________________
४५०
-
-
-
बृहत्कल्प-छेदसूत्रम् -२-३/९२ दृ-यथा गृहस्थेनात्मनोऽर्थाय आधाकर्म कृतं तद् ‘इतरेषां' सयंतानां परिभोक्तुं कल्पते, 'इति' अमुनैव ज्ञापकेन अस्माकमपि स शैक्षो गृहस्थ एवेति कृत्वा 'तेन परिगृहीतं' ममेदमिति बुद्धया स्वीकृतम् ‘इतरदपि' संयतनिर्दिष्टमपि कल्पते 'इतरेषां' साधूनाम् ॥ ये पुनराचार्या अविशोधिकोटिनिर्दिष्टं संछोभेऽपि कृते नेच्छन्ति ते इदं कारणमुपवर्णयन्ति[भा.४२०८] सहसानुवादिनातेन केइ निदिट्टके न इच्छंति।
____ अनिदिढे पुन छोभ, वदंति परिफग्गुमेतं पि॥ वृ-यथा सहस्रानुपाति विषं भक्ष्यमाणं सहस्रान्तरितमपि पुरुष मारयति, एवमाधाकर्माऽप्युपभुज्यमानं सहस्रन्तरितमपि साधुंसंयमजीविताद्व्यपरोपयतीति सहस्रानुपातिविपज्ञातेन केचिदाचार्या साधुनिमित्तं निर्दिष्टे संछोमेऽपि कृते नेच्छन्ति, अनिर्दिष्टे पुनः छोभं कृत्वा ददानस्य कल्पनीयं वदन्ति एतदपि परिफल्गु निस्सारं मन्तव्यम् । कथम् ? इत्याह[मा.४२०९] एयं पि सघरमीसेण सरिसगं तेन फग्गुमिच्छामो ।
दुविधं पि ततो गहियं, कपति रतणुचओ नातं ।। वृ-यत् ते आचार्यदेशीया अनिर्दिष्टं संछोभे कृते कल्पनीयं ब्रुवते एतदपि स्वगृहयतिमिश्रेण सध्शम्, तेन कारणेन परिफल्गु वयमिच्छामः । त्वदीयाभिप्रायेण ह्येतदपि स्वगृहयतिमिश्रमिति कृत्वाअकल्पनीयं प्राप्नोति, तच्चनिष्टम्; ततः द्विविधमपि' निर्दिष्टा-ऽनिर्दिष्टभेदाद् द्विप्रकारमपि तेन शैक्षण संछोभकरणेन 'अवगृहीतम् आत्मीकृतंसत् कल्पते।तथा चात्र 'रलोचयः' मेरुमहीधरः 'ज्ञात' दृष्टान्तः । यथा हि तत्र प्रक्षिप्तं तृणादिकमपि सुवर्णीभवति, एवं शैक्षगृहस्थेन परिगृहीत सर्वमपि कल्पनीयं भवति ।।अपिच[भा.४२१०] ज़ह उ कडं चरिमाणं, पडिसिद्धतं हि मज्झिमोग्गहिपं ।
पडिवनपंचजामे, कप्पति तेर्सि तहऽन्नेसि ।। दृ-यथा 'चरमाणां' दरमतीर्थकृतीर्थवर्तिनां पञ्चयामिकानां साधूनामर्याय किमपि वस्त्रं वा पात्रंवा कृतंतच्चतैः 'प्रतिषिद्धं नगृहीतम्, 'मध्यमैश्च' श्रीपार्श्वनाथतीर्थवर्तिसाधुभिश्चतुर्यामिकैस्तत् प्रतिगृहीतम् । ते च चतुर्यामिकाः पञ्चयामधर्मं प्रतिपन्नाः ततस्तद्वस्त्रादिकं तेषामन्येषामपि पञ्चयामिकानां परिभोक्तुं यथा कल्पते, एवमत्रापि साधूनामर्थाय कृतं तैः प्रतिषिद्धं शैक्षगृहस्थेनात्मार्थीकृतं स दीयमानं कल्पते ।। अथ संयोगद्वारं व्याख्याति[भा.४२११] उग्गम-विसोधिकोडी, दुगादिसंजोगओ बहू एत्थं । -
पत्तेग-मीसिगासु य, निद्दि तधा अनिद्दिष्ठा ।। कृ-इहउद्रमकोटिभेदाः-आधाकर्म-मिश्रजातादयस्तेषां द्विकादिसंयोगतः द्विकत्रिकचतुष्कादिसंयोगनिष्पन्ना बहवोऽत्र भङ्गका भवन्ति, ते च सुगमतया स्वयमभ्युह्य मन्तव्याः; एवं विशोधिकोटिभेदानामपि-क्रीतकृतादीनां द्विकादिसंयोगनिष्पन्नास्तथैव बहवो भङ्गकाः; एते च प्रत्येकभङ्गका उच्यन्ते । एतेषामेवोद्रमकोटिभेदानां विशोधिकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पना एवमेव बहवो भगका भवन्ति, तेच मिश्रमाका भण्यन्ते । सर्वेऽप्येते द्विधा-निर्दिष्टा अनिर्दिष्टाश्च । एतासु प्रत्येक-मिश्रासु भङ्गपङिषु कल्प्या-5कल्प्यविभागः प्रागुक्तप्रकारेणावसातव्यः ।। अथ वक्ष्यमाणार्थसम्बन्धनाय प्रस्तावनां करोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org