SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं : १४, [भा. ३८७] १३९ एतच्चांतिमं धनमादिना एककेन युतं क्रियते, जाता चतुस्त्रिंशत्, सा गच्छार्धेन गुणयितव्या, तत्र गच्छराशेर्विषमत्वात्परिपूर्णमधुन लभ्यतेइति चतुस्त्रिंशदर्ध क्रियते, जातासप्तदश,तेगच्छेन परिपूर्णेन गुण्यंत, जातानि पंचशतान्येकपष्टानि । संप्रत्यस्मिद्वितीयेस्थानेकतिदिनाप्रथमास्थापना कतिदिना च प्रथमारोपणा सा च प्रथमा स्थापनारोपणा च कतिभिः संचयमासैः प्रतिसेयितैर्निष्पन्नेत्येतत प्रतिपादयति[भा.३८८] पढमा ठवणापक्खो, पढमा आरोवणाभवेपंच । चोत्तीसा मासेहिं एसा पढमा भवेकसिणा ।। वृ-द्वितीय स्थाने प्रथमा स्थापना पक्षः, पक्षप्रमाणा प्रथमारोपणा भवति, पंच पंच पंचदिना एषा स्थापनारोपणा च निष्पन्ना चतुस्त्रिंशता मासैः प्रतिसेवितैः; कथमिति चेदुच्यते, पण्मासानां दिवसाः अशीतं शतं तस्मात् ठवणारोवणादिवसे मानाउ विसोहइत्तुमिति वचनात् स्थापना दिवसाः पंचदश आरोपणा दिवसा: पंच उभयमीलने विंशतिः शोध्यंते, जातंषष्ठंशतं । । ततोऽधिकृतवापंधकलक्षणया आरोपणया भागो वियते, लब्धा द्वात्रिंशन्मासाः राशिश्चात्र निर्लेपः शुद्ध इत्येषारोपणा कृत्स्ना, तथा चाह, एपा आरोपणा भवति कृत्स्ना कृत्स्नभागहरणात् सा चान्यासां कृत्स्नारोपणानां प्रथमा स्थापनादिवसानांचमासानयनाय पंचभिर्भागोवियते, लब्धास्त्रयःतेद्विरूपहीनाः क्रियते, जात एककः आगत एको मासः आगेपणायामप्येको मासो लब्धः, जत्थ उदुरूवहीनं न होज इत्यादि वचनात, ततः एकः स्थापनामासएक आरोपणामास इतिद्वौमासौतीपूर्वराशौप्रक्षिप्येते, आगतं चतुस्त्रिंशन्मासाः प्रतिसेविताः अथकुतोमासात्किंगृहीतं,? उच्यते, चतुस्त्रिंशतः प्रतिसेवितमासेभ्यः एकःस्थापनामासः शोध्यते, जातास्त्रयस्त्रिंशत् ते आरोपणया पंचदिनमानया भागे हृते लब्धा इति पंचभिगुणवंते, जातं पंचषष्टिशतं ।। तत्र स्थापनादिवसा पंचदश प्रक्षिप्ता जातमशीतं शतमागतमेकस्मात् स्थापनीकतान्मासातपंचदश दिनानिगहीतानि,शेपेभ्यस्तुपंचपंचेति, अधुना द्वितीयेस्थानेप्रथमायां स्थापनायां यावद्दिना द्वितीया आरोपणा यतिभिश्च संचयमासैः प्रतिसवितैः प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, तदेतत्प्रतिपादयति - |भा.३८९] पढमा ठवणा पक्खो, बितीया आरोवणया भवेदसेउ । - अट्ठारसमासेहिं पंचयराइंदियाझोसो ।। -द्वितीय स्थाने प्रथमा स्थापना पक्षो द्वितीया चारोपणा दशदशदिना भवंति, एषा च स्थापना आरोपणाच अष्टादशमासैःप्रतिसेवितैर्निष्पन्ना, तथाहि अशीतादिनशतात्स्थापनादिवसाः पंचदश आरोपणादिवसा दश उभयमीलने पंचविंशतिः शोध्यंते, जातं पंचपंचाशतं शतं ।। ततीधिकृतया दशदिनया रोपणया भागो ह्रियते तत्रशुद्धोभागो न शुद्धयति, पंचसु प्रक्षिप्तेसुशुद्धयतीति, पंचकोऽत्र झोषः तथाचाह-पंचरात्रिंदिवानि झोष इतिलब्धाः षोडशमासाःस्थापनायांचप्रागुक्तप्रकारेणेको मास आरोपणायास्तुदशदिनात्मिकायाः पंचभिर्भागो ह्रियते, लब्धौद्वौ तौ रूपहीनो कृतौ जातंशून्यं,लब्ध एकोमासः, जइबादुरूवहीणे कयम्मिहोजा जहिंतु आगासं,तत्थविएगोमासो इतिवचनात्तौ द्वावपि मासौ पूर्वराशौ प्रक्षिप्येते, आगतमष्टादश मासाः प्रतिसेविताः । अथ कुतो मासात् किं गृहीत् ? उच्यते पोडशमासेभ्यो दश दशरात्रिंदिवानि, पंच झोपीकृतानि स्थापनामासात् पंचदश आरोपणामासाद्दशकप्रत्यय इति उच्यते, षोडश दशभिर्गुणितो जातं षष्टं शतं ।। पंच झोपीकृतास्ततः शोध्यंते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy