SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ ४६२ बृहत्कल्प-छेदसूत्रम् -२-३/९४ चेति द्विविधः,उभयोऽपिशयनार्थं जीवादिरक्षणार्थंचगृह्यते।पीठं-छगणादिमयम्, उपवेशनार्थम्। फलकः-चम्पकपट्टादिमयः, शयनोपयोगी । पात्रसत्कश्च निर्योगः' प्रत्यवतारो द्विगुणः । एतानि सण्यिपि तदानीं गृह्यन्ते। अथ शिष्यः प्रश्रनयति[भा.४२६४] चत्तारि समोसरणे, मासा किं कप्पती न कप्पति वा। कारणिग पंच रत्ता, सव्वेसि मल्लगादीणं ।। वृ-आषाढपूर्णिमानन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते वा न वा? | सूरिराह-उत्सर्गतो न कल्पते, द्वितीयपदे क्षेत्रस्याप्राप्तौ अध्वनिर्गता वा आषाढपूर्णिमायांप्राप्तास्ततः संस्ताराद्युपधिं डगलादीनी च पञ्च रात्रिन्दिवानि गृह्णन्ति, पर्युषणाकल्पं च रजन्यामाकर्षन्ति, ततः पञ्चम्यां पर्युषणं कुर्वन्ति । अथ पूर्वोक्तकारणात् पञ्चम्यामेव ते प्राप्ताः ततः पञ्चरात्रं तथैव संस्तारक-डगलादीनि गृह्णन्ति, दशम्यांपर्युषणयन्ति। विशेषचूर्णिकृत् पुनराह-तेखेत्ताणं अलंभे आसाढपुन्निमाए चेव ठिया, तेहि य उवही नगहिओ संथारगाई ताहे जाव पंचरत्तं ताव गेहंति, पच्छा पंच दिवसे पजोसवणाकप्पं कहंति, दसमीए पजोसवेंति, एएण कारणेणं कप्पइ पंचरतं, अह पंचमीए पत्ता ताहे तहेव पंच रत्तगा वड्डंति (जाव भद्दवयसुद्धपंचमी) त्ति। एवं सर्वेषां मल्लकादीनामुपकरणानामय कारणिकानि पञ्च रात्रिन्दिवानि प्रवर्धमानानि तावद् मन्तव्यानि यावद् भाद्रपदशुद्धपञ्चम्यां गृहीतेऽगृहीते वाडगल-मल्लकादौनियमात् पर्युषणं विधेयम् ।। [भा.४२६५] तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्ध चारणादिसु। ___ लेवाईण अगहणो, लहुगा पुब्बिं अमहिते वा ॥ कृ. 'तेषां साधूनां तत्र' वर्षाक्षेत्रेस्थितानामियंसामाचारी-सभा-प्रपा-ऽऽराम-देवकुल-शून्यगृहादिषु यद् वस्त्रम् ‘उत्सुद्धं पधिकादिभिः परित्यक्तंतत्प्रत्युपेक्षन्ते, यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यते । तदभावे चारणादिषु प्रत्युपेक्षन्ते । वर्षासु यदि लेपम् आदिशब्दात् पात्रं वा वस्त्र वा गृह्णन्ति ततश्चतुर्लघुकाः । पूर्व वा लेपादीनि यदि न गृहीतानि तदाऽपि चतुर्लघु ।। इदमेव व्याख्याति[भा.४२६६] वासाण एस कप्पो, ठायंता चेव जाव उ सकोसं। परिभुत्त विप्पइन्नं, वाघातट्ठा निरिक्खंति॥ वृ-“वासाण" ति विभक्तिव्यत्ययाद्वर्षासु तिष्ठतामेषः 'कल्पः' सामाचारी-सर्वतः सक्रोशं योजनं यावद् यत् कार्पटिकैः परिभुक्तं 'विप्रकीर्ण' पूर्वं परिभुज्य ततोऽकिञ्चित्करमिति मत्वा परिष्ठापितं तत् तिष्ठन्त एव व्याघातार्थं निरीक्षन्ते ॥कः पुनर्व्याघाः ? इति चेद् उच्यते[भा.४२६७] अद्धाणनिग्गतादि, झामिय वूढे व सेह परिजुन्ने । आगंतु बाहि पुब्,ि दि8 अस्सनि-सन्नीसु॥ कृ-अध्वनिर्गतादयः साधवआगच्छेयुः, गलीयो वा उपधि 'ध्यामितः' दग्धो भवेत्, उदकेन वाव्यूढः, “शैक्षोवा" अवश्यप्रव्राजनीयः पुराणादिरुपस्थितः, परिजीर्णो वा उपधि, एतैः कारणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy