SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०६ व्यवहार-छेदसूत्रम्-१-१/१ सर्वेषामपिचग्रहाणामात्मीयादुच्चैः स्थानात्यत्सप्तमस्थानंतत्नीचैः स्थानं । अथवाभावतः प्रशस्ताये सोमग्रहा बुधशुक्रबृहस्पतिशशिन एतेषां संबंधिषु राशिषुएतैरवलोकितेषुचलनेषु आलोचयेत्, तथा तिस्रो दिशः प्रशस्ता ग्राह्याः, तद्यथा पूर्वोत्तरा चरती चरंती नाम यस्यां भगवानहन् विहरति सामान्यतः केवलज्ञानी मनःपर्यवज्ञानी अवधिज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावन्नवपूर्वी, यदिवा यो यस्मिन युगे प्रधान आचार्यः सवा यया विहरति एतासां तिसृणां दिशामन्यतमस्या दिशोभिमुख आलोचना)ऽवतिष्ठते,तस्येयं सामाचारी | [भा.३१५] निसज्जासति पडिहारिय, किइकम्मं काउपंजलुक्कुडुओ; बहुपडिसेवरिसा सुयअनुन्नावेउं निसिंज्जगतो। वृ-आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति । असति आत्मीयकल्पानामभावे अन्यस्य सत्कान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति । कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति, तत आलोचको दक्षिणत उत्तराभिमुखो अवतिष्ठते, अथाचार्य उत्तराभिमुखो निषन्नाः । तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरंती वा दिशंप्रत्यभिमुखोभवति ततः कृतिकर्म द्वादशावतं वंदनकं दत्वा प्रबद्धांजलियेन स प्रांजलिः उत्सर्गत उत्कुडुकः स्थितः सन् आलोचयेत् । यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना समाप्तिमुपयास्यतितावंतं च कालमुत्कुटुकः स्थातुंनशक्नोति, यदिवा अर्शोरोगवतउत्कुटुकस्यसतो अशंसिक्षोभमुपयांति ।ततो बहुप्रतिसेवीअर्श:सुचसत्सुगुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादपोंछने वा अन्यस्मिन्या यथार्ह आसने स्थित आलोचयति, किं पुनस्तदा आलोचनीयं उच्यते चतुर्विधद्रव्यादितथाचाह - भा.३१६) चेयणमचित्तदव्वं जनावय मट्टाणा य होइखेत्तंमि, दिननिसिसु भिक्ख दुभिक्खकालेभावमिहद्वैयरे । वृ- द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् मिश्रं वा अचित्तमचेतनं वा अकल्पिकं यत् प्रतिसेवितं, क्षेत्रतो जनपदे वा, कालतो दिने निशि वा सुभिक्षे दुर्भिक्षे वा भावे हद्वेयरे इति सप्तमी तृतीयार्थे हष्टेन इतरेण वाग्लानेन सतायतनयावा दर्पतः कल्पतोवातत् आलोचयतिकथमित्याह - जह बालो जपंतो जंपंतो कज्जमकजं च उज्जुयंभणइ; __ तंतह आलोएज्जामायामयविप्पमुक्को उ । यथा बालोमातुः पितुर्वा पुरतो जल्पन कार्यमकार्यंचऋजुकमकुटिलंभगति । तथा आलोचकोपि मायामदविप्रमुक्तः सन्तत्आलोचयेत्; यथा ऋजुकभावनालोचयेत्आलोचनायाश्चेमे गुणाः । [भा.३१८] लहुयाहलादीजननं अप्पपरनियतिश्रज्जवंसोही । दुक्करकरणं विनाओनिसल्लत्तं वसोहिगुणा । वृ. लघो वो लघुता यथा भारवाही अपहृतभारो लघुर्भवति । तथा आलोचकोप्युद्धतशल्यो लघुर्भवतिइतिलघुता । तथालादनं ह्लादिरोणादिकइप्रत्ययः ।प्रल्हत्तिस्तस्यजननमुत्पत्तिहादिजननं प्रमोदोत्पाद इति यावत् तथा ह्यतिचारधर्मतप्तस्य चित्तस्य मलयगिरिपवनसंपर्केणेव आलोचनाप्रदानेनातीचारधापगमतो भवति संविग्नानां परममुनीनां महान् प्रमोद इति, तथा अप्पपरनियत्तित्ति आलोचना प्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृतांतं च दष्ट्रा अन्येप्यालोचनाभिमुखा भवंति इतिअन्येष्यामपिदोषेभ्यो निवर्त्तन मिति.तथा यदतिचारजातंप्रतिसेवितं तत्परस्मैप्रकटताआत्मन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy