________________
उद्देशकः३, मूलं-९४, [भा. ४२४०
४५७
द्वितीयसमवसरणे एते सर्वेऽपिदोषास्तस्य साधोः कल्पन्ते; यथा अत्रैव सूत्रेऽभिहितम्- "कल्पन्ते द्वितीयसमवसरणे उद्देशप्राप्तानि चेलानि प्रतिग्रहीतुम्" अतोऽपि ज्ञायते द्वितीयसमवसरणे द्वाचत्वारिंशद्दोषदुष्टमपि कल्पते । एवं कश्चित् परो भणेत् तत्र सूरिराह-द्वयोरपि समवसरणयोर्न कल्पन्ते । भूयोऽपि परः प्राह-यद् यूयं द्वितीयेऽपि समवसरणे प्रतिषेधयथ तन्न युज्यते, यतः 'श्रुतं' सूत्रमेव “कल्पते" इति ब्रुवाणमनुज्ञा सूचयति ॥अपि च[भा.४२४१] एवं सुत्तविरोधो, दोच्चम् िकप्पति त्तिजं भणितं ।
सुत्तनिवातो जम्मित, तं सुण वोच्छं समासेणं ।। वृ एवं भवतां सूत्रेण समं विरोधः प्राप्नोति, यतः सूत्रे "द्वितीये समवसरणे कल्पते" इति भणितम् । अथ गुरुराह-सर्वमप्येतदाकाशरोमन्थनमिव लक्ष्यते, सूत्राभिप्रायमनवबुध्यैव यथातथाप्रलपनात् । कः पुनः सूत्राभिप्रायः ? इति चेद् अत आह-यस्मिन्नर्थे सूत्रस्य निपातःअवतारस्तं शृणु 'समासेन' सङ्केपेण वक्ष्येऽहम् ॥ [भा.४२४२] समोसरणे उद्देसे, छविधे पत्ताण दोण्ह पडिसेधो ।
. अप्पत्ताण उ गहणं, उवधिस्सा सातिरेगस्स ।। वृ-प्रथमसमवसरणं ज्येष्ठावग्रहो वर्षावास इति चैकार्थम् । द्वितीयसमवसरणम् ऋतुबद्ध इति चैकार्थम् । तत्र उद्देशस्तद्विषयः षड्विधो निक्षेपः कर्तव्यः । “पत्ताण दुण्ह पडिसेहो" त्ति आर्षत्वाद्विभक्तिव्यत्यये 'द्वाभ्यां क्षेत्र कालाभ्यां प्राप्तानां वस्त्रदिग्रहणेप्रतिषेधोभवति, अप्राप्तानां तुसातिरेकस्योपधेर्ग्रहणं भवति इति नियुक्तिगाथासमासार्थः ॥अथ विस्तरार्थ उच्यते-तत्रोद्देशः षोढा-नामोद्देशः स्थापनोद्देशः द्रव्योद्देशः क्षेत्रोद्देशः कालोद्देशो भावोद्देशश्चेति।नामोद्देशोयस्योद्देश इति नाम क्रियते । स्थापनोद्देश उद्देशवतः पुरुषादेःस्थापना । द्रव्योद्देशं ज्ञ-भव्यशरीरव्यतिरिक्तं स्वयमेव भाष्यकृदाह[भा.४२४३] दवेणं उद्देसो, उद्दिस्सति जो द जेन दव्वेणं ।
दव्यं वा उद्दिसते, दव्वभूओ तदट्ठी वा ॥ वृ- 'द्रव्येण' रजोहरणादिना यद् उद्देशः क्रियते स द्रव्योद्देशः । यो वा 'येन' सचित्तादिना द्रव्येणोद्दिश्यते, तत्र सचित्तेन यथा-गोभिर्गोमान्, तुरगैस्तुरगपति, गजैर्गजपतिरिति; अचित्तेन यथा-दण्डेन दण्डी, छत्रेण छत्री, कपालेन कपालीत्यादि; मिश्रेण यथा-शकटेन शाकटिकः, रथेन रथिक इत्यादि । द्रव्यंवा व्याधिप्रशमनं यदुद्दिशति, अमुकमौषधद्रव्यं भवता ग्रहीतव्यमिति। 'द्रव्यभूतोवा' ज्ञाता अनुपयुक्तो यद् अङ्ग-श्रुतस्कन्धादिकमुद्दिशति । 'द्रव्यार्थी वा द्रव्यनिमित्तं धनुर्वेदादिकं यदुद्दिशति एष सर्वोऽपि द्रव्योद्देशः ॥ [भा.४२४४] खित्तम्मि जम्मि खित्ते, उद्दिस्सति जो व जेन खेत्तेन ।
एमेव य कालस्स वि, भावो उ पसत्थमपसत्यो। वृ-क्षेत्रोद्देशे चिन्त्यमाने यस्मिन् क्षेत्रे अङ्ग-श्रुतस्कन्धादेरुद्देशः क्रियते व्यावण्यते वा; यो वा येन क्षेत्रेणोद्दिश्यते-अभिधीयते, यथा-भरते भवो भारतः, सुराष्ट्रायां भवः सौराष्ट्रः, मगधेषु भवो मागध इत्यादि । एवमेव च यस्मिन् काले अङ्गादिकमुद्दिश्यते, येन वा कालेनोद्दिश्यते, यथासुषमायां भवः सौषमः, शरदि जातः शारद इत्यादि; एष कालोद्देशः । भावोद्देशो द्विधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org