________________
४५२
बृहत्कल्प-छेदसूत्रम् -२-३/९२
कुत्रिकापणे भाण्डमूल्यस्य 'निष्कं' परिमाणं भवति, न प्रतिनियतं किमपीति भावः । इतिशब्दः स्वरूपोपदर्शने ।। [भा.४२१७] एवं ता तिविह जणे, मोल्लं इच्छाए दिज बहुयं पि।
सिद्धमिदं लोगम्मि वि, समणस्स विपंचगंभंडं । वृ- एवं तावत् 'त्रिविधे' प्राकृत-मध्यमोत्तमभेदभिन्ने जने 'मूल्यं पञ्चकादिरूपकपरिमाणं जघन्यतो मन्तव्यम् । इच्छया तु 'बपि यथोक्तपरिमाणादधिकमपि प्राकृतादयो दद्युः, न कोऽप्यत्र प्रतिनियमः । न चैतदत्रैवोध्यते, किन्तु लोकेऽपि 'सिद्धं' प्रततमिदम्, यथा-श्रमणस्यापि ‘पञ्चकं पञ्चरुपकमूल्यं भाण्डं भवति । इह च रूपको यस्मिन् देशे यद् नाणकं व्यवह्रियते तेन प्रमाणेन प्रतिपत्तव्यः ॥ अथ कुत्रिकापणः कथमुत्पद्यते? इत्याह[भा.२१८] पुवभविगा उ देवा, मनुयाण करिति पाडिहेराई ।
लोगच्छेरयबूया, जह चक्कीणं महानिहयो । वृ-'पूर्वभविकाः' भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां प्रातिहार्याणि' यथाभिलषितार्थोपढौकनलक्षणानि कुर्वन्ति । यथा लोकाश्चर्यभूताः ‘महानिधयः नैसर्पप्रभृतयः 'चक्रिणां' भरतादीनांप्रातिहार्याणि कुर्वन्ति। वर्तमाननिर्देशस्तकालमङ्गीकृत्याविरुद्धः । एवं कुत्रिकापणा उत्पद्यन्ते ॥ते चैतेषु स्थानेषु पुरा बभूवुः इति दर्शयति[मा.४२१९] उज्जेनी रायगिहं, तोसलिनगरे इसी य इसिवालो।
दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं।। वृ- उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उज्जयिनीकुत्रिकापणात् क्रीत्वा स्वबुद्धिमाहास्येन सम्यगाराधितः, ततस्तेन ऋषितडागं नाम सरः कृतम् । तथा राजगृहे श्रेणिके राज्यमनुशासति शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्याम् 'उपकरणं' रजोहरण-प्रतिग्रहलक्षणमानीत्, अतो ज्ञायते यथा राजगृहे कुत्रिकापण आसीदिति पुरातनगाथासमासार्थः ।।
साम्प्रतमेनामेव विवृणोति[भा.४२२०] पजोए नरसीहे, नव उजेनीय कुत्तिया आसी।
भरुयच्छवणियऽसद्दह, भूयऽहम सयसहस्सेणं ।। [भा.४२२१] कम्मम्मि अदिजंते, रुट्ठो मारेइ सो यतं घेत्तुं ।
'भरुयच्छाऽऽगम, वावारदान खिपंच सो कुणति॥ [भा.४२२२] भीएण खंभकरणं, एत्थुस्सर जान देमिवावारं ।
निज्जित भूततलागं, आसेन न पेहसी जाव ।। चू- चण्डप्रद्योतनाम्नि नरसिंहे अवन्तिजनपदाधिपत्यमनुभवति न कुत्रिकापणा उज्जयिन्या मासीरन्। तदा किल भरुयच्छाओएगोवाणियओअसद्दहंतो उज्जेनीए आगंतून कुत्तियावणाओ भूयं मग्गइ । तेन कुत्तियावणवाणिएण चिंतियं-'एस ताव मं पवंचेइ ता एवं मोल्लेण वारेमि' ति भणियं-जइ सयसहस्से देसि तो देमि भूयं । तेन तंपि पडिवनंताहे तेन भन्नइ-पंचरत्तं उदिक्खाहि तओ दाहामि । तेन अट्ठमंकाऊण देवो पुच्छिओ । सो भणइ-देहि, इमंच भणिहिज्ज-जइ कम्मन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org