SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छंदसूत्रम् - १- १/१४ आरोपणास्थानेच न पंचकवृद्धिर्नापि पंचकापकृष्टिः, किंतु वृद्धिहानिर्वा एकोत्तरा, ततो यद्यपि तद्भावना धिकृतगाथाक्षराननुयायिनी तथापि विनंवजनानुग्रहाय क्रियते ।। तद्यथा, चतुर्थ स्थापनास्थाने जवन्या स्थापना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना, एवमेकैकं प्रक्षिपता तावदंतव्यं यावदेकोनाशीत्यधिकदिनशततमा स्थापनेति, तथा चतुर्थस्थाने जघन्यारोपणा एकदिना, ततोऽन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना, एवमेकैकं परिवर्धयता तावदंतव्यं यावदकांनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा आरोपणेति, संप्रति संवेधभावना एकदिनावां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना, मध्यमा ततोऽन्या त्रिदिना एवमेक दिनां स्थापनामसुंचता एकैकं परिवर्धयता तावद्गंतव्यं यावदेकीनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिशततमारोपणा अस्यामकोनाशीत्यधिकशतप्रमाणान्यारोपणास्थानानि, तथाहि द्विदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनां स्थापनाममुंचता एकैकं परिवर्धयता तावन्नेयं, यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशततमा आरोपणा, अस्यामष्टसप्ततिशतप्रमाणान्यारोपणास्थानानि, पूर्वस्थापनातोऽस्यां स्थापनायामेकस्य परिवृद्धेरंते एकस्य त्रुटितत्वात् ।। १२८ - एवमुत्तरोत्तरस्थापनास्थानसंक्रांती तदंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावदेकांनाशीत्यधिकशततमायां स्थापनायामेकैव जघन्या एकदिना आरोपणेति, तथा एकदिनावाभारीपणायां जघन्या स्थापना एकदिना, ततोन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना, एवमेकदिनामारोपणाममुंचता एकैकं परिवर्धयता तावदंतव्यं, यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिदिनशततमा स्थापना, अस्यामेकांनाशीत्यधिकशतसंख्यानिस्थापनास्थानानि, तथा द्विदिनायामारीपणायां जघन्या स्थापना एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनामारोपणाममुंचता एकैकं परिवर्धयता तावद्वतव्यं, यावदृष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशतमाना स्थापना अस्यामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, कारणं प्रागुक्तमनुसर्त्तव्यं, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावतिममंतिमं स्थानं परिहरता तावद्गंतव्यं, यावदेकोनाशीत्यधिकशततमायामारोपणायामेकैव जघन्या एकदिना स्थापनेति, इह एकैकस्मिन् स्थापनास्थाने आरोपणा जघन्या मध्यमा उत्कृष्टा च प्रतिपादिता, ततः सांप्रतमुत्कृष्टारोपणापरिज्ञानार्थमाह ।। [ भा. ३६१] जो ठणवणा उद्दिट्टा, छम्मासा ऊणिवा भवे ताए । आरोवण उक्कोसा तीसे ठवणाए नायव्वा ।। यस्याः वृ- षण्णां मासानामशीतदिवसशतं भवति, तत् स्थापयित्वा या स्थापना उदिष्टेति, स्थापनायाः उत्कृष्टा आरोपण ज्ञातुमिष्टा सा उदिष्टेत्यभिधीयते, उद्दिष्टा ईप्सिता, इत्यनर्थांतरं तया षण्मासाः षण्मासदिवसा ऊनकाः क्रियते, किमुक्तं भवति तामुद्दिष्टां स्थापनां षण्मासादिवसेभ्यो अशीत्यधिकशतप्रमाणेभ्यः शोधयेत्, ततो यच्छेषभवतिष्ठते, तत्तस्याः ईप्सितायाः स्थापनाया उत्कृष्टा आरोपणा भवति ज्ञातव्या० ।। यथा विंशतिदिनायाः स्थापनाया उत्कृष्टा आरोपणा ज्ञातुमिष्टा, ततो विंशतिरशीत्यधिकशतात् पण्मासदिवससंख्याभूतात् शोध्यते, जातंषष्ठयधिकं शतं, एषा विंशिकायाः स्थापनाया उत्कृष्टा आरोपणा, ततः परमारोपणाया असंभवात्, विंशत्या सह पष्णां मासानां परिपूर्णानां भावात्, षण्मासाधिकस्य च प्रायश्चित्तस्यादानात् । । तथा पंचविंशतिदिनायाः किलोत्कृष्टा आरोपणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy