________________
उद्देशकः १, मूलं: १४, [भा. ४८७]
वृ-सउभयतरकः प्रस्थापितंप्रायश्चित्तंवहन्वैयावृत्त्यंचकुर्वन् यदिस्तोकंबहुवा उद्घातमनुद्धातं वाप्रायश्चित्तस्थानमन्यदापनस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातंतमुद्घाती भिन्नमासोदीयते। यदि पुनरप्याद्यते ततो भूयोऽपि भिन्नमासो दीयते, एवं विंशतिवारान् भिन्नमासो दातव्यः । यदि विंशतेरिभ्यः परतोऽपि भूय आपद्यते, ततः स्तोके बहुके वा प्रायश्चित्त प्राप्ते लघुमासो दीयते । एवं भूयो भूयस्तावद्यावत्सप्तदशवाग नवरमत्रस्तोकं पञ्चकादिभिन्नमासान्तं बहु द्विमासादि पाराश्चितान्तं ततः परतो यदि पुनरपि भूयो भूय आपद्यते, ततोऽन्यत् सप्तदशवारान् द्वैमासिकंदातव्यं । अत्र स्तोकं पञ्चकादिलधुमासपर्यन्तं बहुत्रिमासादिपाराञ्चितान्तं । एवं त्रैमासिकादिष्वप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहु वेदितव्यानि । ततः सप्तदशवारेभ्यः परतो यदि भूयः पुनः पुनरापद्यते ।। ततस्त्रैमासिकंसप्तदशवारान्दीयते । ततोऽपिपरतोयदिपुनः पुनराद्यते,ततः सप्तवारान् लघु चातुर्मासिकं दीयते । ततोऽपि परतो यदि पुनर्भूयो भूय आपद्यते ततः पञ्च वारान् लघु पञ्च मासिकं दीयते । यदि ततोऽपि परतो भूय आपत्तिस्ततः एकवारं लघु पाण्मासिकं दीयते । तदनन्तरं यदि पुनरपि भूयो भूय आपत्तिस्ततस्त्रीन्वारान्छेदो दीयते । यदि ततः परमपि पुनः पुनरापत्तिस्ततरस्त्रीन्वारान् मूलं दीयते । ततोऽपिपरतोभूयो भूय आपत्तोत्रीन्वारान् अनवस्थाप्यदानं । तदनन्तरं यदि पुनरप्यापद्यते ततः एकं वारं पाराञ्चितंदानमिति । एवमसञ्चयितमुद्धातितं गतमथासञ्चयमनुवातितं प्रस्थापितं । ततोमल्पं बहु वा यदि प्रायश्चित्तस्थानमापद्यते तर्हि गुरुको भिन्नमासो दीयते । ततः पुनः पुनरापत्तौ स अष्टादश वारान् दीयते । ततः परं भूयो भूय आपत्तौ पञ्चदश वारान् गुरुमासिकं । ततः परं पञ्चदश वारान् गुरु द्वैमासिकं । ततः परं पञ्चदशवारान्गुरुद्वैमासिकं । ततः परंपञ्चदश वारान्गुरु त्रैमासिकम्ततोभूयोपि परं पंचवारान् गुरुचातुर्मासिकम् । ततः परं यदि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् गुरुपञ्चमासिकं । तदनन्तरमकवारंषट्गुरु । ततः परं छेदत्रिकं, ततो मूलत्रिकं, ततोऽनवस्थाप्य त्रिकं । तत परमेकं वारं पाराञ्चितम् ।सम्प्रत्यक्षरार्थोविव्रियते-यदि पूर्वस्थापितमुद्घातमनुद्घातंच प्रायश्चित्तंवहतोलघुभिन्नानां मासिकानां विंशतिवारान्प्रदानम्, अनुद्घातंप्रायश्चित्तंवहतोगुरुभिन्नानांमासिकानामष्टादशवारान्। तदनन्तरं भूयो भूय आपत्ताबुद्घातं प्रायश्चित्तं वहतः सप्तदश वारान् लघुमासिका भवन्ति, अनुद्धातं प्रायश्चित्तं वहतः पञ्चदश वारान् गुरुमासिकाः ।। [भा.४८८] उग्घाइयमासाणंसत्तरसेव य अनुमवंतनं ।
नायव्वा दोन्नितिन्निय, गुम्या पुन होतिपन्नरस ।। [भा.४८९] सत्तचउक्काउग्घाइयाणं, पंचव होत अनुग्घाया ।
पंच लहुयाओपंच उगुरुगा पणपंचगा तिन्नि ।। वृ-उद्घातितमासानामनुद्घातितमासानांयेसप्तदशवारास्तान् अमुञ्चताज्ञातव्यौ द्वौमासौ, त्रयश्च मासा ज्ञातव्याः वेपुनर्गुरुका द्वौत्रयश्चमासास्तेपञ्चदश वारान् ज्ञातव्याः । किमुक्तं भवति? उद्घातितं प्रायश्चित्तं वहतो मासिकानन्तरं भूयो भूव आपत्तौ द्वौ मासौसप्तदश वारान दीयते । ततोऽपि भूयो भूय आपत्तौ सप्तदशवारान्त्री मासान् अथानुद्घातितं प्रायश्चित्तं वहति, तर्हि गुरुमासिकानन्तरंभूयो भूय आपत्तों द्वो गुरुको मासौ पञ्चदश वारान् दीयते । तदनन्तरं पञ्चदशवारान् त्रीन् गुरुकान् मासानिति सप्तचउक्केत्यादि उद्घातितानां चतुष्काः सप्त भवन्ति । अनुयातितानामत्र गाथायां प्रथमा षष्ठ्यर्थे चतुष्काः पञ्च भवन्ति लघुकाः पञ्च मासा पञ्च वारान् भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रीन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org