SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १३० व्यवहार - छेदसूत्रम्-१-१/१४ गुण्यत, एकेन च गुणितं तदेव भवतीति जाता त्रिंशदेव, तत्र उत्तरहीणमिति उत्तरेणेकंन हीनं, तस्मिन कृते एकेन हीना त्रिंशत् क्रियते इत्यर्थः, जाताएकोनत्रिंशत्ततः प्रक्षिपेदादिममेकं जाता भूयस्त्रिंशत एतदंतिमधनमंतिमेअंकस्थानेपरिमाणमेतत्, आदिनाएकन युतंक्रियत, जाताएकत्रिंशत् गच्छस्त्रिंशत तस्यार्धं पंचदश तैः सार्द्ध एकत्रिंशता गुण्यते, जातानि संवेधानां चत्वारि शतानि पंचपट्यधिकानि अथवाऽयमन्यो गणितप्रकार: - [भा.३६५] दोगसीउठविजा, रूवंपुन पक्खिवाहिएगत्तो। जत्तो यदेइ अद्धतेन गुनं जाण संकलियं ।। वृ-गशिर्गच्छ इत्यर्थांतरं, ततो द्वौ राशी स्थापयेत्, किमुक्तं भवति? द्वौवारावुपर्यधोभागेन त्रिंशतं स्थापयेत्ततएकतएकस्मिन राशीरूपंपुनःप्रक्षिपेतजातःसएकत्रिंशतयतश्चयरमाच्चराशेरर्धमात्मानं ददाति तस्यार्धं गृह्यते, तत्रेह त्रिंशदर्धमर्पयति तेनैकत्रिंशदिति, त्रिंशतो) पंचदशगृह्यन्ते, तेन इतरो राशिरेकत्रिंशल्लक्षणो गुण्यते, गणितेच सति यत् जायते, तज्जानीहि, संकलितं सर्वसंवैधसंकलनं तच्च चत्वारि शतानि पंचषष्ठीनि, इह चत्वारि स्थापनास्थानानि चत्वारि चारोपणास्थानानि तत्र कस्मिन् स्थापनास्थाने कियंति स्थापनापदानि कस्मिन्नागेपणास्थाने कियंत्यारोपणापदानीत्येतत् परिज्ञानाय करणमाह - भा.३६६] आसीया दिवससया, दिवसा पढमाण ठवणरूवणाण । सो हि उत्तरभइएठाणादुराहपिरूयजुया ।।। ८. पण्णां मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसशतात् प्रथमयो: स्थापनारोपणयोर्ये दिवसास्तान् शोधयेत्, शोधयित्वा च यत्र यदुत्तरा वृद्धिस्तत्र तदुत्तरं तत्रायेषु त्रिपु स्थापनास्थानेषु त्रिपु चारोपणास्थानेषु पंचानां पंचोत्तरा वृद्धिरिति, तत्रोत्तरं पंचचरिमे स्थापनास्थाने चरिमे चारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति,तत्रोत्तरमकः, ततस्तेनोत्तरेण भक्ते सति यदागच्छति, तातिरूपयुतानि द्वयोरपिस्थापनारोपणयोःस्थानानि, एपगाथार्थः, भावार्थस्त्वयं पट्सुमासेषुकिल दिवसानामशीतंशतमित्यशीतं शतंध्रियते ।।ततःप्रथमेस्थाने प्रथमायाः स्थापनाया दिनानि विंशति प्रथमाया आरोपणायाःपंचदशेत्युभयमीलने जाता पंचत्रिंशत्सा शोध्यते, जातपंचचत्वारिशतं, तत उत्तरेण पंचलक्षणेन भागो ह्रियते, लब्धा एकोनत्रिंशत् ।सा रूपयुता क्रियते, प्रथमस्थापनारोपणयोः प्रथमतएव शोधित्वात्,जातात्रिंशत्, एतावंतिप्रथमस्थाने स्थापनापदानि, एतावत्येव चारोपणापदानि, तथाद्वितीयेस्थाने प्रथमस्थापनाया दिवसांपंचदशप्रथमारोपणायाः पंच उभयेपा मीलनेजाताविंशतिः सा अशीतिशताच्छोध्यते, जातं षष्ठं शतं, तस्वोत्तरेण पंचकलक्षणेन भागो हियते, लब्धा द्वात्रिंशत रूपयुता क्रियते, जातात्रयस्त्रिंशत, एतावंति द्वितीय स्थाने स्थापनापदान्येतावंत्येव चारोपणापदानि, ततीये स्थाने प्रथमस्थापनाया दिवसाः पंच, प्रथमारोपणाया अपि पंच उभयमीलने जाता देश, ते अशीतात् शतात् अपनीयंते, जातं सप्ततिशतं, ।। तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, जाता पंचत्रिंशत् एतावंति तृतीय स्थाने स्थापनापदान्येतावंत्येव चारोपणापदानि, चतुर्थे स्थाने प्रथम स्थापनाया एक दिन प्रथमारोपणाया अपिचैकं उभयमीलने जाते द्व दिने, ते अशीतात् शतात् शोध्यते, जातमष्टसप्ततं शतं । । तस्योत्तरेण एकैकलक्षणेन भागो हियत, लब्धमष्टसप्ततं शतं तद्रूपयुतं क्रियते, जातमेकोनाशीतिशतमेतावंति चतुर्थे स्थाने स्थापनापदानि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy