________________
१७६
व्यवहार - छटपूत्रम्-१-१/१४ दत्तमेतेनाहं न शुद्धयामि प्रायश्चित्तस्य बहुत्वात् तस्मिन्नप्यपरिणामे मूलं, तथा यो धृतिदुर्बलतया पुनः पुनः प्रतिसेवतेतस्मिन्नस्थिरधृत्यवष्टम्भरहितेमूलं, तथाऽबहुश्रुतोऽगीतार्थः ।अथवानवस्थाप्यंपाराञ्चितं वाआपन्नस्तस्य वाऽबहुश्रुततया तद्दानायोग्यता तस्मिन्नप्यबहुश्रुतेमूलंदातव्यमिति ।साम्प्रतमाचार्यो विशेषं दर्शयितुकामो यदेवाधस्तादुक्तं तदेव प्रच्छयन्नाह -- [भा.५०४] जहमने एगमासियंसेविऊण एगेन सोनिग्गच्छे ।
तहमन्नेमासियसेविऊणचरमेन निग्गच्छे ।। वृ-चोदकोवक्ति-अहंएवं मन्ये यथामासिकंपरिहारस्थानंसेवित्वासोऽधिकृतप्रायश्चित्तप्रतिपन्ना एकेन मासेनेति गम्यते निर्गच्छति शुद्धयति । तथा आस्तामन्येन द्वैमासिकादिना एतदप्यहमन्ये, अतिशयज्ञापनार्थं भूयो मन्ये इत्युपादानं मासिकं संवित्वा चरमेण पाराञ्चितेन निर्गच्छति शुद्धयति । एवं चोदकेनोक्तेसत्याचार्य आह-सत्यमेतत् । यथा मासिकं सेवित्वा मासेनस निर्गच्छति तथा मासिकं सेवित्वा कदाचिच्चरमेण शुद्धयति । इह मासिकं संवित्वा मासेन शुद्धयतीत्यादि गमो गृहीतो मासिकं सेवित्वाचस्मेणशुद्धयति । इत्यन्तगमः औद्यन्नग्रहणेमध्यमस्यापिग्रहणमितिशेषा अपिगमाः सूचिताः। मासिकग्रहणेन द्वैमासिकादीन्यपि । तद्यथा-मामवित्वा मासेन निर्गच्छति तथा मासंसेवित्वाद्वाभ्यां मासाभ्यां निर्गच्छति, मासंसेवित्वा त्रिभिमासनिर्गच्छति, मासं सेवित्वा चतुर्भिमसैर्निर्गच्छति, मासं सेवित्वा पञ्चभिर्मासैर्निर्गच्छति,मासंसेवित्वापभिर्मासैनिर्गच्छति ।मासंसेवित्वाच्छेदेन निर्गच्छति, मासं सेवित्वा मूलेन निर्गच्छति । मासं सेवित्वा अनवस्थाप्येन निर्गच्छति, मासं सेवित्वा चरमेण पाराश्चितेन निर्गच्छति, तथा द्वैमासिकं सेवित्वा द्वाभ्यां मासाभ्यां निर्गच्छति । द्वैमासिकं सेवित्वा त्रिभिमसिर्निर्गच्छति एवं यावत् द्वैमासिकं संवित्वा चरमेण निर्गच्छति, तथा त्रैमासिकं सेवित्वा त्रिभिर्मासनिर्गच्छति, त्रैमासिकंसेवित्वा चतुर्भिमसिनिर्गच्छति । एवं यावत् त्रैमासिकंसेवित्वा चरमेण निर्गच्छति, तथाचातुर्मासिकंसेवित्वाचतुर्भिर्मासैर्निर्गच्छतियावच्चरमेणनिर्गच्छति । तथा पञ्चमासिक सेवित्वा पञ्चभिर्भासनिर्गच्छति । एवं यावच्चरमेण निर्गच्छति, तथा पाण्मासिकं सेवित्वा षड्भिमसिर्निर्गच्छति यावच्चरमेण निर्गच्छति । छेदंसेवित्वाच्छेदेन निर्गच्छति,यावच्चरमेण निर्गच्छति, मूलंसेवित्वामूलेन निर्गच्छतियावच्चरमेण, अनवस्थाप्यंसेवित्वाअनवस्थाप्यन निर्गच्छति,अनवस्थाप्यं सेवित्वा चरमेण निर्गच्छति । अत्र शिष्यः प्राह-यस्मिन्नापन्ने यत्तदेव दीयते तदापत्तिसमं दानमुचितं
अन्यध्शत्वासविते यदन्यादृशं दीयते । तत्रको हेतुः? ।आचार्य आह. [भा.५०५] जिननिल्लेवणकुडएमास अपलिउंचमाणेसट्ठाणं ।
मासेण विसुज्ञिहिई, तो देईगुरुवएसेणं ।। वृ- जिनाकेवलिनो जिनग्रहणादवधिमनः पर्यायज्ञानिनः चतुर्दशदशनवपूर्वधरा गृहीताः एते यथावस्थिताः संक्लेशविशोधीः परिज्ञाय अपराधनिष्पन्नं मासकादिभावनिष्पन्नंच द्विमासिकादियथा विशुद्धयति तथा तद्विशोधिनिमित्तं प्रायश्चित्तं ददति । तत्राध्यवसानेन मासे प्रतिसेविते यद्यप्रतिकुञ्चितमालोचयति । ततस्तस्मिन्नालोचनाबामप्रतिकुञ्चतिस्वस्थानमासमेव प्रयच्छन्ति ।अथ प्रतिकुञ्चनया आलोचयति । अथवा यानि द्वैमासिकादीनां प्रायश्चित्तानामाणि यानि अध्यवसाय स्थानानि तैमर्मासः प्रतिसेवितः । एष द्विमासादिभिर्मासर्विशोत्स्यतीति जिनाः केवलादिबलतः श्रुतव्यवहारिणो वा गुरूपदेशेनाधिकमपि प्रायश्चित्तं प्रयच्छति । अत्र चार्थे निल्लेवण कुडे इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org