SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १४० व्यवहार - छेदसूत्रम्-१-१/१४ जातं पंचपंचाशं शतं, ततः स्थापनादिवसाः पंचदश आरोपणादिवसा दस उभयमीलने पंचविंशतिः प्रक्षिप्यंते जातमशीतंशतं । [भा.३९०] पढमा ठवणा पक्वा. तइया आरावणा भवे पक्खो। बारसहिं मासहिं एसा विइया भवेकसिणा ।। वृ-द्वितीय स्थाने प्रथमास्थापना पक्षस्तृतीया चारोपणा भवति पक्षः एपा स्थापना आरोपणा च द्वादशभिर्भासनिष्पन्ना, कथमवसीयते इतिचेदुच्यते, अशीतात दिवसशतात्स्थापनादिवसाः पंचदश आरोपणादिवसाश्च पंचदश उभयमीलने त्रिंशत् शोधिता जातं पंचाशं शतं ।। ततोऽधिकृतया पंचदशदिनया आरोपणया भागो ह्रियते, लब्धा दशमासाः प्रागुक्तप्रकारेण चैकोमासः स्थापनाया आरोपणावांमासमितिद्वीमासौतत्रप्रक्षिप्तौ,आगतंद्वादशमासैःप्रतिसेवितैर्निष्पन्ना, अथकुतोमासात् किं गृहीतमुच्यते, एकैकस्मात् पंचदश वासराः तथाहि द्वादश मासाः, पंचदशभिर्गुणिता जातमशीतं शतमिति । [भा.३९१] एवं एया गमिया गाहातो हुंतिआनुपुवीए । एएणकमेण भवे, पंचेव सयाउएगट्ठा ।। वृ- एवमुक्तप्रकारेण एतत्गमिका अनंतरोक्तप्रकारा गाथा आनुपूर्व्या क्रमेण भवंत्यन्या अपि ज्ञातव्याः, कियत्कियत् संख्याकास्ता एतेन क्रमेण ज्ञातव्या इत्याह एतेन क्रमेण भवंति, पंचशतान्येकषष्ठानि गाथानामिति, इयमत्रभावना पाक्षिकी स्थापनाममुंचता आरोपणायांच पंच पंच प्रक्षिपता तावन्नेतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठदिनशतमाना आरोपणा, ततो विंशतिदिनां स्थापनामुंचता पंचाहिकायामारोपणायां पंच पंच प्रक्षिपता दावद्तव्यं, यावत् द्वात्रिंशत्तमा षष्टदिनशतमानाआरोपणा, एवस्थापनासुपंचपंचप्रक्षिपताआरोपणासुचैकैकंस्थानमुपरितनभागात परिहरता तावन्नेतव्यं,यावद्गाथानांपंचशतान्येकपष्टानि भवंति, द्वितीयस्थापनारोपणायांस्थानं समाप्तं, संप्रतिततीर्थस्थापनारोपणास्थानं प्रतिपादयन्दिमाह - [भा.३९२] पणतीसं ठवणपया पणतीसा रोवणाइंटाणाई । . ठवणाणं संवेहो छच्चेव सया भवेतीसा ।। वृ-तृतीयेस्थाने पंचत्रिंशत्स्थापनापदानिपंचत्रिंशच्चारोपणायाः स्थानानि पदानि एतदपि पूर्वमेव भावितं, संप्रतिसंवेधपरिमाणमाह-ठवणाणमित्यादिस्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवंति, षट्शतानि त्रिंशानि ।। एतानि च गच्छोत्तर संवग्गो इत्यादिकरणवशादानेतव्यानि, तत्रगच्छ: पंचत्रिंशत् कथमिति चेदुच्यते, ठवणारोवणविजुयाइत्यादि करणवशात् तथाहि अशीतात् शतात् पंच दिनानि प्रथमास्थापनायाःपंचदिनानिप्रथमारोपणायाउभयमीलनेदशशोध्यंते, जातंसप्ततंशतं तस्य पंचभिर्भागो ह्रियते, लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, आगतः पंचत्रिंशत् गच्छः उत्तरमेक आदिरप्येकः ततः पंचत्रिंशदेकन गुण्यते, एकेनगुणितंतदेवभवतीतिजाता पंचत्रिंशदेवसा उत्तरेणैकेन हीना क्रियते, जाताचतुस्त्रिंशत्तत्रादिमेकं प्रक्षिपेत्भूयोऽभवत्पंचत्रिंशत्एतदंतिमधनमंतिमऽकस्थाने परिमाणं एतत् आदियुतं क्रियते, जाता पत्रिंशत् गच्छार्धेन गुणयितव्या, तत्र गच्छराशिर्विषमत्वात् परिपूर्ण अर्ध न ददातीति पत्रिंशदीक्रियते जाता अष्टादश शते गच्छेन परिपूर्णेन गुण्वते जातानि पट्शतानि त्रिंशदधिकानि, संप्रत्यस्मिन् तृतीय स्थाने कियद्दिना च प्रथमारोपणासाच स्थापनारोपणा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy