________________
४५८
प्रशस्तोऽप्रशस्तश्च || उभयमपि दर्शयति[ भा. ४२४५]
बृहत्कल्प-छेदसूत्रम् - २-३/९४
कोहाई अपसत्थो, नाणामादी य होइ उ पसत्थो । उदओ वि खलु पसत्थो, तित्थकरा -ऽऽहारउदयादी ॥
I
- क्रोध- मानादिरौदयिको भावो अप्रशस्तो भावोद्देशः । ज्ञान-दर्शनादि क्षायोपशमिक औपशमिकः क्षायिको वा भावः प्रशस्तो भावोद्देशो भवति । 'उदयोऽपि' औदयिकभावोऽपि तीर्थकरा - SSहारक-यशः कीत्यार्दिनामकर्मोदयरूपः प्रशस्तो भवति । आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोभ्यात् । अत्र क्षेत्रोद्देशेन कालोद्देशेन चाधिकारः, शेषास्तु विनेयव्युत्पादनार्थमुच्चरितार्थसध्शा इति कृत्वा प्ररुपिताः । तदत्र परेण यद् उद्गमौद्देशिकं प्रतिपादितं तद् नाधिकृतमिति स्थितम् ॥ अथ “प्राप्तानाम्” इति पदं व्याख्याति
[भा. ४२४६] खित्तेण य कालेण य, पत्ता ऽपत्ताण होति चउभंगो । दोहि वि पत्तो ततिओ, पढमो बितिओ य एक्केणं ॥
वृ-क्षेत्रेण कालेन च प्राप्ता-Sप्राप्तानां चतुर्भङ्गी भवति क्षेत्रेण प्राप्ता न कालेन १ काले प्राप्ता न क्षेत्रेण २ कालेन च प्राप्ताः ३ नापि क्षेत्रेण नापि कालेन ४ । अत्र तृतीयो भङ्गो द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्तः, चतुर्थ पुनरुभाभ्यामप्यप्राप्तः ॥ अथामूनेव भङ्गान् भावयति
[भा. ४२४७] वासाखित्त पुरोख, उडुबद्ध ठियाण खेत्तओ पत्तो । अद्धाणमादिएहिं, दुल्लभखित्ते व बीओ उ ।।
वृ- वर्षाक्षेत्रे 'पुरस्कृतं ' प्रथमत ऋतुबद्धकाले स्थितानां 'क्षेत्रतः प्राप्ताः' इति प्रथमो भङ्गो भवति । इयमत्र भावना ऋतुबद्धे चरमो मासकल्पो यत्र कृतः अन्यच्च वर्षावासप्रायोग्यं क्षेत्रं नास्ति ततस्तत्रैव वर्षावासं कर्तुकामा आषाढपूर्णिमामद्याप्यप्राप्नुवन्तः क्षेत्रतः प्राप्ता न कालत इत्याद्यो भङ्गो भवति । अध्वप्रतिपन्नतादिभि कारणैर्दुर्लभे वा वर्षावासप्रायोग्ये क्षेत्रेऽपान्तराल एव आषाढपूर्णिमा सञ्जाता एवं द्वितीयो भङ्गो भवति ।।
[ भा. ४२४८ ] आसाढपुन्निमाए, ठिया उ दोहिं पि होंति पत्ता उ । तत्येव य पडिसिज्झइ, गहणं न उ. सेसभंगेसु ॥
वृ- वर्षाक्षेत्रे आषाढपूर्णिमायां ये स्थितास्ते द्वाभ्यामपि क्षेत्र - कालाभ्यां प्राप्ता भवन्ति । आषाढपूर्णिमामप्राप्तानामन्तरा अध्वनि वर्तमानानां ऋतुबद्धे मासकल्पेन वा अन्यत्र क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति । अत्र च 'तत्रैव' तृतीयभङ्ग एव वस्त्रदीनां ग्रहणं प्रतिषिध्यते, न 'शेषेषु' प्रथम-द्वितीय- चतुर्थभङ्गेषु, एकतरेण द्वाभ्यां वा अप्राप्तत्वात् । एतेन " दोण्ह पडिसेहो " त्ति व्याख्यातम् । अथ “अप्पत्ताण तु गहणं, उवहिस्सा साइरेगस्स" त्ति पश्चार्धं व्याचिख्यासुराह[भा. ४२४९] दुण्ह जओ एगस्सा, निप्फज्जति जं व होति वासासु । अग्गहणम्मि वि लहुगा, तस्थ वि आणादिणो दोसा ||
वृ- इह वर्षाकाले क्षेत्र - कालाभ्यामप्राप्तैरेव सातिरेक उपधिग्रहीतव्यः । कियत्प्रमाणः ? इति चेद् उच्यते-द्वयोर्जनयोः सम्बन्धिना यावतोपकरणेनैकस्य साधोर्योग्यः परिपूर्ण प्रत्यवतारोऽतिरिक्तो निष्पद्यते यच्च वर्षासु वर्षाकल्पादिकमुपयुज्यते तदात्मनो योग्यं द्विगुणं भवति, इयत्प्रमाणं ग्रहीतव्यम् । इदमुक्तं भवति एकैकः साधुरर्धतृतीयान् प्रत्यवतारान् गृह्णाति । किं कारणम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org