SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५२ व्यवहार - छेदसूत्रम् - १-१/१४ लब्धा मासास्तेष्वेकभागः, तेष्विति वाक्यशेषः समं दिवसग्रहणं भवति, अथ द्वयादिभागस्थास्ततः प्रत्येकं भागेषु ग्रहणं द्रष्टव्यं तद्यथा आद्यभागगतेषु मासेषु प्रत्येकं पंचदशदिवसग्रहणं, शेषभागगतपु पुनः सर्वत्र पंचदिवसग्रहणमिति ।। अकृत्स्नायामारोपणायां पुनर्नियमतो विषमं दिवसग्रहणं, तच्चावश्यंभावि विषमं दिवसग्रहणं झोपवशाद् भवति तथाचाह, झोषः यथा शुध्यति, तथा दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं च करणमिदं - [ भा. ४३१] जइ इच्छसि नाऊणं ठेवणारोवण जहाहि मासेहिं । गहियं तद्दिवसेहिं तम्मासेहिं हरे भागं ।। वृ- अस्यायमर्थः यदि दिवसग्रहणंज्ञातुंइच्छसि, ततः स्थापनारोपणाः स्थापनारोपणामासान्मासेभ्यः संचयमासेभ्यो जहाहि परित्यज च, परित्यज्य च कुतो मासात् किं गृहीतमिति जिज्ञासायां तद्दिवसेभ्यः स्थापनारोपणाशुद्धशेषसंचयमासदिवसेभ्यः, किमुक्तं भवति, षण्मासदिवसेभ्यः स्थापनारोपणादिवसरहितेभ्यः तन्मासैः स्थापनारोपणादिवसरहितशेषषएमासदिवसमासैः स्थापनारोपणामासशुद्धशेषसंचयमासैर्भागं हरेत्, तत्र यल्लब्धं तान् दिवसान् जानीहि शेषं पुनर्जानीयात् दिवसभागान् स्थापना रोपणादिवसानां तु स्थापनारोपणामासंवभागो हर्त्तव्यः तथापि यल्लब्धं ते दिवसा यच्छेषं ते दिवसभागा इति, यथा प्रथमे स्थाने विंशिकायां स्थापनायां पंचदशदिनायां चारोपणायां पूर्वप्रकारेण त्रयोदशसंचयमासा लब्धास्तेभ्यः स्थापनामासौ द्वावेक आरोपणामास उभयमीलने त्रयः शोध्यंते जाताः पश्चाद्दश ततः स्थापनारोपणादिवसाः पंचत्रिंशत्रहिता ये षण्मासदिवसाः, पंचचत्वारिंशतं । । ते किल तद्दिवसास्तेभ्यः तन्मासैस्तैः शेषीभूतैर्दशभिमसिंर्दशकेनेत्यर्थः भागो हियते, हते च भागे लब्धाश्चतुर्द्दश शेपास्तिष्ठति पंच, आगतमेकैकस्मात् चतुर्द्दश चतुर्द्दश दिवसा गृहीताः पंचपंचदिवसस्यदश भागाः, यदिवा एकस्मात्मासाच्चतुरः सार्धान् दिवसान् गृहीत्वा शेषेसु मासेष्वर्धमर्ध प्रक्षिपेत्, तत आगतं नवभ्यो मासेभ्यः प्रत्येकंपंचदश दिवसा गृहीता एकस्मादृश, एतत्प्रागुक्तमनुस्मारितं, स्थापनादिवसानां विंशतेः स्थापनामासाभ्यां भागो हियते, लब्धा एकैकस्मिन् मासे दश दश दिवसा आरोपणामासस्त्वेक एव, तत्र पंचदश दिवसा लब्धा, आगतं स्थापनामासाभ्यां दश दश दिवसा गृहीता आरोपणामासात् पंचदश एवं विषमदिवसग्रहणं सर्वत्रानेतव्यं, यत्र पुनः स्थापनारोपणा च नास्ति, अकृतत्वात् अथ च सेवितमासा ज्ञायंते, तत्राशीतस्य शतस्य सेवितमासैर्भागे हृते यल्लभ्यते, तद्दिवसग्रहणं प्रत्येकमासेभ्योऽवगंतव्यं, उक्तं च जहिं नत्थठवण आरोवणाय नञ्जंति सेविया मासा । संवियमासेहिं भए अस्सीयं लद्धमागहियं ।। एवंतु समासेणं भणियं सामन्नलक्खणं बीयं । एएण लक्खणेणं झोसेयव्याउ सव्वाओ ।। [ भा. ४३२ ] बृ एवमुक्तेन प्रकारण सामान्येनैव तु शब्द एवकारार्थो भिन्नक्रमत्वादेवं संबंध्यते, सामान्यलक्षणे बीजमिव बीजं सकलमाससामान्यलक्षणावगमप्ररोहसमर्थं किंचिद् भणित्, एतेनानंतरोदितेन बीजकल्पेन लक्षणेन सर्वा अपिकृत्स्ना अकृत्स्ना चारोपणा झीपयितव्याः, स्वबुद्धी शिष्यबुद्धी च यथावस्थिततया प्रक्षेपणीयाः, तदेवं कियंतः सिद्धा इति द्वारमुक्तम् अधुना दिठ्ठा निसीहमाने इति द्वारं व्याचिख्यासुराह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy