________________
व्यवहार - छंदसूत्रम्-१-१/१ भा.२९४] अविगिट्टकिलम्मतंभणंति माखम करेहि सज्झायं;
सक्का किलमिउंजेवि, विगिट्टणं तहिं वियर। वृ-अविकृष्टेतपसि क्लाम्यंतंभणंति सूरयो, मा क्षपयमाक्षपणं कुरुन युक्तंभद्र तव क्षपणं कर्तुंन शक्त्यभावादित्यर्थः तस्मात्कुरु स्वाध्यायं, तपःकरणात् स्वाध्यायकरणस्य बहुगुणत्वात्, अपि च स्वाध्यायोपि परमं तपः, यत उक्तं
बारसविहिम्मिवितवे, सभिंतरबाहिर कुसलदिद्वे,
नवि अस्थि नविदोहिइ, सज्झाइसमंतवो कम्मं । . अग्लानोपमस्त्वं विकृष्टतपःकारी तपःकार्यते, यस्तु विकृष्टं तपःकरोति स यद्यपि पारणकदिनेपि ग्लानोपमोजायते, तथापिसकार्यते,यतआहसक्का इत्यादिअपिशब्दः पुनरर्थे येपुनस्तपस्विनोविकृष्टेन तपसापारणकदिने क्लमयितुंशक्याः क्वाभ्यंते इतिभावः । तत्रतेषुतपस्विषु वितरेत् दद्यात्तपःकरणं, तेषांतथारूपाणामपिसमनुजानीयात्, नतुवारणीवं,विकृष्टतपःकरणस्य महागुणत्वात्केवलंभक्तपानं भैषजादिकमानाय्यदातव्यं अथस्लानोपमोन भवति, किंतुस्वयमेवसंस्तारकप्रतिलेखनादीन्व्यापारान सर्वानप्यहीनातिरिक्तानकरोति,प्रतीच्छते, एवंतत्रयोविकृष्टेन तपसाम्लानोपमोभवतितत्रेयंसामाचारी [भा.२९५] अनपडिच्छणे लहुगा असतिगिलाणोवमे अदंतिय;
पडिलेहणसंथारएपानगतहमत्तगतिगंच । वृ-तस्मिन् गच्छे यद्यन्यः कोपि विकृष्टतपःकारी क्षपको विद्यते, सच पारणकदिने ग्लागोपमो वा भवेदग्लानोपमा वा । तथापितस्मिन्विद्यमानेक्षपके अन्य क्षपकमाचार्यो न प्रतीच्छदेत्, प्राक्तनस्य हि क्षपकस्यपारणकदिनेग्लानोपमस्यास्नानोपमस्य वासतावश्यकर्त्तव्यं, नचद्वयोर्वेयावृत्त्यकरणेसाधवः प्रभवंति, तस्मात्न प्रत्येषणीयः, यदिपुनः साधवानुमन्यंतसापि प्रतीक्ष्यतां,तस्यापिवैयावृत्त्वकरणेन समाधिमुत्यादयिष्याम इति, तदा प्रतीच्छनीयः । यदिपुनर्गच्छे विद्यमानेपि विकृष्टतपःकारिणि क्षपके गच्छाननुमतावाचार्योऽन्यं प्रतीच्छति तदा तस्यान्यप्रतीच्छने प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः; असतित्ति तथा असतिप्रायोग्यद्रव्येये दोषास्तेच वक्तव्याः,तेचामी द्वयोः क्षपकयोर्युगपत्पारणकदिने समापतितेपर्याप्त्या पारणद्रव्ये अलाभतो असति असंस्तरणंभवेत्, असंस्तरणाच्च यदेषणादि प्रेरयंति, तन्निमित्तंप्रायश्चित्तमाचार्यस्थापतति,आज्ञाभंगादयश्चदोषाजायंते, तथापारणकप्रायोग्यद्रव्यसंपादनेन संस्तरणमकुर्वत्सुसाधुषु विषयेसोऽप्रीतिंकुर्यात्, अप्रीत्याच अनागाढामागाढां वापरितापनांप्राप्नुयात्, तथा च सति तन्निष्पन्नमपि प्रायश्चित्तमाचार्यस्य, अन्यच्च शिष्याः प्रतीच्छकाश्च द्वयोरपि क्षपकयो(वृत्त्यकरणतो भग्ना एवं चिंतयेयुर्यथान्यान्यक्षपकवैयावृत्त्यवारणेन नास्माकं सूत्रमर्थो वा, तस्मादन्यत्र व्रजाम इति ।
तथा गिलाणोवमे इति तेषु गच्छवासिषुसाधुषु वास्तव्यक्षपकवैयावृत्त्यकरणव्यापृतेषु म्लानापमो जायते,तदातस्याचार्यस्य प्रायश्चित्तं चतुर्गुरुकाः, अडतेयत्ति तथागच्छेवास्तव्यक्षपककरणव्यावृततया भक्तपानं वागंतुकस्याददानेसभक्तार्थपानार्थंवास्वयं हिंडेतप्रत्तिलेखनादिक्रियांचस्वयमेव कुर्यात्, हिंडमानश्चक्षुधापिषासयाशीतनोष्णेनवापीडितोयद्यनागाढां परितापनांप्रायश्चित्तमाचार्यस्यचतुर्लघु, अथगाढां तदा चतुर्गुरुअथमूछतितदाषट्लघु, तथा परिताप्यमानोयोषणांप्रेरयति, तदातन्निमित्तं, प्रायश्चित्तं, अथ न प्रेरयति, तथा प्रभूतमटतो यदा नागाढादिपरितापनां प्राप्नोति, तन्निमित्तं प्रायश्चितं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org