________________
१७८
व्यवहार - छेदसूत्रम्-१- १/१४ वृ तस्मादनन्तरोदितात् पटात् परं बहुतरमलं पटं सरिदादि, सरिद्नदी, सरिद्नदी, आदिशब्दात हृदकूपतडागादिपरिग्रहः, तत्रगत्वा शोधयन्ति । एवं साधूनामप्यपराधपदानि च्छेदादिभिः पर्यायमण्डल्यादिरूपात् गृहान्निष्काशनेन जिनादयः शोधयन्ति ।मलनाणतेनेत्यादि द्वितीयादिपदेषु यथा यथामलनानात्वंतथातथा आदचनं । यत्ननानात्वमपि । आदञ्चननामगोमूत्राजालिण्डिकोखादि यत्नआच्छोटनपिट्टनादिषु प्रयत्नः तन्नानात्वमपि । तथा हि-यथा यथा मलस्योपचयस्तथा तथा बहुतरगोमूत्रादिप्रक्षेपो बहुबहुतरआच्छोटनपिट्टनादिषु प्रयत्नस्ततो भवति । मलनानात्वे आदञ्चन यत्ननानात्वमिव साधूनामप्यपराधपदेषुरागद्वेषोपचयवृद्धौमासादिवृद्धिस्तपः क्रियाधिशेषवृद्धिश्चेति चरमतृतीयभङ्गव्याख्यानार्थमाह[भा.५०९] बहुएहिं जलकुंडेहिं बहूनि वत्थाणि कानि वि विसुन्झे ।
अप्पमत्लाणि बहूणिवि कानिवसिझंति एक्केण | ! वृ-कानिचित्वस्त्राणितथाविधगाढमलानिबहनि बहुभिर्जलकुटैर्विशुद्धयन्ति । एवमपराधपदान्यपि तथाविधानि बहूनि साधूनां बहुभिर्मासैः शुद्धिमासादयन्ति । एतेन चतुर्थभङ्गो व्याख्यातः । तथा कानिचित् अल्पमलानि बहूनि वस्त्राणि एकेन जलकुटेनशुद्धयन्ति । एवं मन्दानुभावकृतानि बहून्यपि साधूनामपराधपदानि एकेन मासेन शुद्धयन्ति । एष तृतीय भंग उपदर्शितः अत्र शिष्यः प्राहरागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धातथा किंरागद्वेषहानिवशतः प्रायश्चित्तहानिरप्युपलब्धा । आचार्य प्राह-उपलब्धा तथा चैतदेव पृच्छति[भा.५१०] जहमन्ने दसमंसेविऊण निगच्छए उदसमेणं ।
तहमन्ने दसमंसेविऊण नवमेणनिग्गच्छे ।। वृ. अहं एवं मन्ये, यथा दशमं प्रायश्चित्तं पाराश्चित्तं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति । तथा एतदपिमन्ये दशमं पाराञ्चितंसेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निर्गच्छति शुद्धयति ।आचार्यआह-सत्यमेतत् । दशमंसेवित्वा दशमेनशुद्धयतिकदाचिन्नवमेनापिअनया गाथया सर्वेऽधोमुखागमाः सूचिताः ।तेचामी-दशमंसेवित्वा मूलेन निर्गच्छति, एवंषाण्मासिकेन पाश्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेनमासिकेन च वक्तव्यम् ।दशमंसेवित्वा भिन्नमासेन निर्गच्छति। दशमंसेवित्वाविंशत्यारात्रिंदिवैर्निर्गच्छतिदशमंसेवित्वा पंचदशभीरात्रिंदिवैर्निर्गच्छतिदशमंसेवित्वा दशभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा दशमभक्तेन निर्गच्छति, दशमंसेवित्वा अष्टमेननिर्गच्छति, दशमंसेवित्वाषष्ठेननिर्गच्छति, दशमंसेवित्वा पूर्वार्द्धन निर्गच्छति । दशमं सेवित्वानिर्दिकृतिकेन निर्गच्छति । तथा अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छतिअनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति । एवं यावन्निर्विकृतिकेन निर्गच्छति । एवं मूलेऽपि नेतव्यम् ।यावन्मूलंसेवित्वा निर्विकृतिकेन निर्गच्छति । एवं च्छेदे एवंषाण्मासिके,एवं पाश्चमासिके, एवं चातुर्मासिके, एवं त्रैमासिके, एवं द्वैमासिके, एवं मासिके, एवं भिन्नमासे विंशति रात्रिंदिवे पञ्चदशरात्रिंदिवे दशरात्रिंदिवेपञ्चरात्रिंदिवे, दशमभक्ते अष्टमेषष्टेचतुर्थे-आचामाम्ले एकाशनके पूर्वार्द्ध निर्विकृतिकेचगमा वक्तव्याः, तथाएतेऽपिगमाद्रष्टव्याः ।सूत्रस्यसूचकत्वानिर्विकृतिकंसेवित्वा तेनैव निर्विकृतिकेनशुद्धयति । निर्विकृतिकंसेवित्वा पूर्वार्द्धन निर्गच्छति । एवंयावच्चरमेण पाराञ्चितेन निर्गच्छति । तथापूर्वार्धसेवित्वा पूर्वार्धेन निर्गच्छति । पूर्वार्धसेवित्वाएकाशनननिर्गच्छतियावच्चरमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org