________________
उद्देशक : १, मूलं: १४, [भा. ५०५]
799 निर्लेपनकुटदृष्टान्तः । निर्लेपनोरजकः ।कुटोजलभृतोघटः ।यथा जलकुटैर्वस्त्राणिरजकः प्रक्षालयति तथापराधपदानि जिनादयो मासादिभिः शोधयन्ति । अथवा निर्लेपनं लेपस्य मलस्याभाव: । कुटो जलकुटः स दृष्टान्तः । अत्र चत्वारो भङ्गाः-एकं वस्त्रमेकेन जलकुटेन निर्लेपनं क्रियते १, एकवस्त्रमनेकैर्जलकुटैः २,अनेकानिवस्त्राणि एकेनजलकुटेन ३, अनेकानि वस्त्राणि अनेकजलकुटैः ४ ।तत्र प्रथमद्वितीयभङ्गच्याख्यानार्थमाह[भा.५०६] एगुत्तरिया घडच्छक्कएणच्छेयादिहोति नियमाणं ।
एएहिंदोसवुड्डी कम्पिजइदोहिं ठाणेहिं ।। वृ- एकोत्तरिका घटस्य वृद्धिः, घटषट्केन परिसमापयितव्या । इयमत्र भावना-कोऽप्यल्पमल: पट एकेन जलकुटेन शुद्धयति । स गृह एव प्रक्षाल्यते, एष प्रथमो भंगः । ततो मलिनतरः कठिनमलो वा पटो द्वाभ्यांकुटाभ्यां शुद्धिमासादयति,सोऽपिगृह एव प्रक्षाल्यते ।ततोऽपि मलिनतरस्त्रिभिःकुटैः सोऽपि गृहे प्रक्षाल्यते । एवमेकोतरिका वृद्धिस्तावन्नेया यावत् कोऽपि मलिनतरः षड्भिर्जलकुटैः शुद्धयति । सोऽपि गृहे एव प्रक्षाल्यते । अत्र वस्त्रस्थानीयान्यपराधपदानि मलस्थानीयानि रागद्वेषाध्यवसायस्थानानितज्जनितोवाकर्मसंचयः, जलकुटस्थानीयानिमासिकादीनि प्रायश्चित्तानि, तथा ह्यल्पमपराधपदमेकेन मासेन शुद्धयति । ततो गुर्वपराधपदं द्वाभ्यां मासाभ्यां, गुरुतरमपराधपदं त्रिभिर्मासैस्ततोऽपिगुरुतरंचतुर्भिसिर्यावत्गुरुतरमपराधपदंषड्भिर्मासैः । छेयाइहोति निगमनमिति ये गाढगाढतरादिमलाः पटास्ते गृहानिर्गत्य बहिः सरितडागादि गत्वा प्रभूतप्रभूततरैः क्षारगोमूत्रादिभिर्बहुबहुतरैराच्छोटनपिट्टनादिभिर्भहन्महत्तरप्रयत्नैः शुद्धिमासादयन्ति । तथापराधपदान्यपि गाढगादतराध्यवसायनिवर्तितानिच्छेदमूलानवस्थाप्य पाराश्चितैः पर्यायादिभ्योनिःकाशेन शुद्धयन्ति। ततो निर्गमनं निर्गमनतुल्याश्लेदादयो भवन्ति । अथ कथं जलकुटबहिर्निगमनतुल्यामासादिच्छेदादय इतिअत्राह-एएहिंइत्यादि । एताभ्यामनन्तरोदिताभ्यांद्वाभ्यांस्थापनाभ्यांमासादिच्छेदादिलक्षणाभ्यां दोषवृद्धिस्तीर्वतीव्रतररागद्वेषाध्यवसायवृद्धिस्तजनिताकर्मोपचयवृद्धिा कल्प्यते, च्छिद्यते, ततो मासादिच्छेदादयोजलकुटनिर्गमनसमानाः । साम्प्रतमेगोत्तरिया घडच्छक्कएणंति व्याख्यानयति[भा.५०७] अप्पमलो होइ सुई, कोइ पडो जलकुडेणएक्केण ।
मलपरिवुड्डीएभवे कुडपरिवुट्टी उजाछन्नू ।। वृ. कोऽपि पटोऽल्पमलः सन् एकेन जलकुटेन शुचिर्भवति शुद्धयति । एष प्रथम भङ्ग उक्तः, मलपरिवृद्धौकुटपरिवृद्धिर्भवति । साचतावत्यावत्षट् ।तुशब्दोऽतिविशेषणार्थः ।सचैतद्विशिनष्टि, षट्केनयावत्पटस्यशुद्धिर्गृह एव क्रियते । इयमत्रभावना-बहुमलः पटोद्वाभ्यांजलकुटाभ्यांशुद्धयति। बहुमलतरस्त्रिभिर्जलकुटैरेवं मलपरिवृद्धया जलकुटपरिवृद्धिस्तावदवसेया यावत् बहुमलतमः षड्भिर्जलकुटैरेतेच गृहएव प्रक्षाल्यन्ते,एवमपराधपदान्यपिमासिकादीनिसाधूनां स्वपर्यायमंडल्यादिरूपगृहे एव स्थितानि मासिकादिभिः प्रायश्चित्तैः शोध्यन्ते, एतेन द्वितीयो भंग उपदर्शितः । छेयाई होतिनिगमणमित्यस्य व्याख्यानमाह[भा.५०८) तेन परंसरियादी गंतुंसोहिंति बहुतरमलंतु ।
मलनाणत्तेन भवे,आयंचणजत्तनाणत्तं ।। 2[12]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org