SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११४ व्यवहार - छेदसूत्रम्-१-१/१० प्रतिसेवनातः प्रायश्चित्तस्य वृद्धिहानी यथाकेनापि तीव्ररागद्वेपाध्यवसायेन मासिकंस्थानं प्रतिसेवितं, तस्य मासः परिपूर्णो दीयते अपरेण मंदाध्यवसायेन द्वैमासिकस्थाने प्रतिसेविते तस्य एकैकस्य मासस्य पंचदश २ दिनानि गृहीत्वा मासो दीयते, शेषं त्यज्यते मंदाध्यवसायेन प्रतिसेवनात् अन्येन मंदतमाध्यवसायेन त्रीणि मासिकस्थानानि प्रतिसेवितानि, तस्यैकैकस्यमासस्यदशदश दिनानिगृहीत्वा मासोदीयते,शेपंसर्वत्याज्यं, अपरेणातिमंदतमाध्यवसायेनचत्वारिमासिकस्थानानिप्रतिसेविनाति; तस्मै चेकैस्य मासस्य अर्धाष्टमानि २ दिनानि गृहीत्वा मासा दीयते इत्यादि ततो भवति मूल्यं रागद्वेपों एवं सकलद्वैमासिकादिसूत्रेषु बहुशः सूत्रेषु च कारणायतनाप्रतिसेविनो रागद्वेषवृद्धिहानित उपयुज्य वहुविस्तारंवक्तव्यं, तदेवगदभत्तिव्याख्यातमधुनाअद्धाणसेवियमीत्यादिव्याख्यायलेगीतार्थेनाध्वनि उपलक्षणमेतदन्यस्मिन् कारणांतरे यदयतनया प्रतिसेवितं तत्र बहूनि मासिकस्थानान्यापन्नानि तानि चालोचनाकाले सर्वाण्यप्येकवेलयालोचितानि गुरुश्चालोचनाप्रदानविशेषतो जानाति यथैव गीतार्थः कारणेच प्रतिसेवनाकृता परमयतनया ततोऽयतनाप्रसंगनिवारणार्थं सर्वेषामपि मासानांसमविषमाणां समविषमतया दिवसान् गृहीत्वा मास एकस्तस्मै दत्तः अगीतार्थोपि यो मंदेनाध्यवसायेन बहूनि मासिकस्थानानि प्रतिसेव्य तीव्रण वाध्यवसायेन प्रतिसेव्य हा मयादुष्टुकृतमित्येवमादिभिर्निदनैरालोचितवान्सोप्येकेनमासेन शुध्यति तथाप्यगीतार्थोऽपरिणमकोवाचिंतयेत्द्वैमासिकाद्यापन्नोहंकथमेकेन मासेन शुद्धयामि ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमेकैकस्मात् मासात् कपिपयान् कतिपयान दिवसान् गृहीत्वा मासमेकं प्रयच्छति । __ यथाद्वयोमसियोः प्रतिसेवितयोरेकैकस्यार्द्धमासमर्द्धमासंगृहीत्वाइति एवं सर्वेपि मासाःसफलीकृता इति तस्य महतिधृतिरुपजायते, यस्त्वागमव्यवहारी सनव्यवहारी सवैमासिकंप्राप्तस्य द्वादपिमासो सफलीकरोति किंत्वेकंददाति, द्वितीयंत्यजतिसहिप्रत्यक्षज्ञानीततोनतवचनेकरयाप्यशुद्धयाशंकेति यदा पुनः तीव्राध्यवसायो निष्कारणप्रतिसेवी, तस्व मासादिकमापन्नस्य परिपूर्नमासादिकमेव दीयते । [भा.३३२] वीसुदिन्ने पुच्छा, दिटुंतो तत्थदंडललिएणं, दंडो रक्खो तेसिंभयजननंचेव सेसाणं । वृ-एवंगीतार्थानामगीतार्थानांचकारणे निष्कारणेवा विष्वक्पृथक्प्रायश्चित्ते दत्तेपुच्छति शिष्यः पृच्छति किंः कारणमगीतार्थानां निष्कारणे कारणेचविसदृशं प्रायश्चित्तं दत्तमिति अत्र कोठागारत्तिए इत्यस्य व्याख्याया अवसरः दिद्रुतो तत्थ दंडललिएणा तत्र पुरुषभेदेन विसदृशप्रायश्चित्तदाने दृष्टांतो दंडलातिकेन दंडालातो गृहीतो येन सदंडलातः सुखादिदर्शनात् निष्टांतस्य परनिपातः । दंडलात एव दंडलातिकः प्राकृतत्वात् स्वार्थिक इकप्रत्ययोयथापृथिवीकायिका इत्यत्रतेनदंडलातिकेनगृहीतदंडेन राज्ञा इत्यर्थः । यथा तेन दंडलातिकेन राज्ञा राजकार्ये प्रवृत्तानामपि तेषां दंडानां रक्षा भवति मा भूयो ग्रहीतुः कोष्ठागाराणीति निवारणार्थं, तथा शेषाणां भयजननंचभयोत्पादश्चस्यादित्येवमर्थं स्तोको दंड: कृतस्तथागीतार्थस्यापिकारणेप्रवृत्तस्यायतनाप्रसंगनिवारणार्थमगीतार्थस्य मंदाध्यवसायप्रतिसेविनो दुष्टाध्यवसायप्रतिसेविनोवा, वा बहुभिर्निंदनैर्दत्तालोचनस्य प्रमादनिवारणार्थमासानांसमविषमतया दिवसान्गृहीत्वामासोदीयते, तथा वासराजाशेपस्य राजकार्याप्रवृत्तस्यकोष्ठागारमूपकस्य सर्वात्मना दंडं करोति, एवं यो निष्कारणप्रतिसेवितस्य मासमापन्नरय परिपूर्ण मासादिकं दीयते । अथ के ते दंडाः कथंचतेषां राजा दंडं कृतवानिति तत्कथानकसूचकमिदं गाथाद्वयमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy