यायज्ञानिप्रभृतयः ते केवलादिबलतो यथावस्थिता रागद्वेषाध्यबसायहानिवृद्धिरूपलभ्यमाना निर्लेपनकुटान् प्रागुक्तप्रकारेण दृष्टान्तीकृत्य यो यथा शुद्धयतितस्मै तथा प्रायश्चित्तं प्रयच्छन्ति । तथा हि-मासार्है रागद्वेषाध्यवसायैर्मासे मासे प्रतिसेविते तदनन्तरमालोचनायामप्रतिकुञ्चति जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतः पाठान्तरे जिनोपदेशेन मासेनैव विंशोत्स्यतीति विज्ञाय स्वस्थानं मासिकमेव प्रायश्चित्तं ददति प्रयच्छन्ति । यदि पुनर्द्वैमासिकं त्रैमासिकं यावत्पारञ्चितं वा मासार्हेरेवं रागद्वेषाध्यवसायैस्ततो हीनतरैर्वा प्रतिसेवितं यदि पश्चात् हा दुष्ठु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International