________________
४५३
उद्देशक : ३, मूलं-९२, [भा. ४२२२] देसि तो भूओ तुमं उच्छाएहिइ । 'एवं भवउत्ति भणित्ता गहिओ तेन भूओ भणइ-कम्मं मे देहि । दिन्नं, तं खिप्पमेव कयं । पुनो मग्गइ, अन्नं दिन्नं । एवं सव्वम्मि कम्मे निट्टि पुनो भणइ-देहि कम्म। तेन भन्नइ-एत्थं खंभे चडुत्तरंकरेहि जाव अन्नं किंचि कम्मन देमि । भूओभणइ-अलाहि, पराजितो मि, चिंधं ते करेमि-जाव नावलोएसि तत्थ तलागं भविस्सइ । तेन अस्से विलग्गिऊण बारस जोयणाई गंतूण पलोइयं जाव तक्खणमेव कयं तेन भरुयच्छस्स उत्तरे पासे भूयतलागं नाम तलागं ।। अमुमेवार्थमभिधित्सुराह-"भरुयच्छ" इत्यादि । भरुकच्छवणिजा अश्रद्दधता 'भूतः' पिशाचिवशेषः कुत्रिकापणे मार्गितः । ततोऽष्टमंकृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितम्कर्मण्यदीयमाने अयं रुष्टः' कुपितो मारयतीति । स च भूतं गृहीत्वा भरुकच्छे आगमनं कृत्वा व्यापारदानं तस्य कृतवान् । स भूतस्तं व्यापारंक्षिप्रमेव करोति।ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पाश्र्थात् स्तम्भ एकः कारयाञ्चक्रे । ततस्तं भूतमभिहितवान्-यावद परं व्यापारंन ददामितावद 'अत्र' स्तम्भे 'उत्सर' आरोहा-ऽवरोहक्रियां करु इतिभावः। ततःसभूत उक्तवाननिर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि । अश्वेन गच्छन् यावद् ‘न प्रेक्षसे न पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति भणित्वा तथैव कृते भूततडागं कृतवान् । [मा.४२२३] एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ ।
निजित इसीतलागे, रायगिहे सालिभद्दस्स। वृ-'एवमेव' तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद् ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्चक्रे।तथा राजगृहे शालिभद्रस्य रजोहरणं प्रतिग्रहश्च कुत्रिकापणात् प्रत्येकं शतसहस्रेण क्रीतः ॥अथ सप्त निर्योगान् व्याचष्टे[भा.४२२४] तिन्निय अत्तद्रुती, चत्तारिय पूयणारिहे देति।
तिस्स य वित्तव्यो, सेहस्स विविंचणं वा वि ।। . वृ-सप्त निर्योगान् गृहीत्वा प्रव्रजतोऽयं गुणः- तेषां सप्तानां निर्योगाणां मध्यात् त्रीन्स शैक्षः 'आत्मार्थयति' आत्मनोऽर्थायगृह्णातीत्यर्थः; चतुरश्च निर्योगान् ‘पूजनार्हाणाम् आचार्योपाध्यायप्रवर्ति-सङ्काटकसाधूनां प्रयच्छति । तस्य चैवं प्रयच्छतो यद्यसौ निर्योगः शुद्धः ततो ग्रहीतव्यः । अथाशुद्धस्ततः शैक्षस्य दातव्यः । शैक्षस्याभावे 'विवेचनं' परिष्ठापनं तस्य क्रियते ॥
एवं तस्य त्रीन् निर्योगान् गृहीत्वा प्रव्रजितस्य यद् भवति तद् दर्शयति[भा.४२२५] सज्झाए पलिमंथो, पडिलेहणियाए सो हवइ सिग्गो।
एगंच देति तहितं, दोन्निय से अप्पणो हुँति॥ वृ-तस्य त्रीन् निर्योगान् उभयकालं प्रत्युपेक्षमाणस्य महान् स्वाध्यायविषयः परिमन्थो भवति। तया च महत्या प्रत्युपेक्षणया सः 'सिग्गः' परिश्रान्तो भवति । तत एवं निर्विनः सन् स एकं निर्योगं सूरीणां ददाति । प्रदत्ते च तस्मिन् तस्य द्वौ निर्योगावात्मनः सत्तायां भवतः ।।
एवमप्यसौ द्वाभ्यां निर्योगाभ्यां शेषसाधुभ्यो अन्याद्दश इव श्यते ततः[भा.४२२६] निगमने बहुभंडो, कत्तो कतरो व वाणिओ एइ।
_ बितियं पि देति तहियं, मा भंते ! दुल्लहं होज्जा ॥ वृ- मासकल्पे पूर्णे ततः क्षेत्राद् निर्गच्छतां स एवैकः 'बहुभाण्डः' बहूपकरणो दृश्यते ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org