________________
१६
व्यवहर्त्तव्यं प्राय गीतार्थेन सह नागीतार्थेन तथा चाह -
[ भा. २७]
व्यवहार - छेदसूत्रम् - १
अगीएणं सद्धिं ववहरियव्वं न चेव पुरिसेन । जम्हा सो ववहारे कयंमि सम्मं न सद्दहति ।।
वृ- इहयः स्वयंव्यवहारभवबुध्यतेप्रतिपाद्यमानो ना प्रतिपद्यते व्यवहारं, सगीतार्थ इतरस्त्वगीतार्थः, तत्रागीतेनागीतार्थेन सार्द्ध नैव पुरुषेण व्यवहर्त्तव्यं; कस्मादित्याह यस्मात्सोऽ गीतार्थो व्यवहारे कृतेऽपि न सम्यक् श्रद्धते न परिपूर्नमपि व्यवहारं कृतं, तथेति प्रतिपद्यते, इति तस्माद् गीतार्थेन सह व्यवहर्त्तव्यं, यत आह
[ भा. २८ ]
दुविहंमि ववहारे गीयत्थो पणविज्जई जं तु । तं सम्मं पडिवज्जइ गीयत्थंमी गुणा चेव ||
वृद्विविधेऽपि प्रायश्तित्तलक्षणे आभवत्सचित्तादिव्यवहारलक्षणे च व्यवहारे गीतार्थी यत्प्रत्याख्याप्यते, पाठांतरं पणविज्जइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह गीयत्थंमी गुणाचेव, गीतार्थे गुणा एव नाऽगुणाः अगुणवतो गीतार्थत्वायोगात्, यथा च गीतार्थः संप्रतिपाद्यमानः, सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह.
[भा. २९]
सचितादुप्पन्ने, गीयत्था सइदुवेह गीयाणं । एगयरेउ निउत्ते, सम्मं ववहारसहहणा ||
वृ- दोणि जना गीयत्थाविणओवसंपया इव विहरति तेसिं सचिताइ किंचिउप्पणं, तन्निमित्तं वबहारो जातो एगो भइमम भवति बिइओ मम भवइ, तत्थयसमीवे अन्नो गीयत्थो नत्थि, जस्स सगासे गच्छंति; ततो एगेन बिउ भणीतो अज्जी तुमं चेव ममं पमाणं मे भणाहि कस्सा भवति ततो सो एवं निउत्तो चिंतेइ तित्थयरानंतर संधे अहं ठविती, ता कहमहं तित्थयरानंतरं संघमइक्कमामिति भणइ तुमं चेवाभवति न ममंति एष भावार्थः, अक्षरयोजनात्वेवं सचित्ताद्युत्पन्ने आदिशब्दादचित्तमिश्रपरिग्रहः, समासश्च कर्मधारयस्ततोऽयमर्थः सचित्तशिष्येऽचित्तेवस्त्रादौ मिश्रे सोपकरणे शिष्ये उत्पन्ने सतिद्वयोः गीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन् समीपे व्यवहारपरिच्छेदकर्तरि गीतार्थेऽसति कथमप्येकतरस्मिन् गीतार्थतया निवृत्ते विवादात् प्रत्यावृते प्रागुक्तनीत्याव्यवहार श्रद्धानं भवति, सम्यकव्यवहारप्रतिपत्तिरुपजायते, कथमित्यत आह गीयोणाइयंतो इत्यादि ।
[ भा. ३०]
गीतो आणाइयंतो, छिंद तुमं चेव छेदितो संतो । कहमंतरमिवावेति, तित्थयरानंतर संघं ॥
- गीतोगीतार्थो अनतिक्रामन् यत् विवादादनतिक्रामन् द्वितीयेन गीतार्थेन सचिताद्युत्पादनसहवर्त्तिना व्यवहारममुं त्वमेव छिन्द्धि, न हित्वमगीतार्थो, नापि युक्तमयुक्तं वा त्वं न जानासि इत्येव च्छिंदितो निमंत्रितः सन् चिंतयति, अहमनेनास्मिन् व्यवहारे प्रमाणीकुर्वता तीर्थकरानंतरसंघमध्यवर्ती स्थापितः संघश्चभगवदाज्ञावर्त्तितया यथावस्थितार्थवक्ता अन्यथा तीर्थंकरानंतरत्वायोगात्, तद्यदिलोभादितयाकथमपि व्यवहारं विलोप्स्यामि ? ततो मयैव तीर्थकरानंतरः संघोऽतरितः कृतो भवेत्, तत् एवं जानन् व्यवहारविलोपनेन कथमहं तीर्थकरानंतर संघमंतर स्थापयामि अंतरयामीति चिंतयित्वा सोऽवादीत् तवैवेदमाभवति न ममेति, तस्मात् द्विविधो व्यवहारो गीतार्थेन सह कर्त्तव्यो, नागीतार्थेनगीतार्थश्च प्रियधर्मादिगुणोपेत इति प्रियधर्मादयो भावव्यवहर्त्तव्याः, ननु ये प्रियधर्म्मादयस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org