SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं- ९२, [ भा. ४२३१ ] ४५५ स्तारेण बद्धमूलोऽपि चाल्यते, गृहवासं त्याजयित्वा संयमरूपे स्त्रोतसि प्रक्षिप्य गच्छरत्नाकरं प्राप्यत इति भावः ॥ अथ जानाना - ऽजानानविषयं विधिविभागमाह [भा. ४२३२] कप्पा-5 कप्पविसेसे, अणधीए जो उ संजमा चलिओ । पुव्वगमो तस्स भवे, जाणंते जाइनं सुद्धाई ॥ - वस्त्र - पात्रादिविषये कल्पा- कल्पविशेषे अनधीते सति यः संयमात् चलितस्तस्य पूर्वप्राक्तनो गमः-प्रकारो भवति यथा शैक्षगृहस्थस्योक्तः । यस्तु कल्पा ऽकल्पविधिं जानाति तस्य सर्वाणि शुद्धान्येव ग्रहीतुं कल्पन्ते, न क्रीतादिदोषदुष्टानि ॥ मू. (९३) निग्गंधीए णं तप्पढमयाए संपव्वयमाणीए कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । सा य पुव्वोवट्टिया सिया एवं से नो कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पइ से अहापरिग्गहिएहिं वत्थेहिं आयाए संपव्वइत्तए । वृ- अस्य व्याख्या प्राग्वत् । नवरं निर्ग्रन्ध्याश्चतुर्भि प्रत्यवतारैः सहितायाः प्रव्रजितुं कल्पते इति विशेषः ॥ अथ भाष्यम्[ मा. ४२३३] एसेव गमो नियमा, निग्गंधीणं पि होइ नायव्वो । जाणंतीणं कप्पति, घेत्तुं जे अधापरिग्गहिते ॥ वृ- एष एव गमो निर्ग्रन्थीनामपि भवति ज्ञातव्यः । सा च पूर्वोपस्थिता स्यादिति अत्र सूत्रे तासां कल्पा Sकल्पविभागं जानतीनां यानि 'यथापरिगृहीतानि' शुद्धानि तानि कल्पन्ते ग्रहीतुम् । " जे " इति वाक्यालङ्कारे ॥ [ मा. ४२३४ ] समणीणं नाणत्तं, निज्जोगा तासि अप्पणो चउरो । चउरो पंच व सेसा, आयरिगादीण अट्ठाए || वृ-निर्ग्रन्येभ्यः सकाशात् श्रमणीनामिदं 'नानात्वं' विशेष उच्यते- 'तासां' प्रव्रजन्तीनामात्मनो योग्याश्चत्वारो निर्योगा भवन्ति, शेषास्तु आचार्यादीनामर्थाय चत्वारो वा पञ्च वा । तत्र यदा चत्वारस्तदा एकमाचार्यस्य द्वितीयं प्रवर्तिन्याः तृतीयं गणावच्छेदिन्याः चतुर्थं सङ्घाटकसाध्व्याः प्रयच्छति । यदा तु पञ्च तदा चत्वारस्तथैवाचार्यादीनां पञ्चमः पुनरुपाध्यायस्य योग्य इति चूर्ण्यभिप्रायः । बृहद्भाष्यकारः पुनराह चत्तारि अप्पणी से, चउरो पंचऽ हव सेसगा हुंति । आयरिय उवज्झाए, पवत्तिनिऽभिसेय संघाडे ।। पंचेए निजोगा, अभिसेगा वज्र हुंति चत्तारि । त्ति ।। मू. (९४) नो कप्पइ निग्गंथाण वा निग्गंधीण या पढमसमोसरणुद्देसपत्ताई चेलाई पडिग्गहित्तए । कप्पइ निग्गंधाण वा निग्गंथीण वा दोच्चसमोसरणुद्देसपत्ताई चेलाई पडिग्गहित्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह [ भा. ४२३५ ] दिट्टं वत्थग्गहणं, न प वृत्तो तस्स गहणकालो उ । ओसरणम्मि अगेज्झं तेन समोसरणसुत्तं तु ॥ } वृ-पर्वसूत्रे वस्त्रग्रहणं ष्टम्, न च 'तस्य' वस्त्रस्य ग्रहणकाल उक्तः, कदा कल्पते कदा चन? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy