SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५६ व्यवहार - छंदसूत्रम् - १-१ /१४ किलैकेन मासेन पंचरात्रादिना वा न शुध्यतीतितस्मै अनेकान् मासान् प्रयच्छंति उपर्युपरि रागद्वेषादिवृद्धिं पश्यंतः, छेदमपि मूलमपि यावत्पारांचितमपि प्रयच्छंति, एष. तृतीयो भंगः, अनेकैमसिछेदादिभिर्वा पारांचिपर्यंतरकस्य मासस्य पंचरात्रादिकस्य शोधनात् तथा बहुपु मासेषु प्रतिसेवितेषु नूनमेप बहुभिमसिंः शोधिमासादयष्यितीत्यवबुध्यमानाः स्थापनारोपणाव्यतिरेकेण पण्मासान् प्रयच्छंति, परतस्तपः प्रायश्चित्तदानस्यासंभवात् एप चतुर्थो भंगोऽनेकैमसिंरनेकेषां मासानां शोधनात्, उपनययोजनमाह । । [भा. ४४४ ] विडभंगीव जिना खलु रोगी साहूय रोग अवराहा । सोही य ओसहाई तीए जिनाउ विसोहंति । । वृ- इह विचारप्रक्रमे विभंगिनो विभंगीतुल्याः खलु जिनाः प्रतिपत्तव्याः, रोगिणो रोगितुल्याः साधवः रोगा रोगतुल्या अपराधा मूलगुणोत्तरगुणापराधा औपधानि औपधतुल्या शोधिः प्रायश्चित्तलक्षणा यतस्तया शोध्या कृत्वा जिना अपि शोधयंति, नैवमेव तत औषधस्थानीया शोधिः एवं जिनं प्रतीत्य दोषा एकत्वमापन्नाः संप्रति यथा चतुर्द्दशपूर्विणमधिकृत्य दोषाणामेकत्वं भवति, तथा प्रतिपादयति [ भा. ४४५ ] एसेवय दिती, विभंगिकएहिं विज्ज सत्थेहिं । भिसज्जा करेति किरिथं, सोहति तहेव पुव्वधरा ।। वृ- एष एव घृतकुटलक्षण औषशधलक्षणो वा दृष्टांतचतुर्द्दशपूर्विणोपियोजनीयः, यतीयथा भिपजो भिषग्वरा विभंगिकृतै वैद्यशास्त्रैर्विभंगियत् चतुर्भीगिकविकल्पेनाऽपि तथा रोगापनयनक्रियां कुर्वति, तथा चतुर्द्दशपूर्वधरास्त्रयोदशपूर्वधरा यावदभिन्न दशपूर्वधरा जिनोपदिष्टैः शास्त्रेर्जिना इव चतुर्भगविकल्पतः प्रायश्चित्तप्रदानेन प्राणिनीपराधमलिनान् शोधयंति, ततस्तत्रापि घृतकुटदृष्टांतः केवलीपधदृष्टांतो वा योजनीय इति, आह परः ननु जिनाः केवलज्ञानसामर्थ्यतः प्रत्यक्षे रागादिवृद्भववृद्धी पश्यंति, ततस्ते चतुर्भगविकल्पतः प्रायश्चित्तं ददतु तथा शुद्धिदर्शनाच्चतुर्दशपूर्विणस्तु साक्षात् नैवेक्षंते ततः कथं ते तथादधुरिति, नैष दोप:, तेषामपि तथाज्ञानात्, तथाचात्र नाकिकादृष्टांतः । । [भा. ४४६ ] नालीए परुवाणया, जहतीए गतो उनजए काली । तह पुव्वधरा भावं, जाणंति विसुज्झएजैन || वृ- नालिका नाम घटिका, तस्याः पूर्वं प्ररूपणा कर्त्तव्या यथा पादलिप्तकृतविवरण कालज्ञाने सा चैवं दाडिमपुकारा लोहमची नालिया उकायव्या । तीसेतलंमि छिद्दं छिद्दपमाणं च मे सुणह ।। छन्नज्यमूलबा लेहिं तिवस्स जाया एगयकुमारीए । उज्जुकयपिंडिएहिं कायव्वं नालियाछिदं ।। अहवा दुवस्स जाया गयकुमारीए पुच्छबा लेहिं । विहिं विहिं गुणेहिं तहिं उ कायव्वं नालियाछिदं । । अहवा सुवणमासेहिं, चउहिं चउरंगुला कया सूई । नालयतलंमि तीए कायव्वं नालियाछिद्दं । । वृ- इत्यादि, तथा नालिकया यथोदकसंगलनेन दिवसस्य रात्रेर्वा गतोऽतीतो वाऽवशिष्टो वा कालो ज्ञायते, यथा एतावत् दिवसस्य रात्रेर्वा गतमेवावत्तिष्ठति, तथा पूर्वधरा अपि चतुर्दशपूर्वधरादयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy