SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [भा. ३९२] च कियद्भिः संचयमासैः प्रतिसेवितै-निष्पन्नेत्येतदभिधित्सुराह ( भा. ३९३) १४१ पढमा ठवणा पंच उ, पढमा आरोवणा भवे पंच । छत्तीसा मासेहिं एसा पढमा भवे कसिणा ।। वृ- तृतीय स्थाने प्रथमा स्थापना पंच पंचदिनप्रमाणा प्रथमा आरोपणा भवति पंच पंचदिना एषा स्थापना आरोपणा च निष्पन्ना पत्रिंशता मासैः प्रतिसेवितैः कथमिति चेदुच्यते, अशीतात् शतात् पंच स्थापनादिवसाः पंच आरोपणादिवसाः उभयमीलने दश शोधिता जातं सप्ततं शतं एतस्य पंचदिनाया आरोपणाया भागो हियते, लब्धाः चतुस्त्रिंशत् मासाः एकस्थापनायां पूर्वप्रकारेण मास एक आरोपणायामिति द्वौ मासौ तत्र प्रक्षिप्तौ जाताः षट्त्रिंशत्मासाः अथ कुतो मासात् किं गृहीतमुच्यते, प्रतिसेवितमासेभ्यः षट्त्रिंशदेकः स्थापनामासः शोधिते जाता पंचत्रिंशत् यद्येकद्वित्र्यादिना आरोपणा पंचदिना दशदिना वा ततस्तयैवारोपणया संचयमासा गुण्यंते, इति वचनादत्र पंचदिना रोपणेति पंचभिर्गुण्यंते जातं पंचसप्ततं शतं ।। स्थापनादिनाश्च पंच तत्रैव प्रक्षिप्ता जातमशीतं शतमागतमेकैकस्मात् मासात् पंच पंच रात्रिंदिवानि गृहीतानि अत्र भागः शुद्धः पतित इति कृत्स्नैषारोपणा सर्वासांच कृत्स्नारोपणानामाद्येति । प्रथमा तथा चाह एसा पढमा भवे कसिणा [भा. ३९४] पढमा ठवणा पंचर, बिइया आरोवणा भवेदसउ | एगुणवीसमासेहिं, पंचहिंराईदिया झोसो ।। बृ- तृतीये स्थाने प्रथमा स्थापना पंचपंचदिना द्वितीया आरोपणा भवति दशदशदिना एषा प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, एकोविंशत्या मासैः प्रतिसेवितैः । तथाहि अशीतात् पंच स्थापनादिवसा दश आरोपणादिवसाः उभयमीलने पंचदश शोध्यंते, जातं पंचपष्टं शतं ।। अस्य दशभिर्भागो ह्रियते, तत्र परिपूर्णो भागो न पततीति पंच रात्रिंदिवानि झोषः प्रक्षिप्यते तथाचाह पंचराइंदिया झोसो, झोषे च प्रक्षिप्ते लब्धाः सप्तदस मासाः एकः स्थापनाया मास एक आरोपणाया इति द्वौ मासौ तत्र प्रक्षिप्तौ जाता एकोनविंशतिरागतमेकोनविंशत्या प्रतिसेवितैर्मासैर्निष्पन्नेति ।। अथ कुतो मासात् किं गृहीतमुच्यते, प्रतिसेवितमासेभ्य एकोनविंशतेरेकः स्थापनामासः शोधितो, जाता अष्टादश मासाः अत्र दशदिनारोपणेति दशभिर्गुण्यंते जातमशीतं शतं, पंच वासरा झोप इति पंच ततोऽपसारिता जातं पंचसप्ततं शतं, अत्र स्थापनादिवसाः पंच प्रक्षिप्ता जातमशीतं शतं आगतं, स्थापनीकृतात् मासात् पंच रात्रिंदिवानि गृहीतानि, पंच झोषीकृत्यशेषेभ्यो दश दश रात्रिंदिवानीति । [भा. ३९५ ] पढमा ठवणा पंचउ तइया आरोवणा भवे पक्खो ! तेरसहिं मासेहिं पंचउराइंदिया झोसो || - बृ- तृतीये स्थाने प्रथमा स्थापना पंचपंचदिना, तृतीया चारोपणा भवति पक्षः, पक्षप्रमाणा एपा प्रथमा स्थापना, तृतीया चारोपणा त्रयोदशभिः प्रतिसेवितैर्मासैर्निष्पन्ना, तथाहि अशीतात् दिवसशतात् पंच स्थापनादिवसाः पंचदश आरोपणादिवसा, उभयमीलने विंशतिः शोध्यंते, जातं पष्टं शतं ।। तस्याधिकृतया पंचदशदिनया आरोपणया भागो हियते, तत्र शुद्धो भागो न पततीति पंच झोषः प्रक्षिप्यते, तथा चाह, पंचउराईदिया झोसो झोषे च प्रक्षिप्ते लब्धा एकादश एकः स्थापनाया मासः, एक आरोपणाया इति द्वौ मासौ तत्र प्रक्षिप्ता वागतं त्रयोदशभिर्मासैः प्रतिसेवितैर्निष्पन्ना, अथ कुती मासात् किं गृहीतमुच्यते, प्रतिसंवितमासेभ्यस्त्रयोदशभ्य एकः स्थापनामासः शोधितः स्थिताः पश्चात् द्वादश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy