SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४, [भा. ३५२ ] १२३ विनापि यदुक्तार्थग्राहित्यात्, ततोऽगीतार्थ इत्युक्तं, सोपि यदि परिणामको भवेत्, तर्हितमपि प्रतिस्थापनारोपणे तस्यापि परिणामकतया ताभ्यां विनापि यदुक्तार्थप्रतिपत्तेः, तत आह, अपिच अपिच अपरिणामोपिनविद्यते, परिणामो यदुक्तार्थपरिणमनं यस्व स, तथा आस्ताम गीतार्थः । । किंत्वपरिणामकश्चेत्यपि शब्दाथः, अथवा अतिपरिणामः अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्यासावतिपरिणामस्तत्प्रत्ययकारणात् तयोरगातीर्थयोरपरिणामातिपरिणामयोः प्रत्ययो ज्ञानं यावंती मासाः प्रतिसेवितास्तावंतः सर्वेपि सफलीकृता इत्येवंरूपं स्यादिति हेतोः स्थापनाग्रहणेनारोपणापि गृह्यते इति आरोपणापि क्रियते तद्यथा, यावंती मासा दिवसा वा प्रतिसेविता स्तावंतः सर्वे एकत्र स्थाप्यंते, स्थापयित्वा च यत् संक्षेपार्हं विंशिकादिकं प्रतिसेवितं तत् स्थाप्यते, एषा स्थापना; तदनंतर येऽन्ये मासाः प्रतिसेवितास्ते सफली कर्त्तव्या इत्येकैकस्मात् मासात् प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान् विषमान् वा दिवसान् गृहीत्वा एकत्र रोपयति एषा आरोपणा, एषा चोक्तर्षतस्तावत् कर्त्तव्या, यावत्या स्थापनाया सह संकलय्यमाना षण्मासाः पूर्यते नाधिकाः । । ततः स्थापनारोपणयोर्यदेकत्र संकलनमेघ संचयः, अयं स्थापनारोपणासंचयानां परस्परप्रतिभक्तोऽर्थः अनेन हि प्रकारेण प्रायश्चितदानेतिपरिणामकोऽपरिणामको वा चिंतयति, सर्वे मासाः सफलीकृता इति, शुद्धोहमिति गीतार्थ परिणामकयोः पुन र्न स्थापनारोपणा प्रकारेण प्रायश्चित्तं दीयते, प्रयोजनाभावात् किंत्वेवमेव तथाचाह [ भा. ३५३ ] एगंमि नेगदाने नेगेसु य एगदानमेगेगं । जं दिजइतं गिव्हइ गीयमगीतोय परिणामी ।। वृ-योगीतार्थो यश्चागीतार्थोपि परिणामी तस्मै एकस्मिन् मासे प्रतिसेविते रागद्वेपहपोत्तरोत्तरवृद्धया प्रतिसेवनात् यदि अनेकदानं, अनेके अनेकेषु मासेषु प्रतिसेवितेषु कारणे मंदाध्यवसाये वा प्रतिसेवनात् तीव्राध्यवसायतः प्रतिसेवनाद्वा पश्चाद् हा दुष्ठु मया कृतमित्यादि बहुनिंदनादेकदानमेको मासो दीयते, बहवी मासा दीयंते, अथवा एकस्मिन् मासे प्रतिसेविते एकदानमेकः - परिपूर्णो मासो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात, पञ्चाच्च हर्षरागद्वेपवृद्धयासंभवतीनेकमासदानायोगात् उपलक्षणमेतत् तेनैतदपि द्रष्टव्यं, बहुपु मासेषुसप्ताष्टादि संख्येषु प्रतिसोवितेषु यदि बहवो मासाः पट् पंच चत्वारी वा दीयते, तथापि तत् सम्यग् गृह्णाति, श्रद्धत्ते च शुद्धिं प्राप्तोहमिति ततस्तयोन स्थापनारोपणप्रकारेण प्रायश्चित्तदानमिति । । यदि पुनर्परिणामकेऽतिपरणिमेकवा अगीतार्थे न स्थापनारोपणाप्रकारेणदीयते, तदा बहवी दोषा; तत्र अपरिणामके दोषं दर्शयतिः ( भा. ३५४) Jain Education International बहुए एगदाने, सो चिय सुद्धी न सेसया मासा । मा अपरिणामे उसका, सफला मासा कया तेन ।। 7 वृ- बहुकेषु मासेषु प्रतिसेवितेषु यदा प्रागुक्तकारणवशात् एको मासःस्थापनारोपणाव्यतिरेकेणपरिणाम के दीयते, तदा तस्मिन्नपरिणामिके एवमाशंका स्वात्, यथा यस्यैकमासस्य मे दत्तं प्रायश्चित्तं स एवैको मासः शुद्धो, नशेषा मासास्ततो नाद्याप्यहं शुद्ध इति, तस्मादेवंभूता आशंका मा भूदित्यपरिणामके स्थापनारोपणाप्रकारेण सर्वे मासाः सफलाः कृताः, समस्तमाससफलीकरणार्थं तत्र स्थापनारोपणे क्रियेते, इतिभावः, अतिपरिणामके दोषानुपदर्शयति | भा. ३५५ ] ठवणामेत्तं आगेवणत्ति नाऊणमतिपरिणामो । For Private & Personal Use Only - www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy