________________
१५४
ततो निशीथमपि कुतः सिद्धमित्यत आह - [भा. ४३७ |
व्यवहार - छंदसूत्रम्-१-१/१४
निसीहं नवमा पुव्वा, पञ्चक्खाणस्स तइय वत्थूओ । आयारनामधेज्जा, वीस इमा पाहुडछेया ।।
बृ- प्रत्याख्यानस्याभिधायक् नवमं पूर्वं प्रत्याख्याननामकं तस्मात्: तत्रापि तृतीयादाचारनामधेयाद्वस्तुनस्तत्रापि विंशतितस्मात् प्राभृतछेदान्निशीथमध्ययनं सिद्धं, इयमत्र भावना उत्पादपूर्वादीनि चतुर्द्दश पूर्वाणि तत्र नवमं पूर्वमं प्रत्याख्याननामकं तस्मिन् विंशतिवस्तूनि वस्तूनि नाम अर्थाधिकारविशेषास्तेषु विंशतौ वस्तुषु तृतीयमाचारनामधेयं वस्तु तत्र विंशतिः प्राभृतभेदाः, परिमाणपरिछिन्नाः, प्राभृतशब्दवाच्याः छेदा अर्थछेदास्तेषु यो विंशतितमः प्राभृतछेदः, तस्मान्निशीथं सिद्धमिति, अत्राह शिष्यः, सर्वसाधूक्तं किंतु
[ भा. ४३८]
पत्तेयं पत्तेयं पए पए भासिऊण अवराहे । तो के कारण दोसा एगत्तमावन्ना ||
बृ- एकोनविंशतावुद्देशकेषु पदे पदे सूत्रे सूत्रे वा यदिवा उद्देशके प्रत्येकं प्रत्येकं एकस्य दोषस्य प्रति प्रत्येकं अत्राभिमुख्ये प्रतिशब्दो यथा प्रत्यग्नि शलभाः पतंतीत्यत्र वीप्सायामतः प्रत्येकशब्दस्य वीप्साविवक्षायां द्विवचनं अपराधान् अपराधे सति मासिकादिकं प्रायश्चित्तं दीयते इति उपचारतः प्रायश्चित्तानेयावापराधशब्देनोक्तानि तान् भणित्वा यथा केषुचिदपराधेषु मासलघु, केषुचित् मासगुरु, केचिच्चातुर्मास लघु, केषुचिचातुर्मासगुरु, एवंसूत्रता अर्थतश्च केषुचिल्लघुपंचकं, केषुचिद्गुरुपंचकमेवं, यावत् केषुचिद् भिन्नलघु, केषुचिद् भिन्नमासगुरु, तथा केषुचिदपराधेषु षट्लघु केषुचित् षट्गुरु, केषुचित छंदकेषु चित मूलं, केषचिदनवस्थाप्यं, केपुचित पारांचित, एवं दोपेषु प्रत्येक प्रत्येकं प्रायश्चित्तानि भाषित्वा भूय इदमुक्तं यथा एकः पुरुषो गुरुकं मासिकमापन्नो ऽपरो लघुमासिकं, तयोर्द्वयोरपि कदाचित् गुरुकं मासिकं दद्यात् कदाचिल्लघुमासिकं, तथा एको लघुपंचकमापन्नोऽपरो गुरुपंचकं, तयोर्द्वयोरपि कदाचिल्लघु पंचकं दद्यात् गुरुपंचकं, तथा एकः पंचकमापन्नोऽपरीदशकं, तयोर्द्वयोरपि कदाचित् पंचकं दद्यात्, कदाचित दशकमेवं, पंचदशक विंशति रात्रि भिन्नमास मास द्विमास त्रिमास चतुर्मास पंचमास षण्मास छेदादिक्रमेण तावद् वाच्यं यावत् पारांचितं तद्यथा एकः पंचकमापन्नोऽपरः पारांचित् तयोर्द्वयोरपि कदाचित् पंचकं दद्यात्, कदाचित्पारांचित्तमिति, एवं दशकादिकमपि स्वस्थाने गुरुलघु विकल्पतः परस्थाने पंचदशादिभिः सहवक्तव्यं, यावत्पारांचितमेतच्च तदोपपद्यते, यदा दोपाणामेकत्वं भवति, तच्चदुरूपपादमतः पृच्छति, ती केनेत्यादि, यतो दोषेषु प्रत्येकं प्रायश्चित्तान्युक्त्वा पश्चात् दोषाणामेकत्वे प्रायश्चिताज्ञयुक्तानि ततः कथय केन ( प्रकारेण ) कारणेन दोषाः परस्परंगुरुगुरुतरादिन या महदं तराला अपि एकत्वमापन्नाः सूरिराह
+
7
[ भा. ४३९ ]
जिन चीद्दसजातीए आलोयण दुब्बलेय आयरिए ।
एएण कारण दोसा एगत्तमावन्ना ।।
Jain Education International
वृ- जिनं प्रतीत्य चोदसत्ति चतुर्दशपूर्वधरमुपलक्षणमेतत् यावद् भिन्नदशपूर्वधरं प्रतीत्य तथा जातिएत्ति एकजातीयं प्रतीत्य तथा आलोचनां प्रतीत्य दुर्बलं प्रतीत्य आचार्यं प्रतीत्य दोपाणामन्यथात्वमपि भवति, तत एतेन जिनाद्याश्रयलक्षणेन कारणेन दोषा एकत्वमापन्नाः, जिनादीन प्रतीत्य दोषाणामेकत्वमभूदिति भावः तद्यथाद्ययोर्द्वयोर्यथाक्रमं घृतकुटनालिकादृष्टांतावपरयोस्तुद्व
For Private & Personal Use Only
www.jainelibrary.org