SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४२ व्यवहार - छेदसूत्रम्-१-१/१४ आरोपणा एकमासनिष्पन्नत्येकभागीक्रियते, आद्यश्च भागः पंचदशभिः किल गुणयितव्य इति, पंचदशभिस्ते द्वादशापि गुण्यंते, जातमशीतं शतं, पंच झोप इति ततोऽपनीयंते, जातं पंचसप्ततं शतं, तत्रपंच स्थापनादिवसाः प्रक्षिप्यंते, जातमशीतंशतमागतमत्रस्थापनीकृतान्मासातपंचदिवसागृहीताः शेषेभ्यस्तुद्वादशमासेभ्यः पंच झोषीकृत्य पंचदश पंचदशेति। [भा.३९६ एवं एया गमिया गाहाओ होतिआनुपुवीए । एएण कर्मणभवे, छच्चैव सयाईतीसाइं ।। वृ- एवमुक्तेन प्रकारेण एतद्गमिका अनंतरोदितगमा गाथा आनुपूर्व्या क्रमेणान्या अपि भवंति ज्ञातव्याः कियत्संख्याकाइत्याह- एतेनानंतरोदितेनक्रमेणभवंतिगाथानां षष्टशतानि, किमुक्तंभवति, पंचदिनां स्थापनाममुंचतारोपणायां च यथोत्तरं पंच पंच प्रक्षिपता तावद् गंतव्यं, यावत् पंचत्रिंशत्तमा पंचसप्ततशतदिना आरोपणा पुनईशदिनांस्थापनांकृत्वा यथोक्तप्रकारेण तावन्नेयं यावच्चतुस्त्रिंशत्तमा सप्ततदिनशतारोपणा एवंस्थापनासुपंच पंच प्रक्षिपता आरोपणास्वेकैकमुपरितनंस्थानंहापयता तावन्नेयं यावत् गाथानां पट्शतानि त्रिंशदधिकानि भवति, तृतीयं स्थापनारोपणास्थानं समाप्तं; संप्रति चतुर्थ स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाह - [भा.३९७) अउनासीयं ठवणा न सर्व आरोवणावि तह चेव | सोलसचेवसहस्सा दसोत्तरसयंचसंवेहो ।। वृ- चतुर्थे स्थाने एकोनाशीतं स्थापनानां स्थापनापदानां शतं भवति, आरोपणाया अपि तथैव ज्ञातव्यं, किमुक्तं भवति, आरोपणानामपि पदानां शतमेकोनाशीतं भवतीति, एतच्च प्रागेव भावितं, संप्रति संवेधपरिमाणमाह, स्थापनानामारोपणाभिः सह संबंधे संयोगाः पोडश सहस्राणि दशोत्तरं शतं भवंतीतिएव संख्याकाश्चसंवेधागच्छोत्तरसंवर्गइत्यादिकरणवशादानेतव्यः । गच्छश्चात्रएकोनाशीतं शतं, तथाहि अशीतात् शतात् प्रथमस्थापना दिवस एकः प्रथमारोपणादिवस एक इत्युभयमीलने द्वी शोधिती,जातमष्टसप्ततं शतंतस्य चरमादेसभागेक्को इति वचनादकेनभागो ह्रियत, लब्धमष्टसप्ततमेव शतं तत्र रूपं प्रक्षिप्तं, जातमेकोनाशीतशतं उत्तरमेक आदिरप्येकस्तत्र गच्छ एकोनाशीतशतलक्षण उत्तरेणैकेन गुण्यते, जातं तदेव एकोनाशीतंशतंतदेकेन हीनं क्रियते, जातमष्टसप्तशतं, तत्रादिमेकं प्रक्षिपेत, भूयस्तदेवाभूदेकोनाशीतं शत मतदंतिमधनं एतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्छराशिस्त्र विषम इत्यस्वैवाशीतस्य शतस्यार्धं क्रियते जाता नवतिः, सा गच्छेन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते, आगतं षोडश सहस्राणिशतं दशोत्तरमिति, अथास्मिन् चतुर्थे स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा कतिमिश्च सा प्रथमा स्थापना आरोपणा च प्रतिसेवितैमर्सिनिष्पन्नेत्यत आह - [भा.३९८] पढमा ठवणा एक्को पढमा आरोवणाभवे एको । आसीयामाससया एसापढमा भवे कसिणा || वृ- चतुर्थे स्थाने प्रथमा स्थापना एका दिवसः एकदिनप्रमाणा इत्यर्थः प्रथमा आरोपणा भवत्येकएकदिना, एषा स्थापना आरोपणा च अशीतादशीत्यधिकात् मास शतात निष्पन्ना, तथाहि अशीतात् शतादेकः स्थापनादिवस एक आरोपणादिवस इति द्वौ शोधितौ जातमष्टसप्ततं शतं, तस्य एकदिनप्रमाणया भागो ह्रियते, लब्धमष्टसप्तमेव शतं, एकः स्थापनामास एक आरोपणामास इति द्वी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy