SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उद्देशक : 5: १, मूलं : १, [ भा. ३१७] आर्जवं सम्यग्विभावितं भवति आर्जवं नाम अमायाविता तथा अतिचार पंकमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेन अतिचारपंकप्रक्षालनतो निर्मलताशोधिः तथा दुष्करकरणं दुष्करकारिता तथाहि यत् प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात् यत् पुनरालोचनयति तत् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणौव तस्य कर्तुं शक्यत्वात् तथा विणओ इति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति निस्सल्लत्तमिति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता एते शोधिगुणाः आलोचनागुणा आलोचनाशोधिरित्यनर्थांतरत्वात् अथ कस्य समीपे आलोचना दातव्या उच्यते । आगमव्यवहारिणः श्रुतव्यवहारिणो वा तथाचाह आगमसुयववहारी आगमतो छव्विहो उ ववहारो: [ भा. ३१८ ] केवलमनीहिचोद्दसदसनव्वपुथ्वी नायव्वो । वृ- आगमसुयववहारीति व्यवहारशब्दः प्रत्येकमभिसंबध्यते आलोचनाह द्विविधस्तद्यथा आगमव्यवहारी श्रुतव्यवहारी च तत्रागमव्यवहारी षड्विधस्तद्यथा केवली केवलज्ञानी । मनोहित्ति पदैकदेशे पदसमुदायोपचारात् मनः पर्यायज्ञानी अवधिज्ञानी, चोदसदसनवपुव्वी इति पूर्विशब्दः प्रत्येकमभिसंबंध्यते चतुर्द्दशपूर्वी दशपूर्वी नवपूर्वी ज्ञातव्याः एते चागमव्यवहारिणः प्रत्यक्षज्ञानिन उच्यंतेः चतुर्द्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् तथाहि येन यथा योतिचारः कृतस्तं तथा सर्वमेते जानतीति । [ भा. ३१९ ] 9019 पम्हुठ्ठे पडिसारण, अपडिवज्जं तयं न खलु सारे । जइ पडिवज्जइ सारे दुविहतियारंपि पच्चक्खी ! बृ- प्रत्यक्षाप्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं वातिचारमालोचयतो यत् किमप्यालोचनीयं पम्हुवेत्ति विस्मृतं भवति तस्मिन् विस्मृते प्रतिसारणं करोति यथाऽमुकं तवालोचनीयं विस्मृतमिति, तदप्यालोचयेति, केवलं यदि केवज्ञानादिबलेनैतत् जानाति, यथैव भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते, वर्तमानबद्वेति वचनतो भविष्यति वर्त्तमानाभिधानात्प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथैष भणितोपि सन् न सम्यक् प्रतिपत्स्यतेइति, तदा तमप्रतिपद्यमानं अप्रतिपत्स्यमानं न खलु नैव स्मारयति निष्फलत्वात् अमूढलक्ष्यो हि भगवानागमव्यवहारी; अत्र एव दत्तायामप्यालोचनायां यथालोचकः सम्यगावृत्ती ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्तती न प्रयच्छतीति; श्रुतव्यवहारिणः ग्राह कम्पपकपी उसुए, आलोययावेति तेउ तिक्खुत्तो । [भा. ३२० ] सरिसत्थमपलिउंची विसरिसपरिणामतो कुंची ।। Jain Education International - वृ- कल्पग्रहणेन दशाश्रुतस्कंधकल्पव्यवहारा गृहीताः प्रकल्पग्रहेणन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं, तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधरास्तु शब्दात् महाकल्पश्रुतमहानिशीथनियुक्तिपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यंते, ते चालोचकं त्रिः कृत्वस्त्रीन्वारान् आलोचापयंति ते ह्येकंद्वी वारावालोचिते अनेन प्रतिकुंचनयालोचितमप्रतिकुंचनया वेति विशेषं नावबुध्यते । ततस्त्रीन् वारान् आलोचापयंति कथमिति चेत् उच्यते, प्रथमवेलायां निद्रायमाण इव श्रृणोतिततो ब्रूतेनिद्राप्रमादं गतवानहमितिन किमप्यश्रौषमतो भूयोप्यालोचय, द्वितीयबारमालोचिते भणति न सुष्ठुमयावधारितमनुपयोगभावादतः पुनरष्यालोचय, एवं त्रिष्वपि वारेषुयदि सध्शार्थमालीचितं For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy