SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं: १४, [भा. ३६१] १२९ ज्ञातुमिष्टा ततोऽशीत्यधिकशतात् पंचविंशतिः शोध्यते जातं पंचपंचाशदधिकं शतं एषा पंचविंशदिनायाः स्थापनाया उत्कृष्टा आरोपणा, एवं सर्वत्र भावनीयं, सांप्रतमारोपणास्थाने उत्कृष्टस्थापनापरिज्ञानार्थमाह - [भा.३६२] आरोवणा उद्दिडा,छम्मासा ऊणागा भवेताए। आरोवणाए तीसे, ठवणा उक्कोसिया होइ ।। वृ-आरोवणा उद्दिठाया आरोपणा उदिष्टास्थापना किल ज्ञातुमिष्टेतिभावः,तथाषण्मासा ऊनकाः क्रियतन्ते, सा षण्मासदिवसेभ्यः शोध्यते इत्यर्थः, ततो यच्छेषभवतिष्ठते, तत्तस्या ईप्सिताया आरोपणाया उत्कृष्टा स्थापना भवति, यथा पंचदशदिनायाः आरोपणावा उत्कृष्टा स्थापना ज्ञातुभिष्टा, ततः पंचदश अशीत्यधिकशतादपनीयंते, जातं पंचषष्ठयधिकं शतं तावत्प्रमाण पंचदशदिनाया, आरोपणाया उत्कृष्टा स्थापना भवति, तथा विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना किल ज्ञातुभिष्टेति, विंशतिरशीत्यधिकशतादपनीयते, जातं षष्ठ्यधिकशतं एतावती विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना, एवं सर्वत्रापि भावनीयं, सांप्रतं प्रथम स्थाने कियंति स्थापनास्थानानि कियंत्यारोपणास्थानानि कियंतो वा स्थापनारोपणास्थानानां संवेधतः संयोगा इत्येत्प्ररूपणार्थमाहभा.३६३] तीसं ठवणाठाणा तीसं आरोवणाएठाणाई। ठवणाणंसंवेहोचत्तारिसयाउपन्नठा ।। वृ-प्रथम स्थाने त्रिंशत् स्थापनास्थानानि, त्रिंशच्चारोपणायाः स्थानानि, एतच्च प्रागेवानेकशी भावितमिति न भूयो भाव्यते, ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः संयोगाः सर्वसंख्ययाः चत्वारि शतानि पंचषष्ठानि भवंति; तथाहि प्रथमे विंशतिदिनरूपे स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीयेपंचविंशतिदिनरूपएकोनत्रिंशत् तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावद्वक्तव्यं, यावत् पंचषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपणास्थानमेतानि च सर्वाण्यप्येकत्र लिखितानि, यथोक्तसंख्याकानि भवंति; स्थापनाग्रहणे चारोपणापि गृह्यते; अनयोः परस्परसंवेधात्, तत एतदषि द्रष्टव्यमारोपणास्थानानां स्थापनाभिः सह संवैधाः, सर्वसंख्या चत्वारि शतानि पंचष्टीनिभवंति; तथाहि प्रथमेपंचदशदिनरूपेआरोपणास्थाने त्रिंशत्स्थापनास्थानानि, द्वितीये विंशतिदिनरूपे एकोनत्रिंशत्, तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावत् वक्तव्यं यावत् षष्ठिदिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थाने एकविंशतिदिनं स्थापनास्थानमेतच्चसर्वं प्रागेव सप्रपंचं भावितमेतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवंति, यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव करणगाथामाह । [भा.३६४] गच्छुत्तरसंवग्गो, उत्तरहीनंमि पखिवे आई। अंतिमधनमादिजुयं, गच्छद्धगुनं तुसव्वधनं ।। वृ-इह यद्यपि प्रथमे स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एकोनत्रिंशत् तृतीये अष्टाविंशतिरिति क्रमस्तस्तथापि संकलनायां यथोत्तरमंका निवेश्यंते, इत्येकद्वित्र्यादिक्रमः, तत्र गच्छः त्रिंशत् त्रिंशतोऽकस्थानानांभायादुत्तरमेकं, एकोत्तरावावृद्धर्भावात, आदिरप्येकंसाकस्थानानामादावेकस्य भावात् गच्छस्य त्रिंशत् उत्तरण एकेनसंवर्गोगुणनं,गच्छोत्तरसंवर्गस्तस्मिन् किमुक्तंभवति; त्रिंशदेकेन [2119 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy