SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छंदसूत्रम्-१-१/१४ लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थिती द्वौ मासौ स्थापनायाः तथा पंचदशदिनाया आरोपणायाः पंचभिर्भागों हियते, लब्धास्त्रयस्ते द्विरूपहीनाः कृता जात एको लब्ध आरोपणाया एको मासः, तेन यदि वा प्रथमेयमोपणेति लब्धा मासा दश एकेन गुण्यते जाता दशैव एकेन गुणितं, तदेव भवतीति न्यायात्, ततो द्वौ स्थापना पंचविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना? उच्यते, त्रयोविंशतिभिमसिंस्तथाहि स्थापनादिवसा विंशतिरारोपणादिवसाः पंचविंशतिरेतेमिलिताः पंचचत्वारिंशत् ते पण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः शोध्यंते, जातं शेष. पंचत्रिंशत्शतं, ततोऽधिकृतया पंचविंशतिदिनया आरोपणया तस्य भागो हियते, तत्रोपरितनो राशिः शुद्धं भागं न प्रयच्छति,पंचदशसुचप्रक्षिप्तेषुप्रयच्छतीतिपंचदशपरिमाणोऽत्रझोषः प्रक्षिप्यते, लब्धाः षण्मासाः, तथाधिकृतारोपणायाः पंचभिर्भागो हियते, लब्धा पंचः, ते द्विरूपहीनाः क्रियते, जातास्त्रयः एतावंतचारोपणायामासा यदिचेयंतृतीयारोपणेति तिण्हंपिगुणसुलद्धंइच्छिवरूवणाए जइमासा इति वक्ष्यमाणवचनात्तेपण्मासास्त्रिभिर्गुण्यंते, जाताअष्टादश द्वौस्थापनामासौत्रयश्चारोपणामासा इति, सर्वसंख्यया त्रयोविंशतिमासाः अथवा अन्यथा झोषपरिमाणं कथयति - [भा.३७१] टवणा दिवसेमाना विसोहइत्ताणभयहरूवणाए ।। जो छेयं सविसेसोअकसिणरुवणाए सोझोसो ।। वृ- मानात् षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसात् अधिकृतस्थापनावासरान विशोधय, विशोध्य च यच्छेषमवतिष्ठते, तदारोपणया अधिकृतारोपणादिवसैर्भज, भागहारं कुर्यात्, भागे च हते यः छेदादंशानां विश्लेषः इह विश्लेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेपः, सतावत्प्रमाणोऽकृत्स्नारोपणायांझोषः, यथापण्मासदिवसपरिमाणभूतात् अशीतिशतात् विशिकायाः स्थापनायाः दिवसा विंशतिरिति, ततो विंशतिःशोध्यंत जातं षष्ट्यधिकंशतं ।। ततः पाक्षिक्यामारोपणायां संचयमासा ज्ञातुमिष्टा इति, पंचदशभिर्भागो हियते, स्थिताः शेषा दश अधस्ताच्छेद: पंचदश,तेभ्योदशविश्लिष्यंते, स्थिताःपंच आगतंपंचदशिक्यामकृत्स्नारोपणायांपंचको झोषः, तथाअशीतिशतात्स्थापनादिवसा विंशतिः शोध्यंते,जातंषष्टंशतं । ततः पंचविंशतिदिनाया आरोपणायाः संचयमासा ज्ञातुमिष्टा इति, पंचविंशत्या भागी हियते, तथा शेषा । दश छेदोऽधस्तात पंचविंशतिस्तस्यादशविश्लिष्यंते, स्थिताःपंचदशआगतंपंच विंशतिदिनायामारोपणायां पक्षोझोषः, एवं सर्वत्रभावनीयं । [भा.३७२] जत्थपुनदेइ सुद्ध, भागंआरोवणाउ सा कसिणा ।। दोण्हपि गुणसुलद्धं इच्छियरुवणाए जइमासा ।। वृ-यस्यांपुनरारोपणायामुपरितनो राशिःशुद्धंभागंप्रयच्छति, न किंचित्पश्चाद्यस्यावतिष्ठते, इति भावः सा आरोपणा कृत्स्नाभागहरणात् कृत्स्नेति प्रतिपत्तव्या, यथा विंशतिदिना, तथाहि केनापि पृष्टं विशिका स्थापना विशिका चारोपणा कतिर्भिमासैः प्रतिसेवितैर्निष्पन्ना? उच्यते, अष्टादशभिर्मासौः, क्यमेतदवसेयमितिचेत्? उच्यते,षण्णां मासानामशीतंदिवसशतं,तेभ्योविंशतिर्दिनानि,स्थापनाया विंशतिर्दिनान्यारोपणायाः शोध्यंते, जातं शेषं चत्वारिंशंततं, तत इच्छियरुवणाए भए इति वचनात्, विशिकया आरोपणया भागो ह्रियते, भागेच हृते उपरितनो गशिर्निर्लेपः,शुद्ध एषाकृत्स्नारोपणा लब्धाः सप्तमासाः ततो दोण्हपि गुणसुलद्धं इच्छियमवणाए जइ मासा इति, वक्ष्यमाणवचनात् इयमारोपणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy