________________
१२२
व्यवहार -छदसूत्रम्-१-१/१४ हानिर्भवति, ततोरागद्वेपहादीन्येववृद्धिहानिमंतिकरणानि; ।।पुनः शिष्यः पृच्छति, ननुयदिप्रावश्चित्त वृद्धि हानिषु रागद्वेषहर्षादीनि वृद्धिहानिमंति करणानि, ततस्तानि प्रतिसेवकगतानि परमार्थतो जिना एव तुशब्द एवकारार्थी भिन्नक्रमत्वादत्रसंबंध्यते, केवल्यवधिमनःपर्यायज्ञानिचतुर्दशदशनवपूर्विणो जानंति, केवलादिबलात् (भावात्); ये पुनः कल्पप्रकल्पव्यवहारिणस्ते कथं जानंति ? तेषामतिशयाभावात्, अत्राचार्यप्रतिवचनं,तेऽपिजानंतितदुपदिष्टश्रुतज्ञानप्रमाणतस्तथाहि । तेऽपि वारत्रयमालोचनांदापयंतः श्रुतोपदेशानुसारसाऽवबुध्यत: रागद्वेषाद्यध्यवसायस्थानानांवृद्धिंहानिं चेति, चोवगपुच्छाबहुनाउंति । बहुशःशब्दविशेपितेषुसूत्रेषुबहुशब्दोऽस्ति,तमर्थतो ज्ञातुंचोदकस्यपृच्छा, यथा भगवन्तेषु सूत्रेषूपात्तस्थ बहुशब्दस्य कोर्थ ? इति, आचार्य आह - [भा.३५०] तिविहं चहोति बहुगं, जहन्नयं मझियं चउकोस ।
जहन्नण तिन्निबहुगा, उक्कोसो पंच चुलसीया ।। दृ-त्रिविधबहुकंभवति, तद्यथाजघन्यंमध्यमं उत्कृष्टंच, तत्रजघन्येन त्रीणि बहनिकिमुक्तंभवति, जघन्येन त्रयोमासा वहब उक्ताः, उत्कर्पतः पंचमासशतानि चतुरशीत्यधिकानिएतेषां मध्ये यानि । प्रायश्चित्तस्थानानि चतुरादीनि यावत् पंचशतानि त्र्यशीत्य अधिकानि तानि मध्यमतः । ।संप्रति यथा प्रायश्चित्तं दीयते, तथा भणनीयं तत्रमासादारभ्ययावत्षण्मासास्नावत्स्थापनारोपणा व्यतिरकेणापि सूत्रेणैवदीयते, ततः पराणितुयानि सप्तमासादीनिप्रायश्चित्तानि मध्यमानि, उत्कृष्टं यत्प्रायश्चित्तं तत् स्थापनारोपण प्रकारेणैव दीयते, इति तत्प्रतिपादनार्थमिदमाह[भा.३५१] ठवणा संचयगसी,माणाइपभूयकित्तिया सिद्धा ।
दिठा निसीह नामे सव्वेवि तहा अनाचाग ।। वृ-स्थाप्यते इति स्थापना वक्ष्यमाणेनारोपणाप्रकारेण शुद्धी भूतेभ्यः संचवमासभ्यो ये शेपा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापन; ताभ्यां स्थापनारोपणाभ्यां संचयनं-संकलनं संचयः, किमुक्तं भवति ? घण्णां मासानामुपरि प्रतिसेवनाथां कृतायां कुतापि मासात् पंचदश रात्रिंदिवसानि कुतोपि दश कुतोपि पंच गृहीत्वा स्थापनारोपणाविधानेन पण्मासपूरणं संचयः ।। तथा रासित्ति एष प्रायश्चितराशिः, कुत उत्पद्यते ? इति वक्तव्यं, तथामानानि प्रायश्चित्तस्य वक्तव्यानि, यथा प्रथम तीर्थकृतस्तीर्थे प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, चरमस्य पण्मासाः, तथा प्रभवः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वक्तव्याः ।।तथा कत्तियासिद्धा; इति किवंतः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यः, तथा एते सर्वेपि प्रायश्चित्तभेटा दृष्टा निशीथनाम्नि अध्ययने न केवलमेते, किंतुतथा सर्वेप्यनाचार अतिचार अतिक्रमादयोनिशीथनाम्नि दृष्टाः, एप द्वारगाथासंक्षेपार्थः। संप्रति प्रतिद्वारंव्यासार्थो भणनीयस्तत्रयान्प्रतिस्थापनारोपणे क्रियते तानुपदर्शवति - भा.३५२] बहुपडिसेवी सो यो, वि अगीतो अविय अपरिणामोवि ।
अहवा अतिपरिणामो तप्पञ्चय कारणेठवणा ।। वृ- इह प्रायश्चित्तप्रतिपत्तारः पुरुषा इमे तद्यथा, गीतार्थोऽगीतार्थः परिणामकोऽपरिणामकोऽतिपरिणामकञ्च,तत्यः प्रायश्चितप्रतिपत्ता बहूना मासिकस्थानानां प्रतिसेवी एकस्मिन् हि मासिकेस्थाने प्रतिसेविते प्रायो न स्थापनारोपणाविधिस्ततो बहुसेवीत्युक्तं सोपिच गीतोऽगीतार्थः ।। गीतार्थे हि प्रायश्चित्तप्रतिपत्तरिच बहुष्वपिमासेषुप्रतिसेवितेषुनस्थापनारोपणे क्रियेते, तस्य गीतार्थतया ताभ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org