SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १५१ उद्देशकः १, मूलं : १४, [भा. ४२७] स्थापनारोपणासु दिवसग्रहणं कदाचिद्धीनं कदाचिदतिरिक्तं वा, किमुक्तं भवति, कदाचित् स्थापनायां हीनमारोपणायामधिकं कदाचिदारोपणायां हीनं स्थापनायामधिकं यथा विंशिकायां स्थापनायां विशिकायामारोपणायामत्र हिद्वाभ्यामपिस्थापनामासाभ्यांप्रत्येकंदशदश दिवसागृहीता आरोपणाया मासयोत्स्वेकस्मात् पंचदश एकस्मात् पंच अथवा स्थापनाया मासोरेकस्मात्पंचदश दिवसा गृहीता अपरस्मात् पंच आरोपणामासाभ्यां तु द्वाभ्यां प्रत्येकं दश दशेति प्रतिसेवनाविशेषमंतरेण तु स्थापनामासाभ्यां आरोपणामासाभ्यांचप्रत्येकंदशदशदिवसा गृह्यतेइति, ।।सव्वस्थसमंवागेण्हेजा, कदाचित् पुनः सर्वत्र स्थापनायामारोपणायां तथा आरोपणाया भागे हृते ये लब्धा मासास्तषु च समं दिवसग्रहणं भवति, यथा प्रथमे स्थाने विंशिकायां स्थापनायां विंशिकायामारोपणायां द्वितीय स्थाने पाक्षिक्यास्थापनायां पाक्षिक्यामारोपणायांतृतीयेस्थाने पंचदिनायास्थापनायां पंचदिनायामारोपणायां, चतुर्थे स्थाने एकदिनायां स्थापनायां एकदिनायां चारोपणायामेवमन्यास्वपि द्विव्यादिदिनासु स्थापनारोपणासुयथायोगंभावनीयं[भा.४२८ विसमाआरोवणातो विसमंगहणंतुहोइनायव्वं । सरिसेवि सेवियम्मी जहा झोषोखलु विसुद्धो ।। वृ- इह आरोपणाग्रहणेन स्थापनापि गृहीता द्रष्टव्या, तत्र प्रतिसेवना कुर्वता यद्यपि सर्वपि मासाः सदृशापराधप्रतिसेवनेन प्रतिसेवितास्तथापि सदृशे सेवितेपि सदृश्यामपि प्रतिसेवनायां याः स्थापनारोपणाः परस्परं दिवसमाने विषमास्ताभ्यस्तदनुरोधेन आरोपणायाभागेहते बेलब्धामासास्तेषु दिवसग्रहणं विषमं भवति ज्ञातव्यं, स्थापनारोपणादिवसानां परस्परविषमत्वतस्तेष्वपि ग्रहणं विषमं भवतीति प्रतिपत्तव्यमिति भावः, एवं विषमासु कृत्स्नारोपणास्वभिहितं, याः पुनरारोपणा विषमा अकृत्स्नाश्चतत्रदिवसग्रहणं कुर्वता यथा झोषो विशुध्यति, तथा खलुनिश्चितं-कर्त्तव्यं नान्यथेति । [भा.४२९] एवंखलु ठवणातो आझवणातो विसेसतो होति । ताहिं गुणा तावइया नायव्व तहेवझोषाय || वृ- एवमुक्तप्रकारेण स्थापनात आरोपणा विशेषतो भवंति, तथाहि यदा स्थापनामासशुद्धाः शेषामासा यावंतोऽधिकृतायामारोपणायां मासास्तावत्संख्याकाभागाःक्रियंते, कृत्वा च प्रथमोभागः पंचदशगुणः क्रियते, शेषाः पंचगुणा यदिवा सर्वेप्यारोपणादिवसगुणा मासाः क्रियते, एवमारोपणया दिवसपरिमाणंलब्धभवति,तदाएतावद्भिःस्थापनादिवसैः प्रक्षिप्तैः षण्मासाः पूर्यते इति तदनुसारतः स्थापनादिवसाःस्थाप्यंते, ततआरोपणानुरोधिनीस्थापनेतिस्थापनातआरोपणा विशेषवती तथाचाह, ताहिं गुणा तावझ्या इति ताभिरारोपणामाससंख्याभिरारोपणादिवससंख्याभिर्वा आरोपणया भागे हृते ये लब्धा मासास्ते गुणाः गुणिताः, स्थापनारोपणादिवसयुक्तास्तावंतः संचयमासा आगच्छंति, नतु स्थापनामाससंख्याभिः स्थापनादिवससंख्याभिर्वागुणितास्ततो विशेषवत्यःस्थापनाभ्यआरोपणा इति, नायव्वतहेव झोसा यइति, झोषाअपि तथैव ज्ञातव्यास्तद्यथाआरोपणया भागे ह्रियमाणेयावताभागो नशुध्यति, तावत्प्रमाणा ज्ञातव्याझोषा इति[भा.४३०] कसिणाआरुवणाएसमगहणं होति तेसुयमासेसु ! आरुवणा अकसिणाए वि समंझोसो जहा सुज्झे ।। वृ-कृत्स्ना आरोपणा नाम या झोपविरहिता, तस्यां कृत्स्नायामारोपणायां आरोपणवा भागे हृते ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy