SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३८ व्यवहार - छेदसूत्रम् - १-१/१४ लब्धा मासास्तं यतिभिभसैरारांपणा निष्पन्नाः ततिभिर्गुणयितव्यास्ततः स्थापनारोपणमासा अपि तत्र प्रक्षिप्यते, ततः समागच्छति प्रतिसेवितमासपरिमाणमिति कृत्वामासात् किं गृहीतमित्यस्यामपि जिज्ञासायां संचयमासेभ्यः प्रथमं स्थापनामासाः शोधयितव्यास्ततः शेषा ये मासास्तिष्ठति, यतिभिर्मासैर्निष्पन्ना यत्संख्याका वा आरोपणा तावती भागाः कर्त्तव्याः, तत्र प्रथमो भागः पंचदशभिर्गुणयितव्यः, शेषाः सर्वे पंचभिर्गुणनीयाः एते सर्वेपि दिवसा एकत्र मीलयितव्याः; यश्चझोषः प्रक्षिप्तः स शोधयितव्यः ततः स्थापनादिवसाः प्रक्षेपणीयाः; आगतफलमप्येवं कथनीयं, यतिभिर्दिवसैः स्थापनामासो निष्पन्नस्ततिदिवसाः स्थापनीकृतेभ्यो मासेभ्यः प्रत्येकं गृहीता यावंतश्च मासाः पंचदशभिर्गुणितास्तावद्भ्यः पंचदशशेषेभ्यः पंच पंचेति एवं पंचविंशिकायामपि स्थापनायां पाक्षिक्यादय आरोपणा द्रष्टव्याः, यावच्चरमा पंचपंचाशद्दिनशतमाना त्रिंशत्कायां स्थापनायां पाक्षिक्यादय आरोपणा यावत् पंचाशद्दिनशतमाना एवं तावत् यावच्चरमायां स्थापनायां पंचपष्टि दिनशतमानायां पाक्षिक्येकारोपणा एतासु च पूर्वभणितेन प्रकारेण चत्वारिंशतानि पंचपष्टाधिकानि गाथानां कर्त्तव्यानीति प्रथमं स्थापनारोपणास्थानं समाप्तं !! संप्रति द्वितीयं स्थापनारोपणास्थानं प्रतिपिपादयिपुरिदमाह - तेत्तिसंठवणपया तेत्तीसारोवणाए ठाणाई: [ भा. ३८६ ] ठवणाणं संवेहो, पंचेव सवाउ एगट्ठा ।। वृ- द्वितीये स्थाने त्रयस्त्रिंशत् स्थापनापदानि, त्रयस्त्रिंशच्चारोपणायाः स्थापनापदानि एतच्च प्रागेव भावितमितिन भूयो भाव्यते, संप्रति संवेधपरिमाणमाह, ठवणाणमित्यादिस्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवंति, पंचशतान्येकपष्टानि एकपष्टयधिकानि ।। कथमेतदवसातव्यमिति चंदुच्यते, इह संबंधसंख्यानयनाय प्रागुक्ता गच्छोत्तरसांवग्गे इत्यादि करणगाथा गच्छश्चात्र त्रयस्त्रिंशत् तथा च गच्छानयनाय पूर्वसूरिप्रदर्शिर्शतियं करणगाथा । [ भा. ३८७ ] ठवणारोवणविजुया छम्मासा पंचभागभइया जे || रुवजुया ठवणपया तिसु चरिमा देसभागेको ।। वृ- अस्या व्याख्या - षण्णां मासानां समाहारः पण्मासं, तस्मात् षण्मासात् स्थापनारोपणादिवसैर्विरहितात् तदनंतरं पंचभागसक्तात्ये लब्धास्ते रूपयुताः संतोयावंतो भवति, एतावंति स्थापनापदानि एतावान् तत्र गच्छ इतिभावः, एतच्च त्रिष्वाद्येषु स्थानेषु द्रष्टव्यं चरमेपिस्थाने एष एवादेशः, केवलमेकेन भागो हर्त्तव्यः, एष गाथाक्षरार्थः भावर्थस्त्ययं प्रथमे स्थाने प्रथमा स्थापना विंशतिदिना प्रथमा चारोपणा पंचदशदिना उभयमीलने दिनानि पंचत्रिंशत्तानि षण्मासदिवसेभ्योऽशीतशतप्रमाणेभ्यः शोध्यंते, जातं पंचचत्वारिंशंशत, तस्य पंचभिर्भागो हियते, लब्धा एकोनत्रिंशत् सा रूपयुता क्रियते, जाता त्रिंशत् आगतं प्रथमे स्थाने त्रिंशत् गच्छ:, तथा द्वितीय स्थाने प्रथमा स्थापना पंचदशदिना प्रथमा चारोपणा पंचदिना उभयमीलने जातानि दिनानि विंशतिः, षण्मासदिवसेभ्यो अशीतशतप्रमाणेभ्यः शोध्यंते, जातं षष्टिशतं । । तस्य पंचभिर्भागो हियते, लब्धा द्वात्रिंशत् सा रूपयुता क्रियते, जाता त्रयस्त्रिंशत्, आगतं द्वितीये स्थाने त्रयस्त्रिंशत् गच्छः, उत्तरमेकः आदिरप्येकः अत्र भावना प्रागुक्तानुसर्त्तव्याः, तत्र गच्छस्त्रयस्त्रिंशत् एकन गुण्यते, एकेन गुणितं तदेव भवतीति जातात्रयस्त्रिंशदवसा उत्तरणैकेन हीना क्रियते, जाता द्वात्रिंशत् तत्रादिममैककलक्षणं प्रक्षिपेत् जाता भूयस्त्रयस्त्रिंशत् एतदंतिमं धनं, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy