________________
४५६
बृहत्कल्प-छेदसूत्रम् -२-३/९४
इति । अतो वर्षाकालाख्ये प्रथमे ओसरणे' समवसरणेअग्राह्यं तद्वस्त्रम्, द्वितीयेतुऋतबद्धाख्ये ग्राह्यमिति निरूपणाय इदं समवसरणसूत्रमारभ्यते ।। [मा.४२३६] अहवा वि सउवधीओ, सेहो दव्वं तु एयमक्खायं ।
तं काले खित्तम्मिय, गझं कहियं अगझंवा ।। वृ-अथवा पूर्वसूत्रे सोपधिकशैक्षलक्षणं द्रव्यमेतदाख्यातम् । तद् द्रव्यं कुत्र काले क्षेत्रे वा ग्राह्यम् ? कुत्र वा अग्राह्यम? इत्यधुना प्रतिपाद्यते ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-“नो कप्पई"त्ति आर्षत्वादेकवचनम् । नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रथमसमवसरणेवर्षाकाले उद्देशः-क्षेत्र-कालविभागस्तं प्राप्तानि प्रथमसमवसरणोद्देशप्राप्तानि चेलानि' वस्त्राणि प्रतिग्रहीतुम् । किमुक्तं भवति?- इह साधवो यत्र वर्षावासं चिकीर्षवस्तत् क्षेत्रं यावद् नाद्यापि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगति तावत् कल्पन्ते वस्त्राणि प्रतिग्रहीतुम् । अथ वर्षावासप्रायोग्यं क्षेत्रं प्राप्ताः आषाढपूर्णिमा च साता तत इयन्तं क्षेत्र-कालिवभागं प्राप्तानि वस्त्रणि न कल्पन्ते । द्वितीयसमोसरणोद्देशप्राप्तानि तु कल्पन्ते । इति सूत्रस पार्थः ॥ .
साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाह[भा.४२३७ पढमम्मि समोसरणे, उद्देसकडं न कप्पती जस्स ।
तस्स उ किं कप्पंती, उग्गमदोसा उ अवसेसा ।। वृ-इह परः प्रस्तुतसूत्रस्य सूरिपरम्परायातमनन्तरोक्तमर्थमनवबुध्यमानः प्रेरयति-ननु च सूत्रे “उद्देसपत्ताई' ति यत् पदंतस्यायमर्थ-उद्देशनमुद्देशः-औद्देशिकाख्यो द्वितीय उद्गमदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, एतच्च न युज्यते, यतो यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादि न कल्पते तस्य अवशेषाः आधाकर्मादयः पञ्चदशोद्गमदोषाः किं कल्पन्ते ? यदेवमुद्देशकृतमेव प्रतिषिध्यते ॥पर एव सूरीणामभिप्रायमाशङ्य परिहरति[मा.४२३८] उद्देसग्गहणेण व, उग्गमदोसा उ सव्वे जति गहिता।
उप्पादनादि सेसा, तम्हा कप्पंति किं दोसा ।। वृ-अथ “एकग्रहणे तज्जातीयग्रहणम्" इति न्यायाद्उद्देशग्रहणेन सर्वेऽप्युद्गमदोषा गृहीताः; एव तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते? येनोद्गमदोषा एव गृह्यन्ते ।।
पर एवाचार्यस्याशयमाशङ्कमान इदमाह[भा.४२३९] अहवा उद्दिस्स कता, एसणदोसा वि होति गहिता तु।
आदीअंतग्गहणे, गहिया उप्पादना वितहिं॥ वृ-अथवा यस्मादेषणादोषा अपि साधून् ‘उद्दिश्य' प्रणिधायकृताः अत उद्देशग्रहणेन तेऽपि गृहीताः । एवंच आद्यस्य-उद्गमदोषकलापस्य अन्त्यस्यच-एषणादोषजालस्य ग्रहणे उत्पादनादोषा अपि गृहीता अत्र मन्तव्याः, "आद्यन्तग्रहणे मध्यस्यपि ग्रहणम्" इति न्यायात् । अतो द्वाचत्वारिंशदपि दोषा न कल्पन्ते इति सिद्धम् । एवमाचार्यस्याकूतमाशङ्ग्य दूषणान्तरमाह[भा.४२४०] एए अतस्स दोसा, उडुबद्धे जं च कप्पते घित्तुं।।
. कोई भणिज्ज दोसुवि, न कप्पति सुतं तु सूएति ।। वृ-यद्येवं सामध्यार्कषप्ता द्वाचत्वारिंशदपिदोषाः प्रथमसमवसरणेप्रतिषिद्धास्तर्हि ऋतुबद्धाख्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org