________________
उद्देशक : १, मूलं : 9, [भा. ३०१ ]
१०३
कर्तव्या, राज्ञश्च वादिविषये कारणं दीपयंत्यचार्याः, यथाहं कारणवशेन दिनमेकमक्षणिको भविष्यामीति एवं चेन्न कुर्वीत तदा प्रायश्चित्तं चतुर्गुरुकाः । तदेवमुक्तः क्षपणोपसंपद्विधिरिदानीं ज्ञानार्थं दर्शनार्थं चारित्रार्थं चोपसंपद्यमानः प्रतीच्छितो नियमादालोचनां दापयितव्यः, स च दाप्यमानः कथमालोचनां ददाति, उच्यते ।
[ भा. ३०२ ]
आलोयणं तहचेवय, मूलुत्तरे नवरि विगडिए इमं तुः । इत्थं सारण चोयण, निवेयणतेवि एमेव ।
वृ- यथा संभोगिकानां विहारालोचनायां मूलगुणातिचारविषये उत्तरगुणातिचारविषये च भणितं, तथात्रापि भणितव्यं किमुक्तं भवति उपसंपद्यमानोप्यालोचनां ददानः पूर्वं मूलगुणतिचारान् प्रागुक्तक्रमेणालोचयति, पश्चादुत्तरगुणानिति नवरमयं विशेषः, विकटिते आलोचिते एकत्र स्थितान् विभिन्नस्थितान्वा प्रत्येकं वंदित्वा इदं भणति,
आलोयणा में दिन्ना इच्छामि सारणवारणचोयणंति तेप्येवमेव । प्रतिभणतो निवेदनं कुर्वीत अज्जी अम्हे सारेज्जा, वारेज्जा, चोइज्जा इति । । गता उपसंपदालोचना सांप्रतमपराधालोचना ययात्र प्रकृतं [ भा. ३०३ |
एमेव अवराहे किं न ते कया तहिं चिय विसोही । अहिगरणादीसाहति गीयच्छो वा तहिं नत्थि ।।
वृ- यथा विहारालोचनायामुपसंपदालोचनायां च त्रिधिर्भणित एवमेव तथैव अपराधालोचनायामपि द्रष्टव्यो, यावत् पृष्टो वा अपृष्टो वा ब्रूते अहमपराधालोचकः समागतः तत आचार्यैवैक्तव्यः किं केन कारणेन ते त्वया तत्रैव स्वगच्छ एव न कृता विशोधिः प्रायश्चित्तांगीकरणेन, एवमुक्ते यदि साधयति कथयति अधिकरणादीनि अधिकरणं तैस्सहजातमादिशब्दैत् प्रागुक्तविकृतियोगप्रत्यनीकादिकारणपरिग्रहः अथवा वक्ति तत्र गीतार्थो नास्ति तत्राधिकरणादिष्वविशुद्धिकारणेषु समागत एवं प्रतिभणनीयः ।
( भा. ३०४)
Jain Education International
नच्छि इहं पडियरगा, खुलखेत्तं उग्गमविय पच्छित्तं संकियमादीवपदे जहक्कमं ते तहवि भासे ।
बृ- अस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अपराधापन्नस्य प्रायश्चित्ते दत्ते तपः कृर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते इह मम पार्श्वेन संति, खुलक्षेत्रं नाम मंदभिक्षं यत्र वा प्रभूतमुपग्रहकारि घृतादि द्रव्यं न लभ्यते, तादृशमिदं क्षेत्रं तथाविधदानं शुद्धश्रावकाभावत् वयमपि स्तोकेप्यपराधे उग्रं प्रायश्चित्तं दद्मः तथा गुरुपारंपर्यसमागमात्, तथा यानि नत्थी संकियसंघाडेत्यादि प्रागुक्तगाथोपन्यस्तानि शंकितादीनि पदानि संभवेन यथाक्रमं तथेति समुच्चये विभाषेत ब्रूयात् यथा प्रायश्चित्तसूत्रमनुसृत्त्य प्रायश्चित्तं दीयते, तदिदानीं विस्मृतं शंकितं जातंन चार्थ स्मरामि, ततः कथं प्रायश्चित्तं प्रयच्छामि, अथवा प्रायश्चित्तं पतिपन्ने सति तत्तपस्त्वयेह कर्त्तव्यं तत्र चेयमस्माकं सामाचारी बहिर्भूमिमात्रमपि संघाटकं विनान गंतव्यं, यदि पुनः कोपि गच्छतिततस्तस्मै प्रायश्चित्तमत्युग्रं ददामि इत्येव यथासंभवं शंकितादीनि पदानि बूयात् नतु दद्यादालोचनामिति, यस्तु निर्गमनशुद्ध आगमनेन तु शुद्धोऽशुद्धो वा प्रतीच्छ्यते । तस्यालोचनायां विधिर्वक्तव्यः तत्र यदुक्तमधस्तात् अवराहे दिवसतो पसच्छंमि इति तदिदानीं व्याख्यानयंति
For Private & Personal Use Only
www.jainelibrary.org