________________
उद्देशक ः १, मूलं : १, [भा. २९५]
१०१ अथ तत्र गच्छे अन्यो वास्तव्यः क्षपको न विद्यते, तदा नियमतः स प्रतीच्छनीयः, केवलं सोपि गच्छानुमत्या, अन्यथा न किमपितस्य गच्छः करिष्यति, तत्र यदिप्रमादतो वैयावृत्त्यभीरुतया गच्छो नानुमन्यते, तदा स प्रज्ञापनीयः । अथ कारणवशतस्तदान प्रतीच्छनीयः,यदि पुनर्गच्छाननुमत्यापि प्रतीच्छति तदा तस्य प्रायश्चितं चत्वारो लघुकास्तथा गच्छानुमतो यो यतः प्रतिलभ्यते स सततः क्षपकप्रायोग्यमानयति, अननुमतौचनकोपिकिमप्यानयतीत्यसति पारणकदिनेपर्याप्त्याप्रायोग्यद्रव्ये असंस्तरणमसंस्तरणाच्च परितापनादुःखं तन्निमित्तं प्रायश्चित्तमाचार्यस्य, तथा पारणकदिने ग्लानोपमो जायते, तथा शेषेषु साधुषुप्रयोजनांतरख्यापृततया भक्तंपानं वा ददानेषु स्वयं हिंडमाने ये दोषास्तेपि वक्तव्याः; संप्रतितस्यक्षपकस्यवास्तव्यस्यागंतुकस्यवाकृतप्रत्याख्यानस्यापियत्प्रतिदिवसंकर्तव्यं तदाह- पडिलेहणेत्यादि तस्योपकरणं कल्पादि यथायोगमुभयकालं प्रतिलेखनीयं, संस्तारकश्च तस्य कर्तव्यः,तथा पानकंपानीयंतस्योचितमानीयदातव्यंतथामात्रकत्रिकंचउच्चारमात्रकंप्रश्रवणमात्रकं खेलमात्रकंच यथाकालं समर्पणीयं परीष्ठापनीयं च, सांप्रतमेनामेव गाथां व्याख्यानयन प्रथमतो अनपडिच्छणेलहुगाइति असइइति च व्याख्यानयति - [भा.२९६] दुण्हेगतरे खमणो, अन्नुपडिच्छंतसंथरेआणा।
अप्पत्तियपरितावणसुत्तेहानिअन्नहिंच इमे । वृ- वास्तव्ये क्षपके क्षपणे द्वयोलानोपमयोरन्यतरस्मिन् विद्यमाने यदि गच्छानापृच्छया अन्य प्रतीच्छतितदातस्मिन्नन्यं प्रतीच्छतिप्रायश्चित्तं लघुकाश्चत्वार इतिवाक्यशेषः, तथायुगपत्तद्वयोः क्षपकयोः पारणकदिने युगपत्समापतितेप्रायोम्यद्रव्ये अलाभतो असतिदिवास्तव्यक्षपकवैयावृत्त्यकरणव्यापृतानामागंतुकस्यवैयावृत्त्यकरणवेलातिक्रमतोऽसंस्तरणंभवेत्तस्मिंश्चासंस्तरणयदेषणादि प्रेरयंति तन्निमित्तं प्रायश्चित्तमाचार्यस्य तथा आणत्ति आज्ञापदैकदेशेसमुदायोपचारादाज्ञाभंगानवस्था मिथ्यात्वविराधनादोषाः प्रादुष्युः तस्य चासंस्तरणेअप्रीतिरप्रीत्याचपरितापनं ततः परितापन निमित्तमपिप्रायश्चित्तं तथा शिष्याः प्रतीच्छकाश्चैवं चिंतयेयुरस्माकं द्वयोःक्षपकयो।यावृत्त्यकरणेव्यापूतानां सूत्रेहानिरुपलक्षणमेतत् अर्थेच,तस्मादन्यत्रव्रजामः; संप्रति ।गिलाणोवमे अहंतेयत्ति व्याख्यानयति[भा.२९७] गेलणतुल्लगुरगा अडतेपरितावणासयंकरणे ।
नेसनगहणागहणेदुगट्ठहिंडत्तमुच्छाय ॥ वृ.साधुषुवास्तव्यक्षपकवैयावृत्त्यकरणतः प्रयोजनांतरे व्यापृततयावैयावृत्त्यमकुर्वत्सुयद्यागंतुकः क्षपकोग्लानतुल्यो ग्लानोपमो जायते, तदा सूरः प्रायश्चितं चतुर्गुरुकाः, तथा भक्तं पानं च अददत्सु स्वयंदुगट्टहिंडत्तत्ति द्विकार्थं भक्तार्थ पानार्थं च हिंडमाने स्वयं वा उपकरणस्य प्रत्युपेक्षणादेः करणे या परितापना अनागाढा अगाढा वा मुच्छायति मूर्छा च तन्निमित्तं प्रायश्चित्तं आचार्यस्य तत्रानागाढपरितापनानिमित्तं चतुर्लघु आगाढपरितापनानिमित्तं चतुर्गुरु मूर्छानिमित्तं षट्लघु नेसणगहहणागहणे इति स स्वयं हिंडमानः क्षुधापिपासया वा शीतेन वा उष्णेन वा परितापितः सन् यदनेषणीयमपि गृह्णाणि तन्निमित्तं प्रायश्चित्तमग्रहणे नेषणीयस्य प्रभूतं हिंडमानो यद्वाप्नोति आगाढपरितापनादिकंतनिमित्तमपियत एवमादयो दोषास्तस्माद्च्छमापृच्छ्चतदनुमत्या प्रतीच्छेत, प्रतीच्छितस्य चसर्वं सर्वप्रयत्नेन निर्जरार्थतयाकर्त्तव्यमिति इह आगतः सन्प्रथम दिवसेपिप्रच्छनीयो यथा केन कारणेन त्वमिहागतोसीति, अन्यथा यदि तमपृष्दैव आलोचनामदापयित्वा च संवासयति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org